शिवगङ्गाजलपातः कर्णाटकस्य उत्तरकन्नडमण्डलस्य शिरसितालूकुमध्ये शाल्मलानद्या निर्मितः । शिरसिपत्तनतः ४०कि.मी.दूरे वानळ्ळिसमीपे कानने एषः जलपातः घोषं करोति । वानळ्ळितः जड्डिगद्दे मार्गे १०कि.मी. दूरं गच्छति चेत् शिवगङ्गाजलपातः दृश्यते । अत्र शाल्मलानदी ३५९पादमिते कन्दरे तिसृषु शाखासु पतति । प्रस्तरयोः मध्ये जलप्रवाहः सम्पतति । अत्र जलपतनस्य मूलं कन्दरं च अपि गन्तुं शक्यते । किन्तु सर्वदा अतीव जागरूकता आवश्यकी भवति । शिलातले उपविश्य मत्स्यग्रहणक्रीडा अपि खेलितुं शक्यते । अरण्यम् इति कारणतः समीपे कुत्रापि आहारावासद्यः व्यवस्थाः न सन्ति । राजधानीतः शिरसिपर्यन्तम् अथवा यल्लापुरपर्यन्तं बस् यानानि सन्ति । ततः भाटकयानेन जलपतस्य अतिसमीपं गन्तुं शक्यते । राजधानीतः रेल् यानेन गन्तुम् इच्छति चेत् हुब्बळ्ळी पर्यन्तं गत्वा ततः बस् यानेन ७४कि.मी दूरस्य शिरसिपत्तनं गन्तव्यम् । समीचीनाः वासभोजनादिव्यवस्थाः शिरसिपत्तने सन्ति ।

शिवगङ्गाजलपातः
"https://sa.wikipedia.org/w/index.php?title=शिवगङ्गाजलपातः&oldid=333091" इत्यस्माद् प्रतिप्राप्तम्