ए.आर्. कृष्णशास्त्री

सम्पादयतु

संस्कृत - कन्नडसाहित्यक्षेत्रयोः साहित्याकाशे  प्रो।। ए.आर् कृष्णशास्त्री महाभागः विंशतिशतमाने धृवतारा इव विराजते। संस्कृत - कन्नडभाषयोः तस्य योगदानं तु अनुपमं विद्यते। सः कन्नड भाषायां वचनभारतम् , कथामृतम् इत्यादि कृतिभिः सुपरिचितः। अस्य जीवनचरितं विदित्वा, वयमपि तत्पथमनुगन्तुं प्रेरणां स्वीकुर्मः।

महोदयस्य बाल्यम्

सम्पादयतु

पारम्परिक संस्कृताध्ययनशीले सत्संप्रदायबद्धे कुले श्री अम्बले रामकृषणशास्त्री - श्रीमती शङ्करम्मा दम्पत्योः ज्येष्ठ पुत्रत्वेन नवत्युत्तर अष्टादशशततमे वर्षे आगस्ट् मासे , द्वादशे दिने जातः। (क्रि.श. १२.८.१८९०)

कृष्णशास्त्री महोदयस्य संस्कृताभ्यासः बाल्यादेव तत्पितुः सकाशे एव आरभत। सः बाल्ये पित्रा सह पाठशालां गच्छति स्म। संस्कृतश्लोकाः , अमरकोषः , पाणिनेः व्याकरणसूत्राणि निरर्गलतया तस्य मुखात् निस्सरन्ति स्म। सः मैसूरुनगरे  रायल् स्कूल् , वेस्लियन् मिषन् हैस्कूल् ,महाराजकालेज् विद्यालयेषु च अध्ययनम् अकरोत् । महाराजमहाविद्यालये प्रो। एम् हिरियण्णः ,  प्रो। बि.एम्. श्री , कानकानहल्लि वरदाचार्यप्रभृतीनां प्रकाण्डपण्डितानां शिष्यत्वम् अलभत । शास्त्रिणां जीवने एषां विदूषां झानदाहः , कर्तव्यपरता , श्रद्धा ,चिन्तनपद्धतिः च आदर्शप्रायाः अभवन् ।

संस्कुतभाषाप्रेम

सम्पादयतु

संस्कृतभाषायां विध्यमानं तस्य प्रेम एवमभिव्यक्तं - "संस्कृत, तत्र प्रतिपादितानि शास्त्राणि च अस्माकं पूर्वजेभ्यः अस्मत्कृते दत्ता  संपदस्ति | अस्माभिः कदापि एतत् न नश्येत् | भाषासाहित्यविध्यार्थिभिः बहुभाषाप्रवेशः अत्यवश्यः |"

'सः स्वगुरून् अनुसृत्य आदर्शाध्यपकोभवत् | ' सः सर्वदा पाठस्य  सिद्धतां सम्यक् कृत्वैव कक्ष्यां प्रविशति स्म | तस्य बोधनाक्रमः विध्यार्थिनः आकर्षति स्म ' इति डी . वि . जी . महोदयः तं प्रशंसति |

शिष्यवात्सल्यं

सम्पादयतु

महोदयस्य शिष्यवात्सल्यं बहु अनुपमम् आसीत् |

डा || के . एम .कृष्णराव् , कृष्णशास्त्री महोदयस्य कश्चित् शिष्यः आसीत् | तस्य विध्याभ्याससमये, परीक्षार्थं धनं पूरयितुं असाध्यं आसीत् | अतः सः कालेज्  आगमनम् एव स्थगितवान् | तदा कृष्णशास्त्री महोदयः तस्मै धनं दत्त्वा परीक्षां स्वीकर्तुम् उपकारं कृतवान् | " यदा त्वं धनं संपादयति तदनन्तरम् प्रतिददातु " इति उक्त्वा, तस्य संकोचं दूरं अकरोत् |

राष्ट्रकविः कुवेम्पुमहोदयः अपि तस्य शिष्यः आसीत् | सः  यदा बेङ्गलुरु नगरात्  मैसूरुनगरं गच्छति स्म, तदा कुवेम्पुमहोदयेन सह निरपवादतया मिलति स्म | कुवेम्पुमहाशयस्य प्रतिभां प्रथमे वयस्येव प्रत्यभिज्ञाय तं ' वरकविः ' इति सम्भोधितवान् |

आनन्दवर्धन्स्य ' ध्वन्यलोकं ' कन्नडभाषया अनुदितुं महदॊत्सुक्यमासीत् एतेषु | कृतेरस्याः अनुवादकार्यं स्वषिष्येण डा || के . क्रिश्नमुर्तिमहाभागेन स्वीकृतमिति विदित्वा,  ससन्तोषं तमेव प्रोत्साहितवान्, प्रास्ताविकवचनानि अलिखत् |

संस्क्रुत्तकन्नडभाषाकृते योगदानं

सम्पादयतु

तस्य साहित्यसेवा अपि  अन्याद्रुशी | कर्नाटकसङ्घम् स्थापयित्वा तद्द्वारा सहृदयैः सह साहित्यसेवा अनुवर्तिता |

  • 'प्रबुद्धकर्नाटकः' इति पत्रिका आरब्धा |
  • कृष्णशास्त्री महोदयः आङ्ग्ल - कन्नडनिघण्टु रचनासमितेः सदस्यः अभवत् |
  • कन्नडसाहित्यपरिषदः पत्रिकायाः संपादकः अभवत् |
  • अस्य स्वतन्त्राः कृतयस्तु  ' श्रिरामकृष्णपरमहंसचरितम् ' , ' भासकविः ', ' संस्कृतनाटकम् ', ' सर्वज्ञकविः ', ' श्रिपथिकथाः ', ' बङ्किम्चन्द्रः ', ' भाषणानि लेखनानि ', ' कवनं ' च , अप्रकटिता कृतिः ' रामप्प् ' , इति | एषु पुस्तकेषु स्वतन्त्रचिन्तने विशेषतया दत्तमवधानमिति गमनहोर्यम् विषयः |
  • एषु  ' बङ्किम्चन्द्रः ' इति कृतिः केन्द्रसाहित्य - अकादमी पुरुस्कृता भूत्वा कन्नडभाषायाः गोरवमवर्धयत |    
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2040366sairajnatraj&oldid=484539" इत्यस्माद् प्रतिप्राप्तम्