सत्त्वानुरूपा सर्वस्य...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
- श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ ३ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य तृतीयः(३) श्लोकः ।
पदच्छेदः
सम्पादयतुसत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयः अयं पुरुषः यः यत् श्रद्धः सः एव सः ॥
अन्वयः
सम्पादयतुभारत ! सर्वस्य सत्त्वानुरूपा श्रद्धा भवति । अयं पुरुषः श्रद्धामयः । यः यच्छ्रद्धः सः सः एव ।
शब्दार्थः
सम्पादयतु- सत्त्वानुरूपा = अन्तःकरणानुगुणा
- श्रद्धा = आसक्तिः
- श्रद्धामयः = आसक्तिमयः
- यच्छ्रद्धः = यादृशासक्ति
- विशिष्टः सः = सः पुरुषः
- सः तादृशासक्तिविशिष्टः ।
अर्थः
सम्पादयतुसर्वस्यापि अन्तःकरणानुगुणा श्रद्धा भवति । यस्मिन् श्रद्धा सः श्रद्धामयः इत्युच्यते । सा च श्रद्धा क्वचित् सत्त्वगुणप्रधाना, क्वचित् रजोगुणप्रधाना क्वचिच्च तमोगुणप्रधाना चेति त्रिविधा भवति । यः यादृश्या श्रद्धया विशिष्टः सः तादृशश्रद्धः इति निर्णयः ।