गुरूनहत्वा हि महानुभावन् () इत्यनेन श्लोकेन अर्जुनः श्रीकृष्णस्य कथनेन सह स्वतर्कस्य तादात्म्यं स्थापयति । पूर्वस्मिन् श्लोके युद्धोपरामस्य स्वतर्कं दत्त्वा अत्रार्जुनः श्रीकृष्णस्य धर्मादिकथनस्य उदाहरणं ददाति । स कथयति यत्, महानुभावान् गुरून् अमारयित्वा अहं भिक्षान्नं भोक्तुं सज्जः । तदपि मह्यं कल्याणकरं मन्ये । गुरुजनान् हत्वा अत्र (संसारे) रक्तपातयुक्तानां धनेच्छायुक्तानां भोगानाम् एव उपभोगं करिष्ये इति ।

भावार्थः सम्पादयतु

'गुरूनहत्वा... भैक्ष्यमपीह लोके' – यद्यहं भीष्मद्रोणादिभिः पूज्यैः सह युद्धं न करोमि, तर्हि दुर्योधनोऽपि मया सह न योत्स्यति । एवं युद्धाभावेऽहं राज्यं न प्राप्स्यामि, येन अधिकं दुःखं सोढितव्यं भविष्यति । जीवननिर्वाहस्य कृतेऽपि बहुकष्टं भविष्यति । क्षत्रियेभ्यः भिक्षावृत्तिः निषिद्धा अस्ति, तथापि मया निर्वाहाय भिक्षाटनस्य आश्रयः स्वीकरणीयः भवेत् । परन्तु गुरूणां वधापेक्षयाहं भिक्षावृत्तेः स्वीकारं श्रेष्ठं मन्ये ।

'इह लोके' – भिक्षावृत्त्या जगति मे अपमाननं भविष्यति । सर्वे मां निन्दिष्यन्ति । तथापि गुरूणां वधापेक्षया तत् उत्तमम् । 'अपि' – गुरूणां वधं निषिद्धम् अस्ति । भिक्षावृत्तिः निषिद्धा अस्ति । परन्तु तयोः उभयोः गुरुवधं मे मतेऽधिकं निषिद्धं कार्यम् अस्ति ।

'हत्वार्थामांस्तु... रुधिरप्रदिग्धान्' – यद्यहं भवतः आज्ञानुगुणं योत्स्यामि, तर्हि गुरुहत्यायाः फलत्वेन रक्तरञ्जितं धनम् एव प्राप्स्यामि । धनादिभोगैः तु मुक्तिः न सिद्ध्यति । अत्र पश्नः भवेद्यत् भीष्मादयः गुरवः धनत्वादेव कौरवैः सह सँल्लग्नाः सन्ति किम् ? इति । अतः अत्र 'अर्थकामान्', 'गुरून्' इत्येतयोः पदयोः भिन्नतया उपयोगः कृतः । अत्र यदि तयोः उभयोः पदयोः विशेषणविशेष्यत्वेन ग्रहणं भवति, तर्हि का हानिः ? इत्यस्य उत्तरम् अस्ति यत्, "अर्थकामिनः गुरवः" इति तयोः पदयोः अर्थबोधः जायते । परन्तु तथा अर्थग्रहणस्य कोऽपि तर्कः न सिद्ध्यति । किञ्च ते गुरवः तु धनकामिनः न, अपि तु दुर्योधनाश्रिताः आसन् । एवं दुर्योधनस्य साहाय्यं तेषां कर्तव्यम् आसीत् । अतः ते कौरवपक्षात् युध्यमानाः आसन् । अर्जुनः अत्र भीष्मादिभ्यः 'महानुभावान्' इत्यस्य पदस्योपयोगम् अकरोत् । अतः श्रेष्ठभावयुक्तान् धनकामिनः कथं वक्तुं शक्नुमः ? अर्थात् महानुभावाः अर्थकामिनः न भवन्ति इति । अतः अत्र 'अर्थकामान्', 'भोगान्' इत्येते पदे एव विशेषणत्वेन अङ्गीक्रियते ।

मर्मः सम्पादयतु

अनेन श्लोकेन स्पष्टं भवति यत्, द्वितीये, तृतीये च श्लोके भगवतः वचनं श्रुत्वा अर्जुनस्य हृदये प्रभावस्तु अभवदिति । भीष्मद्रोणादिषु प्रहारः अधर्मः इति ज्ञाते सत्यपि भगवान् मह्यं युद्धाय आज्ञाम् अददत् । अर्जुनः ज्ञातवान् यत्, भगवतः वचनस्य गूढार्थम् अवगन्तुं मे कुत्रचित् दोषः जायमानः अस्ति इति । अतः एतस्मिन् श्लोके भगवतः वचनेन सह स्वविचाराणां तादात्म्यं स्थापयितुं प्रयतते ।

