सामसंहिता-

पतञ्जलिमतानुसारं सामवेदे १००० शाखाः सन्ति । सहस्त्रवर्मा सामवेदः, अत्र वर्माशब्दस्यार्थः शाखा इति । साम नाम गानम् । अतः गानमयवेदः सामवेदः । सांप्रतं सामवेदस्य केवलं तिस्रः शाखाः यथा कौथुम-जैमिनीय-राणायनीयशाखाः दृश्यन्ते । राणायनीय इति शाखायाः अवान्तरं नाम शौत्यमुग्निः । जैमिनीयशाखायाः अवान्तरं नाम भवति तवल्कारः । एतासु तिसृषु शाखासु कौथुमीयशाखायाः लोकप्रियता भवति । तत्र कौथुमीयशाखानुसारं १८७५ मन्त्राः, जैमिनीयशाखानुसारं १६८७ मन्त्राः सन्ति ।

तत्र सामवेदस्य भागद्वयमस्ति । यथा- आर्चिकसंहिता गानसहितेति । पुनः आर्थिकः अपि द्विधा- पूर्वार्चिकः आवार्षिकभेदेन । तत्र पूर्वार्थिकः त्रिविधः-छन्दः, छन्दसी, छन्दसिका । तथैव उत्तरार्थिकः अपि सप्तविधः दशरात्र, संवत्सय इस अहीन, सत्र, प्रायश्चित, क्षुद्र इतिः । पूर्वार्चिक ६ अध्यायाः (प्रपाठकाः), उत्तरार्चिक ९ प्रपाठका आहत्य १५ प्रपाठकाः इन्ति। प्रत्येकस्मिन् प्रपाठके द्वौ खाण्डौ स्तः। प्रत्येकस्मिन् खण्डे एकादशमन्त्राः सन्ति। पूर्वाचिक काण्डचतुष्टयं वर्तते । यथा-

प्रथमाप्रपाठके - आग्नेयकाण्डम्, १२खण्डाः, ११४मन्त्राः सन्ति ।

मुन्डेय-तृतीय-चतुर्थादिप्रपाठकेषु- ऐन्द्रकाण्डम्, १ २खण्डाः, ३५ २मन्त्राः सन्ति ।

पक्रमप्रपाठके- पवमानकाण्डम्, ११ खण्डाः, ११९मन्त्राः सन्ति ।

षष्ठाप्रपाठके - आरण्यकाण्डम्, ५ खण्डाः, ५५ मन्त्राः सन्ति ।

१-५ प्रपाठकानां गानं भवति - ग्रामगानम् ६ प्रपाठकस्य गानं भवति- आरण्यगानम् इति । सामवेदस्य पूर्वार्थिक ६५० मन्त्राः उत्तरार्थिके १२२५ मन्त्राः आहत्य १८७५ मन्त्राः। उत्तरार्चिक २१ अध्यायाः, ४०० सूक्तानि सन्ति । सामवेदे ऋग्वेदस्य १५०४ (अन्यत्र १७७१) मन्त्राः सन्ति । सामगानम् आदौ द्विविधि यथा ग्रामगेयः आरण्यवेयः, ग्रामगेयस्यापरं नाम वेयगेयः । ग्रामगेयात् ऊहगानस्य उद्भवः, आरण्यगेयात् ऊहागानस्य उत्पत्तिः भवति । पुन एस्संहिता चुतुर्धा 'भवति - ग्राम (वेय), आरण्य, ऊहगानम्, ऊहागानम् इतिः। अत्र ग्रामगेयगानं प्रकृतिमानं आरण्यगान रहस्याननिति नाम्ना ज्ञायते । तथैव ऊहगानं विचारविन्यासगान यद् सोमयागे प्रयुज्यते। ऊहागानमषि रहस्यमानम् इति कथ्यते । कोयुभीयगानानि सामवेदे २७.२२, जैमिनीयशाखायां ३६८१ सन्तीति । तत्र कौथुमीयश्वखायां वेयगानानि ११९७८ आज्यगानानि २९४, ऊहगानानि १०२६, उागानानि २०५ गानानि सन्ति। सामगानस्य पञ्च विभागाः सन्ति । यथा प्रस्ताक उत्ीथ, प्रतिहार, उपद्रव, निधन इत्यादीनि । प्रस्तावस्य प्रारम्भे हुँ इत्युच्यते अस्य प्रस्तोता नाम्ना ऋत्विक् भवति । उद्गीथे तु ओम् शब्दयत् प्रारभते अस्य उद्गाता गानं करोति । प्रतिहारं नाम संकलनकर्ता अर्थात् प्रतिहर्ता नाम ऋत्विक् यत्र गानं करोति । उपद्रवम् प्रयुक्तौ उद्गाता यद् गायाति । निधनमित्युक्तौ प्रस्तोता उगाता प्रत्तिहर्ता मिलित्वा यद् गायान्ति । सामविकाराः षद् भवन्ति । यथा- विकास, विश्लेषण, विकर्षण, विराम, स्तोभ, अभ्यास इति । विकारः नाम शब्दस्य परिवर्तनम् यथा अग्ने इति स्थाने अम्नायि । विश्लेषण नान पदानां पृथके करणम् यथा तये इति स्थाने तोथितीय इति । विकर्षणं नाम दीर्घकालमुच्चारणम् यथा ये३ इति । अभ्यासः नाम पुनः पुनः उच्चारणम्‌ इति । यथा तोयायि पदस्य वारद्वयमुच्चारणम् । विरामः इत्युक्तौ विश्रामः। यथा गुणानि इथ्यदातवे इत्यस्मिन् पदे हकारोपरि विश्रामः । स्तोमः इत्युक्तौ ओ, होवा, हाउआ इत्येवं रूपेण उच्चारणम् इति ।

  शान्दोग्योपनिषद्‌नुसारं सप्तविधं साम भवत्ति। यथा हिङ्कारः, प्रस्तावः, आदिः, उद्गीथः, पतिहारः, उपद्रवः, निधनक्षेति । सामवेदे सारेगामाभेदेन सप्तस्वराः सन्ति यथा षडज, ऋषभ, गान्धर, मध्यम, पाम, चैतव निषादः। परन्तु करदीयशिक्षानुसारेण सामवेदस्य ७स्वराः, ३आमाः, २१ मूर्छनाः ४९ तानानि सन्तिः

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ashish_Kumar_Tripathi_CSU&oldid=490287" इत्यस्माद् प्रतिप्राप्तम्