संस्कृतविश्वविद्यालयाः
संस्कृतविश्वविद्यालयाः संस्कृतमाध्यमेन विभिन्नानां विषयाणां ज्ञानप्रदातारः विश्वविद्यालयाः। प्राचीने भारते विश्वविद्यालयानां स्वरूपं भिन्नम् आसीत्, तेषां सञ्चालनपद्धतिः च भिन्ना आसीत्। आधुनिके भारते विद्यापीठस्य स्थानं विश्वविद्यालयेन स्वीकृतम्। अतः विश्वविद्यालय-शब्देन पुरातनानां विद्यापीठानां सङ्कल्पना तु स्वीक्रियते, परन्तु प्रणालिः न।
संस्कृतविश्वविद्यालयाः
सम्पादयतु- सम्प्रति भारते 16 संस्कृतविश्वविद्यालयाः सन्ति। ते यथा-
- केन्द्रीयसंस्कृतविश्वविद्यालयः, जनकपुरी, नवदेहली (देहली)
- राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
- श्रीलालबहदुरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालयः, खट्वारियासरै, नवदेहली (दिल्ली)
- कामेश्वरसिंहदर्भङ्गासंस्कृतविश्वविद्यालयः, दर्भङ्गा (बिहार)
- कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयः, रामटेक , नागपुरजिल्ला (महाराष्ट्रम्)
- श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी (ओड़िशा)
- जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयः, जयपुर (राजस्थानम्)
- संपूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी (उत्तरप्रदेशः)
- सोमनाथसंस्कृतविश्वविद्यालयः, सोमनाथ (गुजरात्प्रदेशः)
- उत्तराखण्डसंस्कृतविश्वविद्यालयः, हरिद्वारः (उत्तराखण्डः)
- श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयः, तिरुपतिः (आन्ध्रप्रदेशः)
- महर्षिपाणिनिसंस्कृत एवं वैदिकविश्वविद्यालयः, उज्जयिनी (मध्यप्रदेशः)
- श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयः, कालडी (केरलप्रदेशः)
- चन्दरशेखरसंस्कृतविश्ववद्यालयः, काञ्चीपुरम् (तमिलनाडुप्रदेशः)
- कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गलूरु (कर्नाटकम्)
- कुमारभास्करवर्मसंस्कृत एवं प्राच्यविश्वविद्यलयः, नलबारि (अस्सोम्)
- अमीषां विश्वविद्यालयानां विषये इतोपि ज्ञातुं पश्यताम् - http://www.sanskrit.nic.in/sans.htm