शालिकनाथः प्रभाकरमतानुगामिनां मध्ये शिष्यमूर्धन्यः ।

कुसुमाञ्जलिकारेण उदयनाचार्येण ‘गौडमीमांसकः’ उद्धृतः। गौडमीमांसकशालिकनाथयोरभिन्नता च वरदराजाचार्यः ‘बोधिनी’ इति टीकायां वदति। ततश्च गौडदेशवासी अयमिति सिद्ध्यति।

नवमशतकोत्पन्नेन वाचस्पतिमिश्रेण शालिकनाथविरचितात् ‘ऋजुविमलापञ्चिका’ इति व्याख्यानग्रन्थात् बहूनि वचनानि उद्धृतानि। तेन च मिश्रात् प्राचीनोऽयमिति सिद्ध्यति। शालिकनाथश्च मण्डनमिश्रवचनान्युद्धृतवान्। ततश्च मण्डनात् अर्वाचीनत्वमस्य सिद्ध्यति। एवञ्च नवमशतकात्प्राक् अयमुत्पन्नः इति वक्तुं शक्यते।

महाभागेनानेन पञ्चिकात्रयं लिखितम्−

१) ऋजुविमलापञ्चिका− प्रभाकरविरचितबृहतीग्रन्थमधिकृत्य टीकेयं रचिता।

२) दीपशिखा− लघ्वीव्याख्यानस्य टीकेयम्।

३) प्रकरणपञ्चिका− स्वतन्त्रोऽयं प्रभाकरसम्प्रदायमतपोषकः प्रकरणग्रन्थः। ग्रन्थेऽस्मिन् स्वाध्यायविधिः, पञ्चप्रमाणानि, आत्मविचारः, वाक्यार्थावगमः इत्यादिविषया विस्तरेण चर्चिताः।

उद्धरणम्

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=शालिकनाथः&oldid=395920" इत्यस्माद् प्रतिप्राप्तम्