संयोगितास्वयंवरम्
संयोगितास्वयंवरम् इति मूलशङ्करस्य द्वितीयं नाटकं १९२८ ख्रीष्टाब्दे प्रकाशितमभूत् । अस्याभिनयो राजसूययज्ञावसरे समवेतानां नरपतीनां मनोरञ्जनार्थमभवत्। संयोगितास्वयंवरं विंशशतकस्य श्रेष्ठं नाटकं मन्यते।
संयोगितास्वयंवरम् | |
---|---|
संयोगिताहरणस्य दृश्यम् | |
लेखकः | मूलशङ्कर-माणिकलाल-याज्ञिकः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
विषयवस्तु
सम्पादयतुकन्नोजाधिपतिः जयचन्दो राजसूययज्ञं कुर्वाणोऽस्ति । तेन दिल्लीश्वरः पृथ्वीराजोऽप्यामन्त्रितः किन्तु पृथ्वीराजः पत्रद्वारा तं राजसूययज्ञस्य अनधिकारिणं सूचयति । जयचन्दो राजसूययज्ञावसरे स्वकीयकन्यायाः संयोगितायाः स्वयंवर कर्तुमभिलषति । संयोगिता पृथ्वीराजे बद्धानुरागा वर्तते । क्रोधान्धेन पित्रा सा गङ्गातटे वनदुर्गे कारागारे प्रेषिता। प्रेमविह्वलहृदया संयोगिता मदनलेखं लिलेख तं च मदनिकाद्वारा पृथ्वीराजसन्निधौ प्रेषितवती । तत्रेदं लिखितमासीत् -
निर्घृणमनसिजविशिखैः विलुप्यमानां त्वदाश्रयामबलाम्।
प्राणेश्वर परिपालय परमशरण्यः श्रुतस्त्वमार्तानाम्॥
पृथ्वीराजोऽप्येतत्पठित्वा स्नेहपरायणो जातः । तेनापि निम्नाङ्कितं प्रणयपत्रमेकं तदन्तिकं प्रेषितम् -
अयमागतो जनस्ते प्रणयपरवशः स्मरोषितः शरणम्।
को नु यदृच्छोपगतं पीयूषरसं न सेवते दयिते।।[१]
पृथ्वीराजः छल-प्रबन्धरचनां विधाय कर्णाटकीसाहाय्येन संयोगिताबन्दीगृहान्तिकं गच्छति । तत्र दुर्गाभ्यन्तरे तयोर्विवाहः संवृत्तः । संयोगिता सत्वरम् अश्वारूढस्य पृथ्वीराजस्य अङ्कमाश्रित्य गतवती । प्रतिक्रियार्थं समुपस्थिता जयचन्दस्य महती सेना तेन सपद्येव मृत्युपदं प्रापिता । अन्ततोगत्वा जयचन्दः स्वयमेव पृथ्वीराजाय कन्यादानार्थं समुत्कण्ठितो जातः । स पृथ्वीराजं प्रशंसति -
मिथोऽनुरागाभ्युदयप्रहर्षितः, स्वयंवरां मे तनयां समर्प्य।
सम्राट स्वयं विक्रमशालिने ते कृतार्थतामद्य गतोऽस्मि सान्वयः।।
सम्बद्धाः लेखाः
सम्पादयतुउद्धरणानि
सम्पादयतु- ↑ ३.१३