संस्कृतोत्सवः
संस्कृतोत्सवः विश्वस्मिन् प्रतिवर्षं श्रावणमासे सप्तदिनानि यावत् आचर्यते । श्रावणमासस्य शुक्लद्वादशीतः, श्रावणमासस्य कृष्णतृतीयापर्यन्तं भारतसर्वकारेण संस्कृतसप्ताहः आचर्यते । भारतस्य विभिन्नेषु स्थानेषु संस्कृतप्रेमिणः संस्कृतोत्सवम् अत्युत्साहेन आचरन्ति । पाठशालासु, विद्यालयेषु, संस्कृतप्रचारकर्तृसंस्थासु च संस्कृतसप्ताहस्य विशिष्टम् आयोजनं भवति । नाटकानि, नृत्यानि, प्रदर्शन्यः, पदयात्राः, संस्कृतगीतानां गायनम् इत्यादयः पवृत्तयः आभारते भवन्ति । २०१४ तमे वर्षे प्रधानमन्त्री नरेन्द्र मोदी 'अगस्त'-मासस्य सप्तदिनाङ्कात् त्रयोदशदिनाङ्कपर्यन्तं सप्तदिनानि संस्कृतसप्ताहत्वेन अघोषयत् । तस्मात् पुरा अपि संस्कृतोत्सवस्य आयोजनं भवति स्म । परन्तु भारतगणराज्यस्य प्रप्रथमः प्रधानमन्त्री एषः, यः आभारतं संस्कृतोत्सवस्य विशिष्टम् आयोजनं कृत्वा संस्कृतप्रेमिणां हर्षस्य कारणम् अभवत् ।
श्रावणपूर्णिमा संस्कृतोत्सवस्य दिनम् । तत: पूर्वतनानि त्रीणि दिनानि, अनन्तरीयाणि त्रीणि दिनानि च मेलयित्वा संस्कृतसप्ताह: आचरणीय: इति केन्द्रसवर्र्कारेण उद्घुष्टम् अस्ति । यद्यपि भारते वर्षस्य ३६५ दिनानि अपि संस्कृतदिनानि भवेयु:, तथापि अद्य सा स्थिति: नास्ति । आनेतव्या तादृशी परिस्थिति: इति उद्देशेन साङ्केतिकरूपेण संस्कृतदिनस्य सप्ताहस्य च आचरणं कुर्म: । संस्कृतभारत्या: एकैकया शाखया अपि एष: उत्सव: आचरणीय: । एतस्मिन् अवसरे कार्यकर्तॄणां कल्पकतानुगुणं प्रतिवर्षं विनूतनरूपेण संस्कृतसप्ताह: आचरितुं शक्यते । संस्कृतं केवलं संस्कृतशिक्षकाणां संस्कृतच्छात्राणां च विषयत्वेन न तिष्ठेत्, संस्कृतं समाजव्यापि भवेत् इति कारणेन अयम् उत्सव: संस्कृतभारत्या अन्यसङ्घसंस्थाभि: सह मिलित्वा विभिन्नस्थानेषु आचरणीय: । तत्र च संस्कृतेतरजनानां प्रमुखभूमिका भवेत् । एतेन प्रसङ्गेन संस्कृतस्य, संस्कृतभारत्या: च प्रभाववलयस्य विस्तार: भवेत् ।