पार्श्वनाथ-महावीरयोः व्यक्तित्वविमर्शः

भगवान् पार्श्वनाथः-

जयतस्तव पार्श्वस्य श्रीमद्भर्तुः पदद्वयम् ।

क्षयं दुस्तरपापस्य क्षमं कर्तुं ददज्जयम् ॥

रागादिजेतृत्वाज्जिनः । क्वासौ जिनः? उच्यते – सर्वज्ञो वीतरागोऽर्हन् केवली तीर्थकृज्जिनः। स्याद्वादवादी निह्नीको निर्ग्रन्थाधिप इत्यपि ॥[1] इति । यद्वा जिन उपास्यदेवतास्येति जिन्+अण् जैनः । यज्ञ देवता कर्मकाण्डादिषु वीतस्पृहः अर्हन्नामा सन्न्यासी पार्श्वनाथो वेदविरोधी । तमैतिहासिक-पुरुष इति पाश्चात्याः[2] मन्यन्ते । जाति धर्म वर्ण लिंग निर्विशेषेण सर्वे जनाः मुक्तिं प्राप्तुं समर्था इति तस्य युक्तिर्बलिष्ठा आसीत् ।

तीर्थं नाम शास्त्रं  तीर्थं करोतीति तीर्थंकरः । संसारसागरात् पारकर्ता अपिच धर्मस्य प्रवक्ता भवति तीर्थंकरः । जैनधर्मस्य चतुर्विंशतितीर्थंकरेषु[3] पार्श्वनाथः त्रयोविंशतितमः तीर्थंकरो बभूव । तत्र "दर्शनविशुद्धिर्विनयसंपन्नता शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधिर्वैयावृत्त्यकरण्मर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थंकरत्वस्य" इति तत्त्वार्थसूत्रे[4] तीर्थंकरलक्षणं लक्षितम् । ते च तीर्थंकराः ऋषभनाथः, अजितनाथः, संभवनाथः, अभिनंदननाथः, सुमतिनाथः,पद्मप्रभनाथः,चंद्रप्रभनाथः, पुष्पदंतनाथः, शीतलनाथः, श्रेयांसनाथः, वासुपूज्यनाथः, विमलनाथः, अनंतनाथः, धर्मनाथः, शांतिनाथः, कुंथुनाथः, अरहनाथः, मल्लिनाथः, मुनिसुव्रतनाथः, नमिनाथः, अरिष्टनेमिनाथः,पार्श्वनाथः एवं  श्री महावीरः प्रमुखाश्चतुर्विंशतिसंख्यकाः प्रसिद्धाः । अन्तिम-तीर्थंकरस्य महावीरस्य २५० वर्षेभ्यः प्राक् इक्ष्वाकुराजवंशोद्भवोऽयं[5] महात्मा ख्री०पू० (८७२-७७२) तमे वर्षे  पौषकृष्णैकादश्यां तिथौ विशाखा नक्षत्रे[6] तुलाराशौ वाराणस्यामात्मानं प्रकटयामास । पार्श्वनाथ आचार्यपुष्पदन्तेन उग्रवंशीयो[7] निरूपितः । सांप्रतिका विद्वांसः पार्श्वनाथं नागवंशीय इति स्वीकुर्वन्ति ।[8] काश्यपगोत्रीयराजा अश्वसेन अस्य पिता तथा वामादेवी माता आस्ताम् ।[9] महापुराणेऽस्य[10] पितरौ ब्राह्मी-विश्वसेनौ निरूपितौ । वादिराजस्य पार्श्वनाथ चरित्रेऽस्य मातुर्नाम ब्रह्मदत्ता निश्चिता[11] ।  जन्मनः पूर्वं स्वप्ने माता गर्भावस्थायां तत्पार्श्वे भ्रमन्तं कृष्णसर्पं ददर्श[12] । पुत्रजन्मानन्तरमपि    तच्छरीरे सर्पचिह्नं दृष्ट्वा राज्ञी वामा तं पार्श्व इति सम्बोधितवान् । उत्तरपुराणानुसारं देवराज इन्द्रेण पार्श्वनाथ नाम प्रदत्तम्[13] । पश्चात्तस्य पार्श्वनाथो नाम प्रसिद्धिं गतः । प्रारम्भिकजीवनमस्य राजकुमाररूपेण अतिवाहितम् । कदाचित् कुशस्थलराज्ञः प्रसेनजितस्य कन्यया पद्मावत्या सहास्य विवाहः संजातः[14] । एतद्विषये बहुमतान्तराणि दृश्यन्ते । दिगम्बरपरंपरायां पार्श्वनाथ अविवाहितः स्वीक्रियते[15] ।  