सदस्यः:महेशकुमारः ठाकरः/प्रयोगपृष्ठम्/1
कुम्भलगढ
सम्पादयतुकुम्भलगढ-नगरं भारतस्य राजस्थान-राज्यस्य राजसमन्द-मण्डले स्थित् अस्ति । इदं राजस्थान-राज्यस्य प्रसिद्धं पर्यटनस्थलमस्ति । नगरमिदं राज्यस्य दक्षिण-भागे स्थितम् अस्ति । नगरमिदं कुम्भलपुर इति नाम्ना अपि ज्ञायते । कुम्भलगढ-दुर्गः राजस्थान-राज्यस्य महत्त्वपूर्णदुर्गेषु अन्यतमः अस्ति । पञ्चदशशताब्द्यां राणा कुम्भा इत्याख्येन अस्य दुर्गस्य निर्माणं कारितम् आसीत् । शत्रुभिः रक्षणार्थम् इमं दुर्गं परितः भित्तिः निर्मापिता । कुम्भलगढ-नगरे बहुनि भवनानि सन्ति । तेषु भवनेषु बादल-भवनं प्रमुखं विद्यते । मर्दाना-भवनं, जनाना-भवनम् इत्येते भवने अपि अस्मिन् नगरे स्थिते स्तः । कुम्भलगढ-नगरे बहूनि मन्दिराणि अपि स्थितानि सन्ति । वेदी-मन्दिरं, नीलकण्ठमहादेव-मन्दिरं, मुच्छलमहादेव-मन्दिरं, परशुराम-मन्दिरं, मम्मादेव-मन्दिरं, रणकपुर-जैन-मन्दिरम् इत्यादीनि कुम्भलगढ-नगरस्य समीपस्थानि धार्मिकस्थलानि सन्ति । कुम्भलगढ-अभयारण्यम् अपि तत्र वर्तते । अस्मिन् अभयारण्ये विविधाः पशवः दृश्यन्ते । कुम्भलगढ-नगरस्य वातावरणं सर्वदा सामान्यं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं अस्य नगरस्य वातावरणं शान्तं, सुखदं च भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । कुम्भलगढ-नगरं ८ क्रमाङ्कस्य, ६५ क्रमाङ्कस्य, ७९ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः कुम्भलगढ-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः कुम्भलगढ-नगरं गन्तुं शक्यते । कुम्भलगढ-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः कुम्भलगढ-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । फलना-नगरस्य रेलस्थानकं कुम्भलगढ-नगरस्य समीपस्थं रेलस्थानकमस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । कुम्भलगढ-नगरात् इदं रेलस्थानकं ६८ किलोमीटरमिते दूरे स्थितमस्ति । अस्मात् रेलस्थानकात् अहमदाबाद-नगराय, पुणे-नगराय, बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । कुम्भलगढ-नगरे विमानस्थानकं नास्ति । उदयपुर-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं वर्तते । कुम्भलगढ-नगरात् इदं विमानस्थानकं १०५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कुम्भलगढ-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया कुम्भलगढ-नगरं प्राप्तुं शक्नुवन्ति ।
फलोदी
सम्पादयतुफलोदी-नगरं भारतस्य राजस्थान-राज्यस्य जोधपुर-मण्डले स्थितम् अस्ति । नगरमिदं सॉल्ट् सिटी इति नाम्ना विख्यातम् अस्ति । स्थलमिदं थार-मरुभूमेः, जैसलमर-नगरस्य, जोधपुर-नगरस्य च मध्ये स्थितम् अस्ति । साम्प्रतमपि तत्र लवणस्य व्यापारः क्रियते । पुरा नगरमिदं फलवरिधिका इति नाम्ना ज्ञायते स्म । ई. स. १५४७ तमे वर्षे अस्मिन् नगरे मालदेव राठौर इत्याख्यः अस्य नगरस्य शासकः आसीत् । अनन्तरम् ई. स. १६१५ तमे वर्षे राव सूर सिंह इत्याख्येन अस्मिन् नगरे स्वस्य आधिपत्यं स्थापितम् आसीत् । तदा इदं क्षेत्रं जोधपुर-क्षेत्रे समाविष्टः । अस्य नगरस्य संस्कृतिः अपि विशिष्टा वर्तते । अस्मिन् क्षेत्रे हिन्दी-भाषा, राजस्थानी-भाषा च व्यवह्रीयते । अस्मिन् नगरे हिन्दु-मन्दिराणि, जैन-मन्दिराणि च सन्ति । अतः बहवः जनाः दर्शनार्थं तत्र गच्छन्ति । नगरेऽस्मिन् एकः दुर्गः अपि विराजते । दुर्गोऽयम् ऐतिहासिकं