श्रोत्रं चक्षुः स्पर्शनं च...

भगवद्गीतायाः श्लोकः १५.९


श्लोकः सम्पादयतु

 
गीतोपदेशः
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः सम्पादयतु

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च अधिष्ठाय मनः च अयं विषयान् उपसेवते ॥ ९ ॥

अन्वयः सम्पादयतु

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणं च मनः च अधिष्ठाय अयम् एव विषयान् उपसेवते ।

शब्दार्थः सम्पादयतु

श्रोत्रम् = श्रवणम्
चक्षुः = नेत्रम्
स्पर्शनं च = त्वचं च
रसनम् = जिह्वाम्
घ्राणम् = नासिकाम्
मनः = चित्तम्
अधिष्ठाय = आश्रित्य
विषयान् = शब्दादीन्
उपसेवते = अनुभवति ।

अर्थः सम्पादयतु

शरीरान्तरं प्रविष्टोऽयं जीवः श्रवणं नेत्रं त्वचं जिह्वां नासिकां चित्तं कर्मेन्द्रियाणि च आश्रित्यैव शब्दादीन् अनुभवति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु