संयोगिता चौहान
संयोगिता ( ( शृणु) /ˈsəmjoʊɡɪtɑː xɔːhɑːnə/) (हिन्दी: संयोगिता चौहान, आङ्ग्ल: Sanyogita Chauhan) पृथ्वीराजतृतीयस्य पत्नी आसीत् । पृथ्वीराजेन सह गान्धर्वविवाहं कृत्वा सा पृथ्वीराजस्य अर्धाङ्गिनी अभवत् । इतिहासस्य महत्त्वपूर्णघटनासु संयोगिताहरणम् अपि परिगण्यते । पृथ्वीराजस्य त्रयोदशी राज्ञी संयोगिता अतिरूपवती आसीत् । संयोगितायाः नामान्तराणि तिलोत्तमा, कान्तिमती, संजुक्ता च ।
संयोगिता चौहान | |
---|---|
संयोगिताहरणस्य दृश्यम्
| |
पति/पत्नी | पृथ्वीराज चौहान |
पिता | जयचन्दः |
जन्म | कन्नौजनगरम् |
मतम् | हिन्दुधर्मः |
जन्म
सम्पादयतुसंयोगितायाः जन्म कन्नौज-आख्ये प्रदेशे अभवत् । तस्याः पितुः नाम जयचन्दः आसीत् । पृथ्वीराजरासोकाव्यस्य संयोगितास्वयंवरनामके विभागे उल्लिखितं यत्, संयोगिता पूर्वजन्मनि रम्भा-आख्या अप्सराः आसीत् । कस्यचित् ऋषेः शापत्वात् सा संयोगितात्वेन पृथिव्याम् अवातरत् इति । संयोगितायाः उल्लेखः विवेधेषु काव्येषु भिन्नरूपेण प्राप्यते । यथा पृथ्वीराजरासोकाव्ये संयोगिता, पृथ्वीराजविजयमहाकाव्ये तिलोत्तमा, सुरजनचरितमहाकाव्ये कान्तिमती च । पृथ्वीराजरासोकाव्ये, सुरजनचरितमहाकाव्ये च स्पष्टोल्लेखः अस्ति यत्, संयोगिता जयचन्दस्य पुत्री आसीत् । पृथ्वीराजविजयमहाकाव्यस्य महान् भागः क्षतियुक्तः वर्तते । परन्तु तत्रापि गङ्गानद्याः तटे विकसिते कस्मिँश्चित् ग्रामे संयोगितायाः जन्म अभवत् इति उल्लेखः प्राप्यते । इतिहासविदां मतम् अस्ति यत्, तत् नगरं निश्चयेन कन्नौजनगरम् आसीत् इति [१][२] ।
यौवनं, विवाहश्च
सम्पादयतुसंयोगिता यदा यौवनं प्रापत्, तस्मिन् काले आभारतं पृथ्वीराजस्य वीरतायाः चर्चाः आसन् । संयोगिता यदा पृथ्वीराजस्य वीरतायाः कथाः अशृणोत्, तदा सा पृथ्वीराजे प्रेमपाशेन अबद्धानात् । प्रेमशास्त्रेषु एतादृशी कन्या मुग्धा इत्युच्यते ।
मुग्धायाः संयोगितायाः हृदयस्थस्य प्रेम्णः विषये यदा जयचन्दः अजानात्, तदा सः अन्यराज्ञा सह स्वपुत्र्याः विवाहं कर्तुम् उद्यतः अभवत् । यतो हि जयचन्दपृथ्वीराजयोः सम्बन्धः वैमनस्यपूर्णः आसीत् । ततः जयचन्दः अश्वमेधयज्ञस्य आयोजनम् अकरोत् । तेन यज्ञेन सह संयोगितायाः स्वयंवरस्यापि घोषणाम् अकरोत् सः । स्वयंवरस्यावसरे आभारतं सर्वेभ्यः राजभ्यः निमन्त्रम् अयच्छत्, परन्तु पृथ्वीराजाय निमन्त्रणं नायच्छत् सः । पृथ्वीराजस्य एतावति अपमाने कृते सत्यपि जयचन्दः सन्तुष्टः नाभवत् । तेन लौहेन पृथ्वीराजस्य मूर्तिः निर्माप्य द्वारपालस्य स्थाने प्रस्थापिता । परन्तु स्वयंवरकाले संयोगिता पृथ्वीराजस्य मूर्तिम् एव वरमालाम् अधारयत् । द्वारे स्थिता संयोगिता यदा पृथ्वीराजस्य मूर्तिं वरमालाम् अधारयत्, तस्मिन् एव काले पृथ्वीराजः प्रासादं प्राविशत् । पृथ्वीराजः युक्त्या संयोगिताम् अश्वोपरि आरोह्य देहलीम् अगच्छत् ।
सुर्जनचरितमहाकाव्ये विवाहवर्णनम्
सम्पादयतुएकदा अजमेरू-प्रासादस्य उद्याने राजा पृथ्वीराजः विहारं कुर्वन् आसीत्, तस्मिन् एव काले तत्र प्रतिहारी सम्प्राप्तः । प्रतिहारी राजानं न्यवेदयत्, "हे राजन् ! कान्यकुब्जात् आगता एका महिला भवता मेलितुम् इच्छति" इति । ततः राज्ञः सङ्केतं प्राप्य प्रतिहारी तां महिलां राज्ञः सम्मुखं प्रस्तौति। राजानं नमस्कृत्य महिला अवदत्, "हे राजन् ! कान्यकुब्जस्य स्वामिनः जयचन्दस्य संयोगिता नामिका कन्या अस्ति । अहं तस्याः सौन्दर्यस्य किं वर्णनं करवाणि ? कामदेवस्य सिद्धित्वेन समस्तपदार्थानां सारेण ब्रह्मा तस्याः रचनाम् अकरोत् । संयोगितायाः रचनाकाले ब्रह्मणा यानि वस्तूनि क्रोडीकृतानि, तेषु यानि वस्तूनि ब्रह्मा अक्षिपत्, तैः वस्तुभिः एव अमृतस्य, चन्द्रमसः, कुमुदस्य, कमलस्य च रचना अभवत्" इति । किञ्चत् विरम्य सा महिला अग्रे अवदत्, "हे हिन्दुश्रेष्ठ ! यदि कस्मिंश्चित् अमृतसमुद्रे कामदेवः मन्थनम् अकरिष्यत्, तर्हि या लक्ष्मीः प्रभवेत्, तस्याः लक्ष्म्याः सौन्दर्यम् एव कदाचित् संयोगितायाः सौन्दर्यस्य तुलनां कर्तुम् शक्नुयात्" इति ।
एकदा स्वपित्रा सह राजप्रासादे स्थिता संयोगिता अकस्मात् चारणैः (celestial singer) गीयमानं भवतः गुणप्रतिपादकं गानम् अशृणोत् । यदा भवान् म्लेच्छराजानं युद्धे परास्तम् अकरोत्, तदैव तस्याः हृदि स्थितः भवतः प्रति अनुरागः प्रेम्णि परिणतः । संयोगितायाः स्वर्णकमलपुष्पवत् देदीप्यमानं मुखं भवतः विरहेण मूर्छितकमलपुष्पवत् जातम् अस्ति । जानौ कफोणिं, करकमले कपोलं, नासिकायां दृष्टिः, भवन्तं च मनसि संस्थाप्य सा दिनानि यापयन्ती अस्ति । एकस्यां रात्र्यौ तृतीये प्रहरे स्वप्ने संयोगिता कामदेवरूपिणः भवतः (पृथ्वीराजस्य) दर्शनम् अकरोत् । भवतः मुखरूपिणः पूर्णचन्द्रमसः दर्शनं कृत्वा चन्द्रमुखी संयोगिता मर्यादां त्यक्त्वा भवतः नाम उच्चस्वरेण अवदत् । हास्यादिकं त्यक्तवती संयोगिता उत्सवेषु बहुप्रयत्ने कृते सत्यपि न हसति ।
तस्याः विरहः चरमसीमाम् उदलङ्घयत् । कृशकटियुक्तायाः संयोगितायाः स्तनयोः मध्ये सख्यः यत् कमलपत्रं स्थापयन्ति, तत् विरहतापेन तत्कालमेव ग्लायते । संयोगितायाः ऊष्मोच्छ्वासेन दग्धस्य तस्य कमलपत्रस्य सहसा खण्डानि अपि भवन्ति । हे राजन् ! अद्य विधाता अपि तस्यै कष्टं यच्छति । संयोगितायाः पिता तस्याः शत्रुः भूत्वा संयोगितायाः विवाहम् अन्यराज्ञा सह कारयितुम् उद्युक्तः अस्ति । पितुः इच्छां श्रुत्वा दुःखावेगेन रुदन्ती राजकुमारी संयोगिता स्वसखायम् अवदत्, "अहो ! पृथिव्यां स्थितं चन्द्रमसं प्राप्तुम् ईप्सा मूर्खता एवास्ति । यं पुरुषम् अहं न जानामि, तस्य पुरुषस्य कृते प्रणयः एव हास्यास्पदः अस्ति । विशेषेण सः पुरुषः महान् सम्राट् अस्ति । कन्यायाः विवाहप्रस्तावः अपि विडम्बनां जनयति । अतः हे सख्यः ! मम दुष्प्राप्ये मनोरथे आशायाः अङ्कुरस्य कल्पना अपि नास्ति" इत्युक्त्वा संयोगिता मूर्छिता अभवत् । ततः मे प्रयत्नैः जागरिता संयोगिता अवदत्, "त्वं शाकम्भरीं गच्छ । मम हृदयस्थितिं सम्राजः सम्मुखम् उपस्थापय । यदि सः मे उद्धाराय नागमिष्यति, तर्हि अहं गङ्गायां सञ्चरिष्यामि (गङ्गा में डूब जाऊँगी)" इति ।
परिचारिकायाः निवेदनं श्रुत्वा सम्राट् प्रत्युदतरत्, "तस्याः मृगनयन्याः मनोरथः पूर्णः अभवत् इत्येव जानातु । तां कथय अहं शीघ्रं हि तां रक्षितुं कान्यकुब्जं सम्प्राप्स्यामि" इति । ततः परिचारिकायाः योग्यम् आतिथ्यं कृत्वा तां प्रैषयत् सम्राट् । ततः सः स्वयम् अपि स्वसामन्तैः सह कान्यकुब्जस्य यात्राम् आरभत ।
पृथ्वीराजः यदा कान्यकुब्जं प्रविशति, तदा सः छद्मवेशी आसीत् । यतो हि सः कान्यकुब्जस्य प्रत्येकवीथीं द्रष्टुम् इच्छति स्म । अतः पृथ्वीराजः चारणस्य वेशं धृत्वा नगरे इतस्तः भ्रमन् आसीत् । पृथ्वीराजः कान्यकुब्जनगरस्य द्वाराणि, प्रासादान्, महालयान्, चतुष्पदीः, उद्यानानि च अपश्यत् । एवं कान्यकुब्जनगरं भ्रमन् सः नगरस्य विषये सूचनाः एकत्र अकरोत् । यद्यपि पृथ्वीराजेन राजकीयवेशभूषा त्यक्ता, तथापि तस्य शोभायां न्यूनता नाभवत् । अतः पृथ्वीराजः सर्वेषां नगरवासिनाम् आकर्षणस्य केन्द्रम् अभवत् । बहुमूल्यमणयः यद्यपि सुवर्णेन आलङ्कृताः नापि भवन्ति, तथापि मणेः सौन्दर्ये कदापि न्यूनता न भवति इति अनेन ज्ञायते ।
छद्मवेशधारी पृथ्वीराजः एकदा गङ्गायाः तटे विचरन् आसीत् । गङ्गातटे अश्वं जलं पाययन् सः जले स्थितान् मत्स्यान् अपश्यत् । अतः सः स्वमौक्तिकमालातः एकैकं मौक्तिकं निष्कास्य मत्सेभ्यः भोजयन् आसन् । तस्मिन्नेव काले प्रासादस्य अट्टालिकायां स्थिता संयोगिता पृथ्वीराजम् अपश्यत् । परन्तु कौतुहलेन सा स्वसखायम् अपृच्छत्, "कः स एकाकी ? एकाकी भूत्वापि अनेकैः सह अस्ति इति आभासः कारयति" इति । कश्चन सखा उदतरत्, "सः कोऽपि दानवः उत देवता अस्ति" इति । अपरः सखा अवदत्, "न न तस्य आचरणेन तु सः पृथ्वीपतिः भासते" इति । कोऽपि सखा इन्द्रस्य अवतारं, अन्यः सखा कामदेवस्य स्वरूपं कथयति स्म । तस्मिन्नेव काले संयोगितायाः सन्देशवाहिका सा परिचारिका संयोगितायाः कौतुकस्य शमनं कुर्वती अवदत्, "राजकुमारि ! स एव सोमेश्वरनन्दनः पृथ्वीराजः । रुपे, सौन्दर्ये च संसारेऽस्मिन् तस्य तुलनां कर्तुं कः समर्थः ? कुशाङ्गि ! यदि भवती मयि न विश्वसति, तर्हि विश्वस्तपरिचारिकां सम्प्रेष्य विश्वासं करोतु" इति । एतस्य वर्णनं कविः करोति –
“ | सुनि रव सुंदरि उम्भ तन, स्वद कंप सुर भंग । मनु कमलिनी कल संभरी, अम्रित किरन तन रंग ।। |
” |
