शङ्कराभरणम् (रागः)

आरोहणम् स रि प ध नि
अवरोहणम् स नि प म रि
रागसङ्ख्या२९ मेलकर्तृरागः
जीवस्वराःग, म, प, नि
न्यासस्वराःग, म, नि, स
रसःश्रिङ्गार:, वीर:
समयःसायङ्कालराग:
जन्यरागःअटानरागः, आरभिेाग:, बेगाराग:, देवगान्धारिराग:
प्रसिद्धकीर्तनानिदेवीजगज्जननी, सारोजदलनेत्री , चलमेला, श्रीदक्षिणामूर्ते , शङ्कराचार्यम्


कर्णाटकसंगीतस्य ७२ मेळकर्तारागव्यवस्थायां २९तमः मेळकर्तारागः अस्ति शङ्कराभरणम्। तस्य वास्तविकं नाम अस्ति धीरशङ्करभारणम्। एषः राग: रक्तिरागः सम्पूर्णरागः अपि। अयं रागः हिन्दुस्तानीसङ्गीतव्यवस्थायां बिलावलरागस्य समतुल्यः अस्ति। पाश्चात्यसमतुल्यः प्रमुखः स्केलः (the major scale), अथवा अयोनियन् मोड् (ionian mode) अस्ति। अयं रागः भिन्न-भिन्न-सङ्गीतशैलीषु भिन्न-भिन्न-नाम्ना प्रसिद्धः। अतः, अयं रागः विश्वे लोकप्रियतमेषु रागेषु अन्यतमः इति मन्यते।

रागलक्षणानि सम्पादयतु

वेङ्कटमखि: तस्य "रागलक्षण" इति ग्रन्थे एतस्य रागस्य लक्षणम् वदति -

।।शङ्कराभरणम् पूर्णं सायं गेयं च सग्रयम् ।।

शङ्कराभरणराग: मेलकर्तृरागव्यवस्थायाम् २९ राग:। बाणचक्रे अस्ति अयं राग: । अस्मिन् रागे षड्जम् , चतुश्रुति ऋषभम्, अन्तरगान्धारम्, शुद्धमद्यमम् , चतुश्रुति धैवतम् ,काकलि निशादम् च । शुद्धमद्यमस्य सथाने प्रतिमद्यमम् स्थापयति चेत्, मेचकालयाणिराग: आगच्छति । सायंकाले एव गातव्यम् अयम् राग: । सङ्गीतचूडामणि" इति ग्रन्थे गोविनद: वदति - "रौद्रस्वरयुतं धीरशङ्कराभरणम्" इति। अत: शङ्कराभरणस्य भाव: वीर: अथवा रौद्र: । ग्रहभेदात् हनुमत्तोडि, नटभैरवी, हरिकाम्बोधि, इत्यादि रागा: आगच्छनति । अध: शङ्कराभरणरागे ग्रहभेदस्य विषये अस्ति ।

राग: मेल: # C D E F G A B C D E F G A B C
शङ्कराभरणराग: 29 S R2 G3 M1 P D2 N3 S' R2' G3' M1' P' D2' N3' S' '
खरहरप्रियाराग: 22 S R2 G2 M1 P D2 N2 S'
हनुमत्तोडिराग: 08 S R1 G2 M1 P D1 N2 S'
कल्याणिराग: 65 S R2 G3 M2 P D2 N2 S'
हरिकाम्बोधिराग: 28 S R2 G3 M1 P D2 N2 S'
नटभैरविराग: 20 S R2 G2 M1 P D1 N2 S'
अस्य रागस्य नाम नास्ति -- S R1 G2 M1 M2 D1 N2 S'
शङ्कराभरणराग: 29 S R2 G3 M1 P D2 N3 S'

जन्यरागा: सम्पादयतु

अस्य रागस्य बहव: जन्यरागा: सन्ति । तेषु रागेषु मुख्यरागा: सन्ति - अटानाराग:, बेगडाराग:, बिलहरि, नीलाम्बरी, केदारम् बेहाग् च ।

प्रसिद्धकीर्तनानि सम्पादयतु

प्राय: सर्वे रचनाकारा: अस्मिन् रागे रचितवन्त:। अधोsस्ति केचन प्सिद्धकीर्तनानि -

  1. "दक्षिणामूर्ते", "अक्षयलिङ्ग विभो", "सादशिवम् उपास्महे", "श्रीकमलाम्बा" च - मुत्तुस्वामी दीक्षीत:, संस्कृतभाषा
  2. "पोगडिरेलो रङ्गा - पुरन्दरदास:, तेलुगुभाषा
  3. "चमेल" (वर्णम्), "देवीजगज्जननी" - स्वातितिरुणाल्, संस्कृतभाषा
  4. "सरोजदलनेत्री", "देवीमीननेत्री" - श्यामाशास्त्री
"https://sa.wikipedia.org/w/index.php?title=शङ्कराभरणम्_(रागः)&oldid=475196" इत्यस्माद् प्रतिप्राप्तम्