【 कविकुलगुरुकालिदासः】

संस्कृत साहित्याकाशे ज्योतिष्क रूपेण वहवह कवयः सन्ति , तेषु कविषु कविकुलगुरू कालिदासः अन्यतमः । केचन साहित्याकाराः बदन्ति -

            पुष्पेषु मल्लि , नगरेषु दिल्लि ।

          नदीषु गंगा , नारीषु रम्भा ।।

        नृपेषु रामः ,  पुरूषेषु विष्णुः।

        काव्येषु माघः , कवि कालिदासः।।

   श्लोकात् ज्ञायते यत् कालिदासः विख्यातः एवं च सुप्रसिद्धः ।

     कवि शिरोमणि कविकुलगुरू कालिदासः कविश्रेष्ठः इति उच्यते । कालिदासः प्राचीनकालिकः राष्ट्रकविः कथ्यते। कालिदासस्य जन्मस्थानं कश्मीराः वा वंगभूमिर्वा राजस्थानं वा उज्जयिनी वेति निश्चितेन वक्तुं न शक्यते । न चास्य महानुभावस्य जीवनकाल विषये कश्चिद् निर्णयः । महाराजाविक्रमादित्यस्य राजसभायां अयं प्रतिष्ठितो विद्वानः इति सर्वैः स्वीक्रियते ।

        कालिदासः काव्ये अलौकिकम् , अपूर्वम् , असाधारणम् च सौन्दर्यं दरीदृश्यते । तस्य काव्ये आकाश्मीरात्-आकन्याकुमारीम् एवं च आद्वारिकायाः-आप्रग्जोतिषम् अपूर्व स्वभाविकं च सौन्दर्यवर्णनम् उपलभ्यते। तस्यकाव्यरस निपिय निपिय जनानां हृदयं नृत्येन आन्दोलितम् इव भवति । तत्तुल्य कोSपि कविः नासित् । अतः केनचित् उक्तम् --

    पुराकविनाम् गणनाप्रसंगे

        कनिष्ठिकाधिष्ठित कालिदासा ।।

  अद्यापि तत्तुल्यकवेरभावात्

        अनामिका सिर्यवति बभूव ।।

   कालिदासेन अभिज्ञानशाकुन्तलम् , विक्रमोर्वशीयम् , मालविकाग्निमित्रमं च इति त्रीणि रूपकाणि । रघुवंशम् , कुमारसम्भम् च इति द्वे महाकाव्ये , ऋतुसंहारम् , मेघदूतं च इति द्वे खण्ड काव्ये विरचितानि। तस्य कौशलमं यथा पद्यरचनायां तथैव नाटकेषु वर्तते।

  कालिदासेन प्रकृतिः मानवसहचरीरूपेण वर्णिता । यदा तस्य विरचित नाटकस्य पात्राणि दृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखीतानि भवन्ति तदा प्रकृतिरपि रोदितीवति । यथा अभिज्ञानशाकुन्तले चतुर्थ अंके शकुन्तला यदा कण्वाश्रमं त्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगाः घासचर्वणं विस्मरन्ति , मयूरास्तस्याः शोके नृत्यं त्यजन्ति , किमन्यत् वृक्षालताश्चापि रूदन्ति , पत्ररूपाणि अश्रूणि च पातयन्ति ।

    उद्धलितदर्भकवला मृगाः परिव्यक्तनर्तना मयूराः।

अपसृतपाण्डुपत्रा मुंचन्त्यश्रूणिव लताः ।।

उक्त विषयम् आधारिकृत्य पण्डिताः कथयन्ति :-

   काव्येषु नाटकं रम्यं तत्ररम्या शकुन्तला ।

  तत्रापिच चतुर्थ अंक तत्र श्लोक चतुष्टयम् ।।

कालिदासस्य काव्ये मानवमनसोपि गम्भिरचित्रणं वयं पश्यामः ।

कालिदासस्य काव्यानि व्यंजनामयानि सन्ति । वैदेशिकाः कालिदासं द्वितीय " सेक्सपीयर " एव मन्यते । गेटे नाम्ना जर्मनकविः स्वलोकिभूलोकयोः सौन्दर्यम् एकी भूतमिव अभिज्ञानशाकुन्तले अवलैकयति ।

  कालिदासस्य काव्यानां प्रमुखं वैशिष्ट्यं सौन्दर्यम् अस्ति । ' उपमा कालिदासस्य ' इति आभाणकं प्रसिद्वमेव । तस्य उपमायाः एकम् उदाहरणं दृश्यतां-

   संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय परिंवरिसा ।

    नरेन्द्रमार्गाह इव प्रपेदे वीवर्णभावं स स भूमिपिलः ।।

अत्र रघुवंशे इन्दुमत्याः स्वयंवरावसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ति दीपशिखेव वर्णता । वरमाला गृहित्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति , यथा दीपप्रकाशः शून्यतः प्रासादाः भवेयुः । अत्र उपमायाः एव कालिदासेन नृपाणां मनोभावः अपि स्फुटं प्रदर्शिता । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिः अधिगतम् ।

  वागर्यामिव सम्पृक्तौ वागर्थः प्रतिपतये ।

   जगतः पितरौ वंन्दे पार्वतीपरमेश्वरौ ।।

रघुवंशे वर्णितम् इयं श्लोकम् आधारिकृत्य अहम् अपि पार्वतीपरमेश्वरं वन्दनां कृत्वा 'कविकुलगुरू कालिदासः' इति विषयं समाप्तं करोमि ।