प्रियतमस्य पृथ्वीराजस्य नाम श्रुत्वैव संयोगितायाः शरीरे कम्पनम् आरब्धं, वस्त्राणि स्वेदमग्नानि अभूवन् च । तस्याः मुखात् ध्वनिः एव न निर्गच्छति स्म । सूर्यकिरणैः सह क्रीडायाः स्मरणम् अभवत् इति प्रतीतिः भवति स्म ।
संयोगितायाः विह्वलप्रेम दृष्ट्वा परिचारिका अवदत्, "हे कोकिलनयने ! राज्ञां स्वभावः भवति यत्, राज्ञि एकाकिनि सत्यपि सेवकाः तं परितः सन्ति इति तेषां मनसि भासः भवति । अतः यदा सः कण्ठाभरणस्य सर्वेऽपि मौक्तिकानि पूर्णानि भविष्यन्ति, तदा सः अनुचरः पृष्ठे स्थितः अस्ति इति मत्वा हस्तं प्रसारयिष्यति" इति ।
परिचारिकायाः वचनं श्रुत्वा संयोगिता मौक्तिकैः पूर्णां स्थालिकां दास्या पृथ्वीराजाय प्रैषयत् । शीला-आख्या सा दासी स्थालिकां धृत्वा पृथ्वीराजस्य पृष्ठे अतिष्ठत् । पृथ्वीराजस्य मौक्तिकमालायाः सर्वेऽपि मौक्तिकानि यदा पूर्णानि अभूवन्, तदा सहसा राजा पृष्ठतः हस्तं प्रासारयत् । शीला सहसा पृथ्वीराजस्य हस्ते मौक्तिस्थालिकाम् अस्थापयत् । तस्याः स्थालिकायाः सर्वेऽपि मौक्तिकानि पूर्णानि अभूवन् । ततः पृथ्वीराजः पृष्ठे अपश्यत् । तत्र उपस्थितां दासीं दृष्ट्वा राजा आश्चर्येण प्रश्नम् अकरोत्, "का त्वं ? कुतः आगता ? मध्यरात्रौ राक्षसीवत् विचरणस्य ते कः उद्देशः ? तव मौक्तिकानि मह्यं किमर्थं व्यर्थीकरोति ?" इति । राज्ञः एतान् प्रश्नान् श्रुत्वा भयग्रस्ता दासी तु स्तब्धा अभवत् । परन्तु प्रेमसङ्केतानां ज्ञाने कुशला, वार्तालापे पट्वी दासी प्रत्युदतरत्, "महाभाग ! कान्युकुब्जस्य राजकुमार्याः संयोगितायाः अभिसारिकाऽहं तस्याः आज्ञायाः पालनं कुर्वती अस्मि । हे नरेन्द्र ! राजकुमारी भवतां विरहेण कृशा अभवत्, जीवनस्य मोहं च अत्यजत्" इति वदन्ती अभिसारिका अट्टालिकायां स्थितां संयोगितां प्रति अङ्गुलिनिर्देशनम् अकरोत् । संयोगितां दृष्ट्वा पृथ्वीराजस्य मनःस्थितिः संयोगितावत् अभवत् । ततः राजकुमार्याः अन्याः दास्यः राज्ञः सम्मुखम् उपस्थिता । तासां साहाय्येन राजा प्रासादं प्रविष्टः ।
प्रासादस्य अट्टालिकायां संयोगितापृथ्वीराजयोः तत् मेलनदृश्यं दृष्ट्वा एका परिचारिका अपराम् अवदत्, "सत्यम् उक्तम् अस्ति, काऽपि अन्तःकरणेन कस्मिन्नपि स्निह्यति चेत्, सा निश्चयेन तं प्राप्नोति । वर्षेभ्यः राजकुमरी यस्य प्रतीक्षायाम् आसीत्, सः अधुना तस्याः पुरस्तात् अस्ति" इति ।
ततः तयोः विवाहस्य सज्जतायै परिचारिकाः इतस्ततः धावन्त्यः कार्यमग्नाः अभूवन् । परन्तु अन्ते तासां सम्मुखं महान् प्रश्नः समुद्भूतः यत्, विवाहं कः कारयिष्यतीति । परन्तु सर्वाभिः गान्धर्वविवाहस्य निश्चयः कृतः । अतः संयोगितायाः हस्तः पृथ्वीराजस्य हस्ते प्रस्थाप्य परिचारिकाः मङ्गलगीतानि आरभन्त । ततः वसिष्ठकश्यपिकां (गठजोड) कृत्वा क्षणाभ्यान्तरे गान्धर्वविवाहः सम्पन्नः । विवाहान्तरं पृथ्वीराजः विसष्ठकश्यपिकां विमुच्य शिविरं प्रति गन्तुम् उद्युक्तः, तदैव साश्चर्यं संयोगिता पृथ्वीराजम् अवदत्, "हाय दुर्देव ! यस्य वर्षेभ्यः प्रतीक्षां कुर्वती आसं, सः आगत्य पुनः गच्छन् अस्ति । धिक्कारः अस्ति स्त्रीजीवनम्" इति वदन्ती संयोगिता स्ववक्षस्थले हस्तेन अताडयत् । संयोगितायाः स्थितिं दृष्ट्वा पृथ्वीराजः मूर्तिवत् तत्र अतिष्ठत् ।
