2010369varnika
संस्कृतवाङ्मयम्
संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥ संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥ भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥ संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