शनैः शनैरुपरमेद्...

भगवद्गीतायाः श्लोकः ९.२५

श्लोकः सम्पादयतु

 
गीतोपदेशः
शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य पञ्चविंशतितमः(२५) श्लोकः

पदच्छेदः सम्पादयतु

शनैः शनैः उपरमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चित् अपि चिन्तयेत् ॥

अन्वयः सम्पादयतु

सङ्कल्पप्रभवान् सर्वान् कामान् अशेषतः त्यक्त्वा, मनसा एव समन्ततः इन्द्रियग्रामं विनियम्य,धृतिगृहीतया बुद्ध्या शनैः शनैः उपरमेत् । मनः आत्मसंस्थं कृत्वा किञ्चित् अपि न चिन्तयेत् ।

शब्दार्थः सम्पादयतु

सङ्कल्पप्रभवान् = सङ्कल्पजनितान्
सर्वान् = सकलान्
कामान् = अभिलाषान्
अशेषतः = निरवशेषान्
त्यक्त्वा = परित्यज्य
मनसा एव = चित्तेन एव
समन्ततः = सर्वतः
इन्द्रियग्रामम् =इन्द्रियसमुदायम्
विनियम्य= निरुध्य
धृतिगृहीतया = धैर्यसहितया
बुद्ध्या = मत्या
शनैः शनैः = मन्दं मन्दम्
उपरमेत् = विश्रामयेत्
मनः = चित्तम्
आत्मसंस्थम् = स्वनिम्
कृत्वा = विधाय
किञ्चित् अपि = किमपि
न चिन्तयेत् = न भावयेत् ।

अर्थः सम्पादयतु

सङ्कल्पात् जायमानान् सर्वान् अपि कामान् त्यजेत् । विवेकयुक्तेन मनसा इन्द्रियसमुदायं समन्ततः नियन्त्रयेत् । धैर्येण गृहीतया बुद्ध्या सावधानतया तम् इन्द्रियसमुदायं प्रशमयेत् । मनः आत्मनि एव संस्थितं यथा स्यात् तथा कुर्यात् । ततः किञ्चिदपि नैव चिन्तयेत् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शनैः_शनैरुपरमेद्...&oldid=482168" इत्यस्माद् प्रतिप्राप्तम्