वृष्णीनां वासुदेवोऽस्मि...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
- मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य सप्तत्रिंशत्तमः(३७) श्लोकः ।
पदच्छेदः
सम्पादयतुवृष्णीनां वासुदेवः अस्मि पाण्डवानां धनञ्जयः मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥ ३७ ॥
अन्वयः
सम्पादयतुवृष्णीनां वासुदेवः अस्मि । पाण्डवानां धनञ्जयः । मुनीनाम् अपि अहं व्यासः । कवीनाम् उशना कविः ।
शब्दार्थः
सम्पादयतु- वृष्णीनाम् = यादवानाम्
- वासुदेवः अस्मि = कृष्णः अस्मि
- पाण्डवानाम् = पाण्डुपुत्राणाम्
- धनञ्जयः = अर्जुनः
- मुनीनाम् अपि = ऋषिषु अपि
- व्यासः = बादरायणः
- कवीनाम् = क्रान्तदर्शिनाम्
- उशना कविः = शुक्राचार्यः
अर्थः
सम्पादयतुयादवानां कृष्णः अस्मि । पाण्डवानां धनञ्जयः अहमेव अस्मि । मुनीनाम् अपि अहं व्यासः । क्रान्तदर्शिनां शुक्राचार्यः ।