वेङ्कटमाधवः

(वेङ्कटमाधव इत्यस्मात् पुनर्निर्दिष्टम्)

वेङ्कटमाधवः सम्पूर्णऋक्संहितायामुपरि स्वभाष्यं प्रणीतवान् । कतिपयैः आलोचकैः अनुमीयन्ते यदयं विद्वानृक्संहितायामुपरि भाष्यद्वयं लिलेख इति।

अनेन स्वरचितस्य प्रथमभाष्यस्य अन्तिमे भागे यः स्ववंशपरिचयः प्रदत्तः तदनुसारेणायं कौशिकगोत्रे जन्म गृहीतवान् । अस्य विदुषः पूर्वजाः अान्ध्रप्रदेशस्थितस्य दक्षिणापथीयचोलदेशे न्यवसन् । अस्य पिता वेङ्कटाचार्यः माता च सुन्दरीदेवी आसीत्। अस्य च मातृगोत्रो वसिष्ठ आसीत् । अस्यैकः सङ्कर्षणाख्यः अनुजोऽप्यासीत् । वेङ्कटगोविन्दाख्यौ द्वौ पुत्रौ आस्ताम् ।

अस्य कालनिर्णयार्थम् अनेकान्युपकरणानि सन्ति, यत्साहाय्येन अस्य समयः विशेषरूपेण निर्णेतुं शक्यते ।

( १ ) सायणाचार्यः ऋग्वेदस्य ( १०।।८६।९ ) एकस्मिन् मन्त्रभाष्ये माधवभट्टस्य सम्मत्याः उल्लेखं कृतवान् । अनेन माधवस्यास्य सायणात् पूर्ववर्त्तित्वं

सिद्ध्यति ।

( २ ) सप्तत्यधिकत्रयोदशविक्रमाब्दस्य पार्श्ववर्त्ती देवराजयज्वा स्वकीये भाष्यस्योपोद्घाते वेङ्कटाचार्यतनयमाधवस्य उल्लेखं निम्नरूपेण कृतवान् - 'श्रीवेङ्कटाचार्यतनयस्य माधवस्य भाष्यकृतौ नामानुक्रमण्याः पर्यालोचनात्...... क्रियते ॥' अनेनोद्धरणेन वेङ्कटपुत्रमाधवस्य देवराजयज्वनः पूर्ववर्त्तित्वं स्वयं सिद्धं भवति ।

( ३) विक्रमस्य त्रयोदशशतकात् पूर्ववर्ती कोशकारः केशवस्वामी स्वकीये प्रसिद्धकोषे नानार्थार्णवसङ्क्षेपाख्ये माधवाचार्यसूरिनाम्ना माधवस्यैव उल्लेखं कृतवान् -

'द्वयोस्त्वश्वे तथा ह्याह स्कन्दसाम्यृक्षु भूरिशः ।

माधवाचार्यसूरिश्च को अद्यतृचि भाषते।'

अयमाशयोऽत्र यदुभयलिङ्गे ‘गो'-शब्दस्यार्थः अश्वो भवति । स्कन्दस्वामी अपि ऋचां व्याख्यायाम् अयमेवार्थं स्वीकृतवान् । यथा माधवाचार्यसूरिः ‘को अद्य' ( ऋ० १।८॥४॥१६ ) इत्यस्याः ऋचः व्याख्यायां ‘गो'-शब्दस्यार्थम् ‘अश्वः' एव कृतवान् । वेङ्कटमाधवस्योक्तऋचः भाष्ये अयमेवार्थः प्राप्यते । अतोऽनेन निर्देशेन माधवस्य समयः विक्रमाब्दस्य त्रयोदशशतकात्पूर्वमेव सिद्धो भवति ।

माधवस्य समयः विक्रमाब्दस्य त्रयोदशशतकात्पूर्वकालिकोऽस्ति इति अनुमीयते। तथाऽस्य प्रामाणिकताऽपि स्कन्दस्वामिन इवाऽस्ति । अतोऽस्य समयो विक्रमीयद्वादश शतकस्य पार्श्ववर्त्ती इति निश्चीयते । पण्डितसाम्बशिवशास्त्रीमहोदयेन ऋग्वेदस्य स्कन्दस्वामिकृतभाष्यभूमिकायाम् अस्य समयः ख्रीष्टस्य १०५०-११५० ई. उक्तः अतः अस्य समयः एकादशशतकस्यादिभागः इति निश्चीयते ।

भाष्यम्

सम्पादयतु

माधवस्य भाष्यम् अत्यन्तसंक्षिप्तमस्ति । ‘वर्जयन् शब्दविस्तारं शब्दैः कतिपयैरिति ॥' इति लिखित्वा तथ्यमिदमयं स्वयं स्वीचकार । भाष्येऽस्मिन् केवलमन्त्रपदानामेव व्याख्याऽस्ति । संक्षिप्तीकरणस्य भावनया प्रेरितो भूत्वा भाष्यकारेण अत्र मूलपदानामपि समावेशः स्वभाष्ये अत्यल्पमेव कृतः । मात्रपर्यायवाचिपदानां सन्निवेशेनैव मन्त्राणाम् अर्थान् स्पष्टयितुं माधवः प्रयत्नं कृतवान् । भाष्यस्यास्य अध्ययनेन मन्त्राणामर्थः सुगमतयैव ज्ञातो भवितुमर्हति । स्कन्दस्वामिनः भाष्यापेक्षयाऽपि भाष्यम् अयमतिसंक्षिप्तम् अस्ति । व्याकरणजन्यतथ्यानां निर्देशस्तु अस्मिन् भाष्ये नास्त्येवेति । प्रायः सर्वत्र ब्राह्मणग्रन्थानां प्रामाण्यं सुष्ठुतया सन्निविष्टोऽस्ति, येन माधवस्य ब्राह्मणग्रन्थेषु विशेषव्युत्पत्तिः प्रतीतो भवति । वेदानां गूढार्थावबोधने ब्राह्मणग्रन्थाः नितान्तोपयोगिनः इति माधवेनोक्तम् । तस्य कथनमस्ति—

‘संहितायास्तुरीयांशं विजानन्त्यधुनातनाः ।

निरुक्तव्याकरणयोरासीत् येषां परिश्रमः ॥

अथ ये ब्राह्मणार्थानां विवेक्तारः कृतश्रमाः ॥

शब्द रीतिं विजानन्ति ते सर्वं कथयन्त्यपि ।'

इयम् आस्था ब्राह्मणग्रन्थान् प्रति माधवाचार्यस्य । अनेन प्रकारेण ब्राह्मणानाम् अनुकूलो वेदार्थप्रतिपादनस्य भाष्यम् अयम् उदाहरणमस्ति । दिल्लीनगरीतो मोतीलालबनारसीदासेन प्रकाशितमिदं भाष्यम् अस्य सम्पादक: डा. लक्ष्मणस्वरूपोऽस्ति ।

 सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=वेङ्कटमाधवः&oldid=441055" इत्यस्माद् प्रतिप्राप्तम्