भगवान् द्वितीये, तृतीये च श्लोके अर्जुनस्य हितं विचिन्त्यैव "क्लैब्यं त्यक्त्वा युद्धाय उत्तिष्ठ" इति तस्मै आज्ञा अयच्छत् । परन्तु अर्जुनः तस्य वचनं स्पष्टतया ज्ञातुं न शक्तवान् । अर्जुनः अचिन्तयत् यत्, भगवान् तं राज्यभोगस्य कृते युद्धाय आज्ञापयद् इति । केवलं भौतिकदृष्ट्या चिन्त्यमानाः मनुष्याः कल्याणस्य विषायन् चिन्तयितुं न शक्नुवन्ति । यावत् पर्यन्तं भौतिकपदार्थं प्रति दृष्टिः भवति, तावत् पर्यन्तं आध्यात्मिकतां प्रति दृष्टिः जागृता न भवति । अत्र अर्जुनस्य दृष्टौ शरीरादीनां भौतिकपदार्थानां प्राधान्यं स्पष्टम् अस्ति । सः कौटुम्बितमोहेन ग्रसितः धर्म अपि भौतिकदृष्ट्या पश्यन् अस्ति । भौतिकदृष्ट्या अन्त्यनं विलक्षणया आध्यात्मिकदृष्ट्या तेन एतावता न दृष्टं किमपि । अर्थात् तस्य दृष्टौ भौतिकराज्यात् परं किमपि नास्ति । सः कौटुम्बिकमोहस्य प्रवाहे स्वच्छन्दः गच्छन् अस्ति । अतः अर्जुनः चिन्तयन् अस्ति यत्, युद्धं कारयित्वा भगवान् मह्यं राज्यं दापयितुम् इच्छति इति । प्रत्युत भगवान् तस्य कल्याणम् इच्छति स्म । प्रप्रथमं तु युद्धात् उपरामस्य अर्जुनस्य एकमेव मतम् आसीत् । तस्यानुगुणं सः धनुष्काण्डं त्यक्त्वा शोकमग्नः रथस्य पृष्ठभागे अतिष्ठत् [१] । परन्तु युद्धे प्रवृत्तिः तु भगवतः आग्रहेणैव जाता अस्ति । अर्थात् अर्जुनस्य मतम् आसीत् यत्, पाण्डवाः तु धर्म जानाति, परन्तु दुर्योधनादयः धर्म न जनान्ति । ते धनराज्यादीनां लोभत्वात् युद्ध्यमानाः सन्ति । अतः अर्जुनः अत्र स्वस्य (पाण्डवेभ्यः) कृते कथयति यत्, अहमपि यदि भवतः आज्ञानुगुणं योत्स्यामि, तर्हि गुरुहत्योत्तरं धनराज्यादि एव प्राप्स्यामि । एवम् अर्जुनस्य मते युद्धे अनेकानि अधर्माणि आसन् ।

यद् अधर्म अधर्मस्वरूपे सम्मुखम् उपतिष्ठति, तेषाम् उपेक्षा सुगमा । परन्तु धर्मस्य आवरणे आगतस्य अधर्मस्य उन्मूलनम् अतीव कष्टकरं भवति । यथा – सीतायाः, हनुमतः च सम्मुखं क्रमेण रावणः, कालनेमी च उपातिष्ठताम्, तदा तौ तयोः प्रत्यभिज्ञानं कर्तुं न शक्तवन्तौ । किञ्च तौ साधुवेशिनौ आस्ताम् । अर्जुनस्य मतेऽपि युद्धरूपि कर्तव्यकर्म अपि अयोग्यम् आसीत् । युद्धात् उपरामे पापमुक्तिः आसीत् । एवं हिंसा अर्थात् अधर्मः इति । हिंसा भवतु कर्तव्यत्वेन सम्मुखे उपस्थिता अस्ति, तथापि सा अधर्म एव । यतः स्वकर्तव्यत्यागे अर्जुनः स्थितम् अधर्मम् इतोऽपि द्रष्टुं न शक्नोति । तस्य मनसि तु शरीरादिषु मोहः अस्ति ।

भाष्यार्थः सम्पादयतु

स्नेहकरुणाधर्माधर्माणां भयात् व्याकुलः अर्जुनः भगवता कथितम् अत्यन्तं हितकरम् उपदेशम् अनावगत्य पुनः एवम् अवदत् – परमसम्माननीयानां भीष्मादीनां गुरुजनानां वधम् अहं कथं करिष्ये ? तथा च तैः ग्रहितानां भोगानां कृते अत्यन्तासक्तः अहं तेषां रक्तेन रञ्जिते आसने उपविश्य कथं संसारसुखम् उपभोजयिष्यानि ? इति ।

  1. गीता, अ. १, श्लो. ४७