बौद्धधर्मः

सम्पादयतु

भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। निखिलेऽपि भूमण्डले प्रसिद्धं महात्मनो बुद्धस्य पावनं नामधेयम् । अयं महापुरुषः मानवान् अहिंसायाः पाठम् अपाठयत् । अयमेव महापुरुषः जनानां दुःखनिवारणाय स्वकीयं राज्यमत्यजत । सोऽयं महापुरुषः कपिलवस्तुनरेशस्य शाक्यवंशीयस्य शुद्धोदनस्य सुपुत्रः आसीत् । अस्य प्रथमं नामधेयं सिद्धार्थ इति आसीत् । सः महता श्रमेण सतताभ्यासेन तपस्यया च एकस्मिन् दिने बोधम् अलभत। ततः प्रभृति स बुद्ध इति प्रसिद्दोऽभवत् । महात्मा बुद्धः एतेषां चतुर्णाम् आर्यसत्यानां प्रचारम् अकरोत् । । सः जनानां दुःखनिवारणाय तेषां कल्याणाय च उपादिशत् ।


इमे तस्य प्रमुखाः उपदेशाः - " लौकिकसुखेभ्यः विरक्तो भवेत् । मनसा वाचा कर्मण अहिंसायाः पालनं कुर्यात् । सदा सत्यं वदेत् । क्स्यापि किमपि वस्तु कदापि न चोरयेत् । सर्वान् समदृष्ट्या पश्येत् । सत्कर्म कुर्यात् । सर्वेषु दयामाचरेत् । शरणागतान् रक्षेत् । अधिकं संग्रहं न कुर्यात् । ब्रह्मचर्यं पालयेत् " इति ।

https://upload.wikimedia.org/wikipedia/commons/thumb/3/30/Large_Gautama_Buddha_statue_in_Buddha_Park_of_Ravangla%2C_Sikkim.jpg/398px-Large_Gautama_Buddha_statue_in_Buddha_Park_of_Ravangla%2C_Sikkim.jpg


भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं केचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः। 'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न।


बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः 'त्रिपिटके निरूपिताः सन्ति।अस्य दर्शनस्य आद्यप्रवर्तकः श्रीबुद्धः अस्ति । शुद्धोदनस्य मायादेव्याः च सुतः गौतमगोत्रजः क्षत्रियः सिद्धार्थः एव पश्चात् बोधोदयात् बुद्धः इति प्रथितः अभवत् । बौद्धदर्शनस्य परमसिद्धान्तः ‘दु:ख्स्य मूलम् आशा’ इत्यस्ति। माध्यमिक-योगाचार -सौत्रान्तिक-वैभाषिकभेदात् चतुर्धा विभज्यते ।वेदानां श्रुतपरम्परेव बौद्धधर्मस्यापि ज्ञानोपदेशाय श्रुतपरम्परा प्रचलिता आसीत् । अन्ततः अस्य ज्ञानस्य संरक्षणाय राजगृहे महाकाश्यपस्य अध्यक्षतायामेका बौद्धसंगीतिरायोजिता । तत्र बुद्धशिष्येण आनन्देन सुत्तपिटक-विनयपिटकयोः संग्रहो विहितः । सुत्तपिटकस्यैव कतिपयांशानां विस्तरेण कालान्तरे अभिधम्मपिटकस्य रचना संजाता ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1910280anusha&oldid=455288" इत्यस्माद् प्रतिप्राप्तम्