पश्चात् वैराग्यदावानलेन प्रदह्य स्वयंबुद्धः पार्श्वनाथः त्रिंशद् वयसि गृहं त्यक्त्वा जैनीदीक्षां स्वीचकार । काश्यां कौशाम्बवने त्र्यशीतितमानि दिनानि उषित्वा कठोरतपश्चर्यया तत्र केवलज्ञानं लेभे । पश्चात् कुरु-काशि-कोशल-अवन्ती-पौण्ड्र-मालव-ग-बंग-कलिंग-पाञ्चाल-मगध-विदर्भ-दशार्ण-सौराष्ट्र-कर्णाटक-कोंकण-मेवाड-लाट-द्राविड-कच्छ-काश्मीर-शाक-पल्लव-वत्स-आभीर-ताम्रलिप्तादिषु विभिन्नेषु क्षेत्रेषु परिभ्रम्य चतुर्विधसंघस्य संस्थापनं चकार[16] ।  सत्य-अहिंसा-अस्तेय-अपरिग्रहाणां चतुर्णां चातुर्यामधर्मस्य[17] देशनां प्रददौ । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग[18] इति तेन अभाणि । श्रुत-चारित्रौ धर्मस्य द्वौ भेदौ । कर्मावरणबन्धनानि छेतुं धर्मो हि सर्वश्रेष्ठं साधनमिति निर्दिष्टम् । धर्मं विना जीवनमसारम् ।   चतुर्विधेषु संघेषु मुनिः आर्यिका,श्रावकः श्राविका च प्रमुखा आसन्। पार्श्वनाथस्य चत्वारो गणाः निर्ग्रन्थसंप्रदाया आसन् । प्रत्येकगणेषु एको गणधरः प्रधानो विद्यते । समवायांग-कल्पसूत्रादिषु अष्टौ[19] गणधरा विद्यन्ते । अन्यत्र दशगणधरा[20] वर्ण्यन्ते । भगवतः पार्श्वनाथस्य धर्मीय परिवारेषु शुभदत्तादि अष्टौ दशो वा गणधराः, सहस्रसंख्यकाः केवलयः, पञ्चाशदधिक सप्तशतपरिमिताः मनःपर्यवज्ञानिनः, चतुर्दशशतसंख्यकाः अवधिज्ञानिनः, पञ्चाशदधिक त्रींशत्परिमिताः पूर्वधारिणः, षट्शतपरिमिता वादिनः, द्वादशशतसंख्यका अनुत्तरोपपातिको मुनयः, षोडशसहस्र साधवः, अष्टत्रिंशत्सहस्राः साध्वः, लक्षाधिक चतुःषष्ठिसंख्यकाः श्रावकाः, त्रिलक्षाधिक सप्ताविंशतिसहस्राः श्राविकाश्च बभूवुः । पार्श्वनाथशासने सहस्राधिकाः साधवः द्विसहस्राधिका साध्वश्च सिद्धिप्राप्ता आसन् ।  जैनागमेषु पार्श्वनाथस्य नव-पूर्वजन्मानि व्यतीतानि पठ्यन्ते । आदौ मरुभूतिनामा ब्राह्मणः, द्वितीये वज्रघोषो नामको हस्ती, तृतीये स्वर्गीयदेवता सहस्रारः, चतुर्थे किरणदेवो विद्याधरः, पञ्चमे अच्युतदेवः, षष्ठे वज्रनाभनामा चक्रवर्त्ति सम्राट्, सप्तमे ग्रैवयकदेवता, अष्टमे स्वर्णबाहु राजा, नवमे च  प्राणांन्तदेव इति[21]। पार्श्वनाथस्य रंगो नीलः । प्रतीकः सर्पः । यक्षः पार्श्वः । यक्षिणी च पद्मावती इति जैना वदन्ति । सप्ततिवर्षाणि केवलज्ञानं प्रदाय सर्वशेषे वाराणसितः संप्रति झारखण्डस्थित-सम्मेतशिखरं[22] प्रत्यागतः सः । तत्र त्रयत्रिंशत्साधुभिः सह मासं यावत् अनशने स्थित्वा शुक्लध्यानेन मग्नः सन् श्रावण शुक्लाष्टम्यां विशाखानक्षत्रे सर्वकर्माणि दग्ध्वा निर्वाणमवाप ।

भगवान् महावीरः

सर्वज्ञो जितरागादिदोषस्त्रैलोक्यवर्जितः । यथास्थितार्थवादी च देवोऽर्हत् परमेश्वरः ॥[23] भगवतः पार्श्वनाथस्य २५० वर्षात्परं वर्धमानो महावीरकालः  । असौ जैनधर्मस्यान्तिम तीर्थंकर एव । तदानीन्तनकाले यागयज्ञादीनां वैदिक क्रियाणां सर्वत्र बहुलतया प्रचार प्रसारो दृष्टिगोचरीभूत आसीत् । पशुहिंसा मद्य मांसादि अमेध्यभोजनं सामाजिकानां दीनचर्या प्रचलिता । अस्मिन्नेव काले ख्री०पू० षष्ठ शताब्द्यां[24] ( ५९९-५२७ )चैत्र शुक्ल त्रयोदश्यां तिथौ रात्रावन्तिम प्रहरे वैशाली[25] नगर्य्यामस्य निर्ग्रन्थ[26] ज्ञातृ[27] पुत्रस्य आविर्भावो संजातः । क्षत्रिय नाथवंशस्य सम्राट् सिद्धार्थ अस्य जनकस्तथा त्रिशलाऽस्य जननी आस्ताम् । त्रिशला लिच्छविवंशीयराज्ञः चेटकस्य पुत्री आसीत् । महावीरस्य विवाहः कौण्डिन्य गोत्रया राजकुमार्यया यशोदया सह अभूत् । त्रिंशद्वयसि बर्धमानः भिक्षुव्रतं धारयन् द्वादशवर्षं यावत्कठोर साधनं संपाद्य निर्वाण-सिद्धिमवाप । साधनावस्थायामसौ विभिन्नेषु क्षेत्रेषु परिभ्रम्य वास वस्त्रशून्यः सन् तपश्चर्य्यां चकार । सिद्धावस्थायामर्हत्पदसमासीनं परमपूजनीयो बभूव ।[28]

बर्धमानोऽस्य पितृदत्तं नाम । अस्य एका कन्या प्रियदर्शना आसीद्यस्याः पति पश्चादस्य प्रथमः शिष्यो जातः ।  पार्श्वनाथेन चतुर्यामाणां सत्य-अहिंसा-अस्तेय-अपरिग्रहाणामुपदेशः प्रदत्तः किन्तु महावीरो ब्रह्मचर्यं संयुज्य पञ्चमहाव्रतस्य उपदेशो विहितः ।

कैवल्यप्राप्तेरनन्तरं धर्मप्रचाराय वैशाली- कपिलवास्तु गणराज्ययोः प्रतिस्थानं परिभमणं कृतवान् । स्वमतमुपस्थापयन् जनानामादरणीयो संबभूव । कालक्रमे तद्धर्मः सहसा संप्रसारितः । मगध-सिन्धु-सौवीर-कौशाम्बी-अवन्ती- चम्पादिषु राज्येषु सः पूजार्हः संजातः । राजवंशेषु तस्य प्रतिष्ठा क्रमशः वर्द्धितः ।

अहिंसाव्रत महावीरस्य श्रेष्ठ आसीत् । तन्नये 'सब्बे जीवा वि इच्छति जीविउ न मरीजिउ' अनेन दिव्यघोषेन  न केवलं मानवान् अपितु पशून्नपि अहिंसायाः पाठं पाठयामास । धर्मनाम्नो व्यवह्रियमाणस्य क्रूरबलिप्रथायाः विरोधः कुर्वन्नसौ पशूनां कृते महदुपकारो विहितः ।[29] निखिले विश्वे समाजवाद साम्यवाद अहिसा सत्य अपरिग्रह ब्रह्मचर्यादीनां  शिक्षां प्रदर्श्य मानवानां कृते अमरत्वस्य मार्ग उन्मुक्तः कृतः । जैनदर्शने उच्च नीचयोः भेदाभावो विद्यते । कठोर जातिभेदवादं सुव्यवस्थापयितुं  तेन जन्मस्थाने कर्मण प्राधान्यः स्वीकृतः । उच्चकुले जातेऽपि न कश्चिदुच्चो भवति । किन्तु कर्मणा चरित्रेण च नीचोच्चस्थानं प्राप्यते । तथाहि- उच्चावचजनप्रायः समयोऽयं जिनेशिनाम् । नैकस्मिन् पुरुषे तिष्ठेदेकस्तम्भ इवालबः ॥ अपि च प्राकृतगिरया– कम्मुणा वम्मणो होइ कम्मुणा होइ खत्तियो । वइस्सो कम्मुणा होइ सुद्दो हवइ कम्मुणा ॥[30] इति । अपि चान्यत्र- ब्राह्मणः क्षत्रियादीनां चतुर्णामपि तत्त्वतः । एकैव मानुषी जातिराचारेण विभज्यते ॥ [31] इति ।

'णाणस्य सारमायारो' अर्थात् ज्ञानस्य सार आचारः । 'चारितं खलु धम्मो' चरित्रं हि यथार्थो धर्मः । न चारितात्परं तप इति जैनशासने निर्द्धारितं तत्त्वम् ।  आचारक्षेत्रे महावीरस्वामिना क्रान्तिकारिविचारः प्रदर्शितः । साद्वादः अनेकान्तवादश्च अस्य महानुभावस्य सर्वश्रेष्ठौ सिद्धान्तौ । पक्षपातराहित्ये सर्वधर्मसमन्वये अनयोरावश्यकता अपरिहार्या । यच्चोक्तं हरिभद्रसूरिणा-  आग्रही वत निनीषति युक्तिं तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥[32] इति । समर्थयन्ति हेमचन्द्रपादाः- पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः प्रतिग्रहः ॥[33]

महावीरनिर्वाणात्परं जैनधर्मो राजाश्रयेण परिपालितो वर्द्धितश्च । मगधस्य नन्दवंशीयेन राज्ञा  कलिंगाधिपतिना खारवेलेन मौर्याधिपतिना चन्द्रगुप्तेन च  जैनदीक्षा गृहीता । तदानीन्तनकालावच्छेदेन जैनसंघप्रधानेन संघभद्रेण जैनाचारे किमपि परिवर्त्तनं कृतम् । नग्नतां विहाय तेन श्वेतवस्त्रं समर्थितम् । अनेन महान् विवादो जातः । जैनसंप्रदायोऽपि श्वेताम्बर-दिगम्बरभेदेन द्विधा विभक्तः ।[34] आचार-विचारधारायामपि भेद आयातः । तथा हि- भुंक्ते न केवली न स्त्री मोक्षमेति दिगम्बरः । प्राहुरेषामयं भेदो महान् श्वेताम्बरैः सह ॥ [35] इति ।

© नन्दप्रदीप्तकुमारः

पादटीप्पण्यः


[1]  महावीर जयन्ती स्मारिका १९७० पृ ५७

[2] That parsva was a historical person, is now admitted by all as probable. The sacred books of the East vol.XLV. introduction, page- 21

[3] स्तुतिविद्या आचार्यः समन्तभद्रः

[4]  ६/४

[5] तस्यामिक्ष्वाकुवंशोऽभूद्यश्वसेनो महीपति- त्रि०श०पु०च०, प ९ स ३ श्लो १४

[6] उत्तरपुराणे

[7] महापुराण ६४/२२/२३

[8] जैनधर्मका मौलिक इतिहास पृ-२८७

[9] समवायांग

[10] वाराणस्यामभूद्विश्वसेनः काश्यपगोत्रजः । ब्राह्म्यस्य देवी सम्प्राप्तवसुधारादिपूजना ॥ महापुराणे-६३/७५

[11] जैनधर्मका मौलिक इतिहास पृ-२८७

[12]  गर्भस्थितेऽस्मिन्जननी कृष्णनिश्यपि पार्श्वतः ।

सर्पन्त सर्पमद्राक्षीत् सद्य पत्यु शशस च ॥

स्मृत्वा तदेष गर्भस्य प्रभाव इति निर्णयन् ।

पार्श्व इत्यभिधा सूनोरश्वसेननृपोऽकरोत् ॥ त्रिषष्टि शलाका पुरुष चरित्रे पर्व ९ सर्ग ३ श्लो ४५

[13]  जन्माभिषेककल्याणपूजानिर्वृत्यनन्तरम् ।

पार्श्वाभिधान कृत्वास्य पितृभ्यां तं समर्पयत् ॥ उ० पु० ७३/९२

[14]  इत्थं पितृवचः पार्श्वऽप्युल्लंघयितुमनीश्वरः ।

भोग्यकर्म क्षपयितुमुदुवाह प्रभावतीम् ॥ त्रि० ष० श० २१०

[15] जैनधर्मका मौलिक इतिहास पृ २९३

[16] तत्र पृ३०२

[17]  तत्रैव ३०२

[18] तत्त्वार्थसूत्रम् १

[19] पासस्सणं अरहओ पुरिसादाणीयस्स अट्ट्गणा

सुभेय अज्जघोसेय वसिट्ठे दंभयारि च ।

सोमे सिरिहरे चेव वीरभद्दे जसे विया ॥

[20]  आर्यदत्त आर्यघोषो वशिष्ठो ब्रह्मनामकः ।

सोमश्च श्रीधरो वारिषेणो भद्रयशो जयः ॥

विजयश्चेति नामानो दशैते पुरुषोत्तमाः ॥

[21] जैनधर्मका मौलिक इतिहास पृ २८४

ए बी सी क्लाइन्स 2017 , पीपी। 867–872।

[22] पारसनाथ पर्वतः

[23] भारतीयदर्शनम् पृ ९०

[24] जैनदर्शनेतिहासः पृ-

[25] विहारराज्ये वर्तते

[26]  जैनाचार्याः

[27]  ज्ञातृ अस्य गोत्रस्य नाम

[28]  Indian Historical quarterly, vol-VIII, No.2 Suplement of Indus civilization.

[29] जैनधर्मका मौलिक इतिहास पृ ३३३

[30]  उत्तराध्ययन- २५,३३

[31] जैनदर्शनम् पृ-२९

[32]  तत्र-२२

[33]  तत्रैव २३

[34]  भारतीयदर्शनम् पृ ९३

[35]  सर्वदर्शनसंग्रहे