श्रद्धावाननसूयश्च...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
- सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्॥ ७१ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकसप्ततितमः(७१) श्लोकः ।
पदच्छेदः
सम्पादयतुश्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥
अन्वयः
सम्पादयतुश्रद्धावान् अनसूयः च यः नरः शृणुयात् अपि सः अपि मुक्तः पुण्यकर्मणां शुभान् लोकान् प्राप्नुयात् ।
शब्दार्थः
सम्पादयतु- श्रद्धावान् = श्रद्दधानः
- अनसूयः = ईर्ष्यारहितः
- शृणुयात् = आकर्णयेत्
- मुक्तः = विमुक्तः
- पुण्यकर्मणाम् = पवित्रकर्मणाम्
- शुभान् = प्रशस्तान्
- प्राप्नुयात् = गच्छेत् ।
अर्थः
सम्पादयतुयः पुरुषः श्रद्धावान् ईर्ष्यारहितश्च सन् इदं सम्भाषणं शृणोति सोऽपि सर्वेभ्यः पापेभ्यः मुक्तः पुन्यशालिनां शुभं लोकं प्राप्स्यति ।