स्मारकः अस्ति । अयं दुर्गः ३०० वर्षाणि पुरातनानि सन्ति । दुर्गस्य भित्तिषु वास्तुकला अपि विशिष्टा वर्तते । स्थलेऽस्मिन् बहूनि धार्मिकस्थलानि सन्ति । सचियामाता-मन्दिरं, महावीर-मन्दिरं, रामेश्वरा-मन्दिरं, सूर्य-मन्दिरम् इत्यादीनि अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । ग्रीष्मर्तौ अस्य नगरस्य तापमानं प्रायः ४५ डिग्रीसेल्सियसमात्रात्मकं भवति । शीतर्तौ च अस्य नगरस्य न्यूनतमतापमानं प्रायः 5 डिग्रीसेल्सियसमात्रात्मकं भवति । जनाः अक्टूबर-मासतः मार्च-मासपर्यन्तं फलोदी-नगरं गच्छति । फलोदी-नगरं ८ क्रमाङ्कस्य, ११४ क्रमाङ्कस्य, १५८ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः फलोदी-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः फलोदी-नगरं गन्तुं शक्यते । फलोदी-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः फलोदी-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् जैसलमेर-नगराय, बीकानेर-नगराय, भोपाल-नगराय, कोटा-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । फलोदी-नगरे विमानस्थानकं नास्ति । जोधपुर-नगरस्य विमानस्थानकम् अस्य नगरस्य समीपस्थं वर्तते । फलोदी-नगरात् इदं विमानस्थानकं २५० किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण फलोदी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया फलोदी-नगरं प्राप्तुं शक्नुवन्ति ।
कोटा
सम्पादयतुकोटा-नगरं भारतस्य राजस्थान-राज्यस्य कोटा-मण्डलस्य मुख्यालयः वर्तते । नगरमिदं चम्बल-नद्याः तटे स्थितम् अस्ति । इदं राजस्थान-राज्यस्य औद्यौगिकं, शैक्षणिकं च राजधानी कथ्यते । यतः अस्मिन् नगरे बहूनि शैक्षणिकसंस्थानानि, यन्त्रागाराः च सन्ति । कोटा-नगरं राजस्थानराज्यस्य प्रमुखं व्यापारिकं, शैक्षणिकं च केन्द्रं वर्तते । भारतस्य विभिन्ननगरेभ्यः विद्यार्थिनः पठितुं तत्र गच्छन्ति । नगरेऽस्मिन् राजभवनानि, दुर्गाः, धार्मिकस्थलानि, उद्यानानि इत्यादीनि सन्ति । गुरूद्वारा आजमगढ साहिब, गोदावरीधाममन्दिरं, गाराडियामहादेव-मन्दिरं, मथुराधीश-मन्दिरम् इत्यादीनि अस्य नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । “अयोध्या सिंह” इत्याख्यः प्रसिद्धः कविः अस्ति । अस्य कवेः जन्मस्थलम् अपि नगरमिदं वर्तते । कोट-नगरस्य प्रसिद्धस्मारकेषु “जगमन्दिर पैलेस्” इत्येतत् स्थलम् ऐतिहासिकं वर्तते । इदं स्थलं किशोरसागर-तडागस्य मध्ये स्थितम् अस्ति । किशोरसागर-तडागः कृत्रिमं स्थलं वर्तते । जगमन्दिर पैलेस् इत्यस्मिन् स्मरके सङ्ग्रहालयद्वयं स्थितम् अस्ति । एकं शासकीयसङ्ग्रहालयः, अपरं महाराजामाधोसिंहसङ्ग्रहालयः च । कोट-नगरं शाटिकानिर्माणाय अपि प्रसिद्धम् अस्ति । अस्य नगरस्य शाटिकाः केवलं सम्पूर्णे भारते न अपि तु विदेशे अपि विख्याताः सन्ति । एताः शाटिकाः “कोटा डोरिया” अपि कथ्यन्ते । अस्य नगरस्य जलवायुः सामान्यः भवति । अतः ग्रीष्मर्तौ, शीतर्तौ वा अस्य नगरस्य भ्रमणं कर्तुं शक्यते । किन्तु अक्टूबर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य भ्रमणम् उत्तमं भवति । तस्मिन् काले बहवः जनाः कोटा-नगरं भ्रमणार्थं गच्छन्ति । कोटा-नगरं ११ क्रमाङ्कस्य, १२ क्रमाङ्कस्य, ११२ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः कोटा-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः कोटा-नगरं गन्तुं शक्यते । कोटा-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः कोटा-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य प्रमुखेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् जैसलमेर-नगराय, बीकानेर-नगराय, भोपाल-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । कोटा-नगरे एकं विमानस्थानकम् अस्ति । इदम् राष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कोटा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया कोटा-नगरं प्राप्तुं शक्नुवन्ति ।
पुष्कर
सम्पादयतुपुष्कर-नगरं राजस्थान-राज्यस्य अजमेर-मण्डले स्थितम् अस्ति । पुष्कर-नगरम् अजमेर-नगरात् १४ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं नगरं भारतस्य पवित्रस्थलेषु अन्यतमम् अस्ति । संस्कृतसाहित्ये अपि कालिदासेन “अभिज्ञानशाकुन्तलम्” इत्यस्मिन् नाटके अस्य नगरस्य उल्लेखः कृतः अस्ति । अस्मिन् नगरे चतुर्शताधिकानि (४००) मन्दिराणि, द्विपञ्चाशत् (५२) घट्टाः च सन्ति । अस्मिन् नगरे भगवतः ब्रह्मणः मन्दिरं विद्यते । इदं मन्दिरं ब्रह्मणः प्रमुखं मन्दिरम् अस्ति । वराह-मन्दिरं, अप्टेश्वर-मन्दिरं, सावित्री-मन्दिरम् इत्यादीनि अस्य नगरस्य अस्य नगरस्य प्रमुखाणि मन्दिराणि सन्ति । तत्र पुष्कर-तडागः अस्ति । अयं तडागः अस्य नगरस्य धार्मिकं स्थलं वर्तते । अस्य तडागस्य एका पौराणिका कथा अस्ति यत् – “अस्मिन् स्थले भगवता ब्रह्मणा वज्रनाभ-असुरः कमलपुष्पेन हतः । वज्रनाभस्य वधे काले कमलपुष्पस्य त्रीणि पत्राणि पतितानि । तेषु पत्रेषु एकं पत्रं पुष्कर-नगरे पतितम् । यत्र तत्पत्रं पतितं, तत्र तडागः निर्मितः । प्रतिवर्षं कार्तिकमासस्य पौर्णिमायां जनाः तस्मिन् तडागे स्नानं कुर्वन्ति । मन्यते यत् – “अस्मिन् तडागे स्नानेन मोक्षः प्राप्यते । प्रतिवर्षं तत्र मेला-उत्सवः आयोज्यते । अयं मेला-उत्सवः प्रतिवर्षं नवम्बर-मासे आयोज्यते । अस्मिन् मेला-उत्सवे पशूनां व्यापारः क्रियते । उत्सवोऽयं विश्वस्य बृहत्तमः वर्तते । अस्य नगरस्य वातावरणं सर्वदा सामान्यं भवति । शीतर्तौ अस्य नगरस्य न्यूनतमतापमानं प्रायः ८ डिग्रीसेल्सियसमात्रात्मकं भवति । अक्टूबर-मासतः फरवरी-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । पुष्कर-नगरं ८ क्रमाङ्कस्य, ११ क्रमाङ्कस्य, १२ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः पुष्कर-नगरं राजस्थान-राज्यस्य विभिन्ननगरैः सह सञ्योजयन्ति । राजस्थान-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः पुष्कर-नगरं गन्तुं शक्यते । पुष्कर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः पुष्कर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं राजस्थान-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अजमेर-नगरस्य रेलस्थानकं पुष्कर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । पुष्कर-नगरात् इदं रेलस्थानकं १६ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् रेलस्थानकात् जैसलमेर-नगराय, बीकानेर-नगराय, भोपाल-नगराय, जोधपुर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । पुष्कर-नगरे विमानस्थानकं नास्ति । जयपुर-नगरस्य विमानस्थानकं पुष्कर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुष्कर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया पुष्कर-नगरं प्राप्तुं शक्नुवन्ति ।