श्रेयो हि ज्ञानमभ्यासात्...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते ।
- ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः
सम्पादयतुश्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानं विशिष्यते ध्यानात् कर्मफलत्यागः त्यागात् शान्तिः अनन्तरम् ॥ १२ ॥
अन्वयः
सम्पादयतुअभ्यासात् हि ज्ञानं श्रेयः, ज्ञानात् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागः, त्यागात् अनन्तरं शान्तिः ।
शब्दार्थः
सम्पादयतु- अभ्यासात् हि = अभ्यासयोगात्
- ज्ञानम् = विवेकः
- श्रेयः = प्रशस्ततरः
- ज्ञानात् =विवेकात्
- ध्यानम् = चिन्तनम्
- विशिष्यते = अतिशेते
- ध्यानात् = चिन्तनात् अपि
- कर्मफलत्यागः = कर्मप्रयोजन - परित्यागः
- त्यागात् अनन्तरम् = अनुपदम्
- शान्तिः = संसारस्य उपशमः ।
अर्थः
सम्पादयतुअभ्यासयोगात् विवेकः प्रशस्ततरः । विवेकात् चिन्तनं विशिष्यते । चिन्तनात् अपि कर्मप्रयोजन - परित्यागः विशिष्यते । त्यागात् बन्धनस्य संसारस्य नाशः भवति ।