शरावती काचन नदी या शिवमोग्गमण्डलस्यतीर्थहळ्ळी इति उपमण्डले अम्बुतीर्थ इति स्थानात् उद्भवति । एषा उत्तरपश्चिमाभिमुखं प्रवहति । विश्वप्रसिद्धः जोगजलपातः अनया सञ्जाता । एषा होन्नावरस्थाने सिन्धुसागरं प्रविशति। एषा १२० किलोमीटर्पर्यन्तं प्रवहति।होन्नावरे अस्याः नद्याःसेतुः कर्णाटाके एव अतेदीर्घः । जोगप्रदेशे शरावती९०० पादपरिमितात् पतित्वा जलपातं निर्मितवती। सागरसमीपि लिङ्गनमक्कि इति प्रदेशे अस्याः जलबन्धः निर्मितः अस्ति ।जलबन्धस्य अधः शरावतिजलविद्युदागारस्य कार्यं प्रचलति ।दीर्घकालं यावत् कर्णाटकस्य विद्युच्छक्तिं एषा पूरयति स्म ।

[[वर्गः:

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=शरावती&oldid=419406" इत्यस्माद् प्रतिप्राप्तम्