प्रजातान्त्रिकी शिक्षा राष्ट्रीयैकता च

• प्रजातन्त्रम् अर्थः – जनानां लोकानां प्रजानां वा तन्त्रं शासनं जनतंत्रम् लोकतन्त्रं प्रजातन्त्रं च इत्यभिधियते । प्रजातन्त्रं न केवलं शासनतन्त्रं निर्दिशति अपि तु शासनव्यवस्थां , समाजव्यवस्थां , आर्थिकव्यवस्थां , जीवनदर्शनश्च निर्दिशति । आधुनिकः अयं युगः प्रजातान्त्रिकः सर्वबिधशासनब्यवस्थासु प्रजातन्त्रं अतिशेते । अत्र प्रजाः एव परोक्षः शासकाः भवन्ति । अत्र सदस्येषु समानता, सहयोगितयोः महत्वं वर्तते । अयं शब्दः आग्लभाषायां Democracy इति कथ्यते । ग्रीक् भाषायाः Demos (People) तथा Cratic (Power) शब्दाभ्यां निष्पन्नः । अस्यार्थः भवति जनशक्तिः । • परिभाषा –

          ABRAHAM  LINCON – 

(1) प्रजाद्वारा प्रजाभ्यः प्रजानामेव शासनं भवति प्रजातन्त्रं ।

          (2) तत् प्रजातन्त्रं जनतन्त्रं वा कथ्यते यत्र सर्वस्यापि लोकस्य शासने      भागो भवति सीले ।
                DICEY – तत् प्रजातन्त्रं यत् शासनसुत्रं राष्ट्रस्य बृहतलोकहस्ते निपतति ।

• प्रजातान्त्रिकी शिक्षा –

           अस्माकं समाजः प्रजातन्त्रियः वर्तते । अस्माकं शिक्षाव्यवस्था अपि प्रजातन्त्रियः वर्तते , विद्यालयं समाजस्य लघुरूपं निर्मातुं सर्वप्रथममावस्यकंस्ति यत् तस्मिन् प्रजातन्त्रियसिधान्तानां स्थानं स्यात् । तदर्थं व्यवस्था प्रजातन्त्रियादर्शानां सिधान्तानाश्च अनुसारेण क्रियते । अनेन वालकेभ्यः स्वशासनं, स्वदायित्वानां निर्वहणं, मतस्य सदुपयोगः च इति व्यावहारिकज्ञानप्रदानायः अवसराः प्राप्यन्ते ।
    
                       शिक्षा एव लोकतन्त्रे प्रजाः उद्बोधयति, राज्यस्य कार्यकलापेषु प्रजासु अभिरुचिमुत्पादयति । समाजे व्यक्तयः स्वेतरैः सह संभूय स्वविकासाय समाजस्य हिताय यथा प्रयतेरन् , तथा समाजस्य संरचना लोकतन्त्रस्य उत्तरदायित्वमिति कथ्यते । तस्मात् कारणात् प्रजातन्त्रे शिक्षायाः कार्यं महतरं वर्तते ।

• ड्यूवी महोदयस्य मतानुसारं –

           लोकतन्त्रे तादृशी शिक्षा दीयते यथा व्यक्तिनां मध्ये सामाजिकसम्बन्धे तन्नियन्त्रेण च अभिरुचिः उत्पद्यते । यथा च तादृशमानसिक स्थितयः सञ्जायेरन् याभिः विना सामाजिक व्यवस्थापरिवर्तनं न जायते ।
 

• प्रजातन्त्रीय शिक्षाव्यवस्थाः निम्नलिखितान् स्वीकृत्यैव तिष्ठति :-

(1) सार्वभौमिकानिवार्यशिक्षायाः च प्रसारः (2) समानावसरप्रदानं तथा व्यैक्तिकभिन्नतायाः क्रते च आदरः (3) प्रौढ – अनौपचारिक शिक्षायाः च व्यवस्था (4) वालकेन्द्रित शिक्षायाः च व्यवस्था (5) निःशुल्कशिक्षायाः व्यवस्था

• प्रजातन्त्रीय शैक्षिकनियोजनम् :- प्रजातन्त्रियशैक्षिक नियोजनं त्वेका प्रगतिशीला प्रक्रिया वर्तते । अस्यां न केवलं वर्तमानः धातब्यः , अपितु भविष्यत्कालो दृष्टिपथे रक्षणीयो भवति । प्रजातन्त्रीय शैक्षिकयोजनानिर्माणे पूर्वकालिकनिर्देशानामनुभवस्य वोपयोगो अवस्यमेव करणीयः ।

• प्रजातन्त्रीय शैक्षिकनियोजनसमये आविस्मरणीयानि तथ्यानि भवन्ति :-

(1) अस्माकमग्रे नियोजनलक्ष्यं स्पष्टं स्यात् अर्थात् तस्य उदेस्य पुत्यर्थं शैक्षिकयोजना निर्मियते एतद् उदेश्यम् लक्ष्यं वा पूर्णतः स्पष्टं निश्चितं च स्यात् । (2) उदेश्यानि निर्धायं तत्पुत्यर्थं कर्तव्य- कार्याणां विस्तृता सूची निर्मेया (3) सहैवायमपि निश्चेतव्यो यत् विविधकार्याणि कया पद्धत्या केन प्रविधिना वा संपाद्यानि भविष्यन्ति ।

