ऋग्वेदसंहिता हिन्दुधर्मस्य आकरग्रन्थेषु प्राचीनतमा वर्तते । अस्याः संहितायाः सुमहान् भागः इन्द्र-वरुण-अग्निप्रभृतीनां प्रार्थनासूक्तिभिः युक्ता अस्ति ।
प्रामुख्येण त्रयस्त्रिंशत् वैदिकदेवताः निर्दिश्यन्ते -

  1. अष्ट वसवः
  2. एकादश रुद्राः
  3. द्वादश आदित्याः
  4. इन्द्रः
  5. प्रजापतिः

एते देवताः पृथ्वी-द्युः-अन्तरिक्षेषु कार्यरताः सन्ति । एताः देवताः विहाय विश्वासादीनां गुणानां विषये कोपादिभावानां विषये सूर्योदयादिप्राकृतिकवस्तुविषये च अस्यां संहितायां विवरणं प्राप्तुं शक्नुमः । बह्वीनां स्त्रीदेवतानां विषये च अत्र बोधनम् अस्ति ।

एकं सत्विप्रा बहुधा वदन्ति इत्येताम् ऋग्वेसूक्तिम् अनुसृत्य एकः एव देवः बहुधा आहूयते निर्दिश्यते च इति वक्तुं शक्नुमः ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वैदिकदेवताः&oldid=419401" इत्यस्माद् प्रतिप्राप्तम्