अर्थशास्त्रम्

अथर्वणवेदस्य "उपवेदः" इति प्रसिद्धम् । अनादिकालात् राजधर्मोपदेशकम् इदं शास्त्रम् । राज्यस्य भूप्रदेशः प्रकृतयश्च अर्थाः इत्युच्यन्ते । एतस्य अर्थस्य योगं (लाभम्) क्षेमं (संरक्षणम्) च उपदेशयत् शास्त्रम् अर्थशास्त्रम् ।मनुष्याणां वृत्तिः अर्थः । मनुष्यवती भूमिरित्यर्थः तस्याः लाभोपायं शास्त्रम् अर्थशास्त्रम् - कौटलीयम् अर्थशास्त्रम् ।दण्डनीतिः इति अर्थशास्त्रस्य पर्यायपदम् । अर्थशास्त्रम् राजधर्मं निरूपयति ।

प्राचीनाः अर्थशास्त्रकाराः महाभारतस्य शान्तिपर्वणि राजधर्मप्रकरणे प्राचीनानाम् अर्थशास्त्रकाराणाम् उल्लेखः दृश्यते । तदनुसारेण मनुः, बृहस्पतिः, शुक्रः, विशालाक्षः, पराशरः, व्यासः, बाहुदन्तीपुत्रः, वातव्याधिः, कौणपदन्तः, भारद्वाजः, पिशुनः इति दश प्राचीनाः अर्थशास्त्रकाराः इति कौटल्यः स्वकीयेऽर्थशास्त्रे उक्तवान् । अर्थशास्त्रम्

अर्थशास्त्रग्रन्थानाम् उल्लेखाः

  • बाहुदन्तीपुत्रस्य वातव्याधेश्च अर्थशास्त्रग्रन्थौ ग्रन्थरूपेण न प्रकटितावास्ताम् ।
  • कौणपदन्तः (भीष्मः), भारद्वाजः (द्रोणाचार्यः) - एतयोः अर्थशास्त्रस्य तत्त्वनिरूपणं महाभारते शान्तिपर्वणि प्रोक्तम् ।
  • पिशुनः (नारदः) एतस्य अर्थशास्त्रतत्वानि नारदस्मृतौ द्रष्टुं शक्यन्ते ।

बार्हस्पत्यम् अर्थशास्त्रम् कीदृशाः मन्त्रिणः भवितुं योग्याः? इत्यस्मिन् विषये बृहस्पतेः मतम् एवमस्ति । स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् ।तैः सार्धं चिन्तयेत् कार्यं विप्रेणाथ ततः स्वयम् ॥राजा प्राज्ञान्, मौलान्, स्थिरबुद्धीन्, त्रिकरणेषु शुचीन्, दक्षान् च मन्त्रिस्थाने नियोजयेत् ।तैः साकम् करणीयं कार्यमधिकृत्य परिचिन्तनं कुर्यात् ।ततः तदेव कार्यं ब्रह्मणेन (पुरोहितेन) सह चिन्तयेत् ।तदनन्तरं स्वयमेकाकी सन् चिन्तयेत् । इति बृहस्पतेः अभिप्रायः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1930581aprameya&oldid=471352" इत्यस्माद् प्रतिप्राप्तम्