क्षत्रिय: क्षतात्त्रायते इति क्षत्रिय:। प्राचीनायाम्भारतीयसमाजव्‍यवस्‍थायाम्महत्‍त्‍वपूर्ण: अयं वर्ण: वर्णसोपाने द्वितीय: वर्तते ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥

कुरुवंशी क्षत्रिय राजकुमार भीमसेन गदा शस्त्र सहित

क्षत्रियस्य कर्तव्यानि

सम्पादयतु
क्षत्रियस्य कर्तव्यानि मनुः एवं वर्णयति-
प्रजानां रक्षणं दानमिज्याध्ययनमेव च ।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥१-८९ ॥

श्रीमद्भगवद्गीतायां श्रीकृष्णः आह

शौर्यं तेजो धृतिर्दाक्ष्यं युध्दे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८-४३ ॥

अत्रापि कानिचित् कर्तव्यानि केचन च आचरणीयाः गुणाः क्षत्रियम् उद्दिश्य निर्दिष्टाः ।

रक्षणं सर्वभूतानामिह क्षात्रं परं मतम् इति महाभारतकथनानुगुणं क्षत्रियवर्णः सर्वभूतानां परित्राणधर्मपालोभवति । क्षत्रियवर्णः ब्रह्मणोर्भुजाभ्यामुत्पन्न इति मन्यते । क्षत्रियः एव राष्ट्ररक्षणं कर्तुमधिकृतः आसीत् । वर्णाश्रमधर्मरक्षणमेव क्षत्रियस्य प्रमुखं कर्म । रजोगुणसम्पन्नः कामभोगप्रियः, पराक्रमवान् प्रजारक्षकः, वेदाध्ययनशीलः, दाता, दीनजनोद्धारकः धीरः, वीरः, त्यागी, ब्राह्मणपूजकश्च क्षत्रिय इति कीर्तितः । क्षत्रियवर्णस्य प्रमुखेषु कर्त्तव्येषु अध्ययनं-यजनं-दानं चेति त्रयो धर्माः ब्राह्मणवत्समाना एव ।

परं विशिष्टं कर्मास्ति 'प्रजापालनम्’ । सर्वाण्यपि शास्त्राणि सर्वापि स्मृतयो मुक्तकण्ठेनेदमेवावोचन्-क्षत्रियस्य परमो धर्मः प्रजानां पालनम् इति । तथा हि—

प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः
गोब्राह्मणार्थे युध्यन्तः प्राप्ता गतिमनुत्तमाम् ॥ इति [महाभारतम्-शान्तिपर्व २१/१९]
क्षतान्नस्त्रायते सर्वानित्येवं क्षत्रियोऽभवत्
क्षतत्राता क्षताज्जीवन् क्षन्ता स्त्रीष्वपि साधुषु ।
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशःश्रियः ॥ ६९/२ [महाश्रेणपर्व-१९७/४]

इति महाभारतश्लोकवाक्यानां, सर्वशास्त्राणां च सारोऽस्ति भूतसंरक्षणमेव क्षत्रियाणां महान्धर्म इति । क्षत्रियाभावे जगदिदमरक्षितं सद रसातलं गतं स्यादिति च तन्महत्त्वं

महाभारते वर्णितम् । तथा हि—

यदि न क्षत्रियो लोके जगत् स्यादधरोत्तमम् ।
रक्षणात् क्षत्रियैरेव जगद् भवति शाश्वतम् ॥ [महाभारते अनुशासनपर्व १४१/४८] इति ॥

चतुर्णामपि वर्णानां कर्तव्यनिर्वाहस्य भारो राज्ञःभवति स्म । राजा क्षत्रियोऽत्मनोधर्मरक्षणंम्-इतरवर्णानां धर्मरक्षणं च कर्तुं 'वर्णाश्रमव्यवस्थां’ नियन्त्रयति स्म । तद्व्यवस्थोल्लङ्घनपरान् दण्डयते स्म । एवं क्षत्रियः धर्मज्ञः, प्रजारक्षकः, वर्णाश्रमाणां गुरुश्चेति जनैः कीर्त्यते स्म ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
  • History and Culture of Indian People, The Vedic Age, p 313-314
"https://sa.wikipedia.org/w/index.php?title=क्षत्रियः&oldid=469786" इत्यस्माद् प्रतिप्राप्तम्