श्रीनगरम्

(श्रीनगर इत्यस्मात् पुनर्निर्दिष्टम्)

श्रीनगरं भारतस्य जम्मूकाश्मीरराज्यस्य ग्रीष्मकालीना राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । राज्ञा प्रवरसेनेन २००० वर्षेभ्यः पूर्वं श्रीनगरं संस्थापितम्‌ । श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मूतः बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झेलम्नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः सरोवरयोः ‘शिकार’नामिकासु नौकासु विहारं कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते । काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते । श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्, शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च ।

श्रीनगरम्
—  राजधानी  —
Panorama of city in green area near a river and lakes
श्रीनगरस्य दृश्यम् तथा दाल् सरोवरम्Dal Lake
Located in the northwest part of the state
श्रीनगरम्
Location of श्रीनगरम्
in जम्मूकाश्मीरराज्यम्
निर्देशाङ्काः

३४°५′२४″ उत्तरदिक् ७४°४७′२४″ पूर्वदिक् / 34.09000°उत्तरदिक् 74.79000°पूर्वदिक् / ३४.०९०००; ७४.७९०००

देशः भारतम्
राज्यम् जम्मूकाश्मीरराज्यम्
मण्डलम् श्रीनगरम्
Settled 3rd century BC
Mayor Salman Sagar (NC)
जनसङ्ख्या

• सान्द्रता
• महानगरम्

८,९४,९४०[१] (2001)

8,523 /किमी2 (22,074 /वर्ग मील)
९,७१,३५७[१]

लिङ्गानुपातः 1.17 /
साक्षरता 59.18% 
व्यावहारिकभाषा(ः) काश्मीरी, उर्दु[२]
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

238 वर्ग किलोमीटर (92 वर्ग मील)

1,585 मीटर (5,200 फ़ुट)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Cfa (कोप्पेन्)

     710 मिमी (28 इंच)

     24.1 °से (75.4 °फ़ै)
     2.5 °से (36.5 °फ़ै)

जालस्थानम् www.srinagar.nic.in

विमानमार्गःसंपादित करें

चण्डीगढदेहलीतः श्रीनगराय विमानसम्पर्कः अस्ति । विमाननिस्थानं १३ कि.मी दूरे अस्ति ।

धूमशकटयानसम्पर्कःसंपादित करें

देहलीतः सुरङ्गमार्गतः जम्मूपर्यन्तम् आगन्तव्यम् । जम्मुतावीनिस्थानतः वाहनेन गन्तव्यं भवति ।

वाहनमार्गःसंपादित करें

पठानकोटतः २५० कि.मी, देहलीतः ८८० कि.मी, चण्डीगढअमृतसरनगरेभ्यः वाहन सम्पर्कः अस्ति । वसत्याः कृते प्लवमाननौकागृहाणि, उपाहारवसतिगृहाणि च सन्ति ।

आधाराःसंपादित करें

  1. १.० १.१ "Population in the age group 0-6 and literates by sex—urban agglomeration/town". Census of India 2001. Government of India. 27 May 2002. आह्रियत 2007-04-14. 
  2. "Kashmiri: A language of India". Ethnologue. आह्रियत 2008-05-14. 

जालगवाक्ष:संपादित करें

"https://sa.wikipedia.org/w/index.php?title=श्रीनगरम्&oldid=333333" इत्यस्माद् प्रतिप्राप्तम्