संयोगिताहरणम्
सम्पादयतुअन्यग्रन्थेषु संयोगिताहरणस्य यः उल्लेखः प्राप्यते, तस्मात् किञ्चित् भिन्नः उल्लेखः सुर्जनचरितमहाकाव्ये प्राप्यते । सुर्जनचरितमहाकाव्यानुसारं पृथ्वीराजः रात्रौ एव संयोगितां नीत्वा इन्द्रपस्थं प्रति अगच्छत् ।
संयोगितायाः विह्वलां स्थितिं दृष्ट्वा पृथ्वीराजः रात्रौ एव अन्तःपुरात् बहिः निर्गत्य प्रियतमया सह अश्वम् आरुह्य प्रासादात् निर्गतः । गच्छन्तं पृथ्वीराजं पश्यन्तः द्वारपालाः अपि पृथ्वीराजं दृष्ट्वा किङ्कर्तव्यमूढाः अभूवन् । ततः आकन्नौजं संयोगिताहरणस्य समचाराः प्रसारिताः अभूवन् । जयचन्दस्य सेना पृथ्वीराजस्य पृष्ठे अगच्छत् । परन्तु पृथ्वीराजस्य वीरसामान्तानां सम्मुखं जयचन्दस्य काचितपि स्थितिः नासीत् । अन्ततो गत्वा पृथ्वीराजः इन्द्रप्रस्थं प्रापत् ।
संयोगितायाः ऐतिहासकितायाः विवादः
सम्पादयतुकेषाञ्चन विदुषां मतम् अस्ति यत्, "जयचन्दस्य शिलालेखेषु क्वापि संयोगितायाः उल्लेखः न प्राप्यते, एवं तस्याः अस्तित्वस्य प्रमाणानाम् अभावे सा काल्पनिकपात्रम् आसीत्" इति । ये विद्वांसः संयोगितायाः ऐतिहासिकतायाः विषये प्रश्नार्थचिह्नं कुर्वन्ति, तेषु प्राथम्येन डॉ. गौरीशङ्कर हीराचन्द ओझा इत्यस्य गणना भवति । डॉ ओझा इत्यस्य मतम् आसीत् यत्, जयचन्दस्य शिलालेखेषु उत ताम्रपत्रेषु कुत्रापि संयोगितायाः वर्णनं नास्ति । तथा च रम्भामञ्जरीमहाकाव्ये, हम्मीरमहाकाव्ये च संयोगितायाः उल्लेखः न प्राप्यते । अतः षोडशतमायाः शतब्द्याः कस्यचित् भाट इत्यस्य कल्पना अस्ति संयोगितायाः पात्रम् [३] ।
अन्येतिहासविदां कथनम् अस्ति यत्, रम्भामञ्जरीमहाकाव्ये, हम्मीरमहाकाव्ये च संयोगितायाः वर्णनं नास्ति इति ओझामहोदयेन उक्तम् । परन्तु तयोः ग्रन्थयोः पृथ्वीराजस्य विवाहानाम् एव उल्लेखः नास्ति । तेन पृथ्वीराजस्य विवाहाः नाभूवन् इति वक्तुं न शक्यते ।
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतु- http://indianmuslimpost.blogspot.in/2013/01/prithviraj-chauhans-wife-sanyogita-raped.html
- http://www.fortemple-rajasthan-tourindia.com/2013/04/prithviraj-chauhan-love-death.html Archived २०१५-०५-१० at the Wayback Machine
- http://hindi.webdunia.com/love-stories/पृथ्वीराज-संयोगिता-स्वर्णाक्षरों-से-अंकित-प्रेमकथा-107091900067_1.htm
- http://www.rajsamanddistrict.com/पृथ्वीराज-चौहान-और-संयोग/ Archived २०१४-१२-२९ at the Wayback Machine