• प्रजातन्त्रीय शिक्षा उदेस्यं :- (1) संतुलितव्यक्तित्ववतां सदस्यानां संम्पुष्टिः (2) प्रजातन्त्रीय मुल्यानां विकासः (3) व्यावसायिक कौशलविकासः (4) उतमाभिरुचेः विकासः (5) विचारसक्तेः विकासः (6) सामाजिक दृष्टेः विकासः (7) सामञ्जस्यपूर्णब्यक्तित्वस्य विकासः (8) नेतृत्वगुणानां विकासः (9) राष्ट्रियान्ताराष्टिय भावनायाः च विकासः (10) नागरिकता प्रशिक्षणं

• पाठ्यक्रमः :- (1) नम्यतासिद्धान्तः (2) सामाजिक आवश्यकता आदर्शपूर्ति सिद्धान्तः (3) व्यक्तेः अभिरूचि – योग्यता – सामर्थ्य – आवश्यकतानां सन्तुष्टिसिद्धान्तः (4) व्यावहारिकता सिद्धान्तः (5) उपयोगिता सिद्धान्तः (6) समानतायाः सिद्धान्तः

• शिक्षणपद्धतिः :- वाद- विवाद पद्धतिः सामाजिकाभिबियक्तिः पद्धतिः योजना पद्धतिः डाल्टन पद्धतिः मान्टेसरी पद्धतिः ह्यूटिस्टिक् पद्धतिः प्रयोगात्मक पद्धतिः क्रीडा पद्धतिः समस्या समाधानपद्धतिः

• प्रजातन्त्रं विद्यालयः च :-

             विद्यालयः अस्ति सामाजिकसंस्था, शिक्षा हि सामाजिक सामाजिकप्रक्रियेति कारणात् विद्यालयः सामुदायिक जीवनस्य तत्स्वरूपं अस्ति यत्र सर्वं साधनं केंद्रितं वर्तते ।                                                                                            

• विद्यालयानां संघटनं प्रशासनं च प्रजातन्त्रीयसिधान्तानुगुणं ब्यवस्थापयेत् । अन्यथा प्रजातन्त्रीय सिधान्तानाम् प्रसारः न स्यात् । विशेषतः तदर्थं विद्यालयेषु प्रेम सहयोग , सहानुभूति – परोपकारादि गुणानां विकासाय महत्वं दद्यात् ।

• शिक्षकः :- प्रजातन्त्रीयः शिक्षण ब्यवस्थायां शिक्षकः मित्रवत् , मार्गदर्शकवत् , समाजउधारकवत् , नामकवत् च भवेत् । राष्ट्रीयशिक्षानीतौ शिक्षकस्य महत्वं एवमङ्गीकृतं यत् कस्यापि समाजस्य सांस्कृतिक स्थितेज्ञानं शिक्षकाणाम् स्तरणैव भवितुमर्हति ।

             “ कमपि राष्ट्रं स्वशिक्षकाणां स्तरादुपरि गन्तुं न शक्नोति “।
      अतः राष्ट्रस्य विकासाय  समुन्नतये च शिक्षकाणां भूमिका महत्वं वर्तते ।

• राष्ट्रीयैकता :-

    राष्ट्रीयैकता एका मनोवैज्ञानिक एवं शैक्षिक प्रक्रिया अस्ति । येन जनानां हृदये एकता , संघटनं तथा सन्निकटतायाः भावना सामान्य मानसिक भावना , राष्ट्रं प्रति भक्तिभावनायाः विकासः क्रियते । राष्टियैकतायाः विषये डा. राधाकृष्णन् महोदयः उक्तवान् यत् – वयं राष्ट्रीयरुपे जीवितुमिच्छामश्चेत् अस्माभिः राष्ट्रीयैकतां अनिवार्यरूपेण स्विकरणीयम् ।
                    राष्ट्रं इति केवलं भूखंडमात्रमेव न अपि तत्रत्य संस्कृतिः , सभ्यताः , जनाः , जनेषु प्रेमभावना इत्यापि अवगम्यते । यत्र अनेक भाषाभाषिणः अपि सद्भावेन तिष्ठन्ति तत् राष्ट्रीयैकता भवति । वेदेषु वहुन राष्ट्रीयैकतायाः उपदेशः दरीदृश्यन्ते यथा – अर्थववेदे भूमिसुक्ते – अहं राष्ट्री संगमनी वस्तुनां ओहम् राष्टाय स्वाहा , इदं राष्टाय इदमे मम, आदि ।      
             आंङ्ग्लभाषायाम् राष्टीयैकता Nationalistic इति उच्यते । इमम् शब्दमधिकृत्य प्रो.जी.मेर्न Nationalism & Government इति पुस्तकं लिखितवान् । यत्र स वदति – राष्ट्रीयैकता नाम सामुहिकं जीवनं , सामुहिक विकासः , सामुहिक आत्मसम्मानेन सह जीवनजापनञ्च ।

• परिभाषा :-

         राष्ट्रीयैकता एका मनोवैज्ञानिक एवं शैक्षिक प्रक्रिया अस्ति , येन जनानां हृदये एकता भवति ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:शुभस्मिता_रथ&oldid=461197" इत्यस्माद् प्रतिप्राप्तम्