हरिप्रसन्नः अधिकारी
महामृत्युञ्जयमन्दिरम्
महामृत्युञ्जयमन्दिरम् एकं सुप्रसिद्धं हिन्दु मन्दिरम् अस्ति । इदं मन्दिरं भारतवर्षस्य असमप्रान्तस्य नगाँव इति जनपदे स्थितम् । इदं मन्दिरं वास्तुकला दृष्ट्या अतीव महत्त्वपूर्णम् अस्ति कारणम् इदं मन्दिरं शिवलिङ्ग-रूपेण निर्मितम् अस्ति ।
इदं शिवलिङ्गं विश्वस्य सुप्रसिद्धं तथा सर्वोच्च बृहत्तमं च अस्ति । अस्य उच्चता षडविंशत्याधिकैकशतं फीट् (126 फीट् ) अस्ति ।
इदं मन्दिरम् अद्वितीयं तथा अतीव आकर्षणीयं स्थानं वर्तते । विभिन्न-राज्येभ्यः भागेभ्यः पर्यटकाः भक्ताः च आकर्षयन्ति ।
अस्य मन्दिरस्य निर्माणकार्यं २००३ तमे वर्षे आचार्य: भृगु-गिरि-महाराज-द्वारा कृता । स्थानेऽस्मिन् आचार्य: ध्यानं करोति स्म । तथा गुरुः शुक्राचार्यः अस्मिन् स्थाने एव महामृत्युञ्जयमन्त्रस्य जापं कृतवान् । इति कारणात् मन्दिरस्य स्थापनं एतस्मिन् स्थाने एव कृतं वर्तते ।
मन्दिरमिदम् असमप्रदेशस्य हृदयमयी गुवाहाटीनगरात् न्यूनातिन्यूनं १२० कि.मी. दूरे महापुरुष-श्रीमन्त-दामोदरपथः, कालाजुगी, पुराणीगुदम्, बरदुवा-क्षेत्र, नगाँव जनपदे स्थितम् ।