शुभाशुभफलैरेवं...
भगवद्गीतायाः श्लोकः ९.२८
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
- सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य अष्टाविंशतितमः(२८) श्लोकः ।
पदच्छेदः
सम्पादयतुशुभाशुभफलैः एवं मोक्ष्यसे कर्मबन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तः माम् उपैष्यसि ॥ २८ ॥
अन्वयः
सम्पादयतुएवं शुभाशुभफलैः कर्मबन्धनैः मोक्ष्यसे । सन्न्यासयोगयुक्तात्मा विमुक्तः माम् उपैष्यसि ।
शब्दार्थः
सम्पादयतु- एवम् = इत्थम्
- शुभाशुभफलैः = इष्टानिष्टफलैः
- कर्मबन्धनैः = कर्मजन्यैः पापैः पुण्यैः च
- मोक्ष्यसे = मुक्तिं प्राप्स्यसि
- संन्यासयोगयुक्तात्मा = कर्मसमर्पणरूपयोगसहितः
- विमुक्तः = कर्मरूपबन्धविमुक्तः
- माम् उपैष्यसि = मां लप्स्यसे ।
अर्थः
सम्पादयतुएवं सर्वस्यापि कर्मणः मयि अर्पणेन त्वं तत्फलीभूतैः शुभाशुभैः पुण्यपापैः मुक्तो भविष्यसि । एवं कर्मसन्न्यासरूपेण सहितः बन्धनात् विमुक्तश्च अन्ते मां प्राप्नोषि ।