सदस्यः:Bhuvana T V/स्थूलमार्थिकसमीक्षणम्

जि डि पि
                                                        स्थूलमार्थिकसमीक्षणम्[]


   भारत[][]देशस्य १९९८-९९ वर्षस्य आर्थिकसमीक्षनणम् अत्यन्तप्रक्षोभकारकस्व अहितावहस्य च अन्ताराष्ट्रियार्थिकपरिसरस्य प्रषठभूमौ करणीयम् वर्तते । अस्मिन् वर्षे अनेके पूर्वेशियादेशाः राष्ट्रियायस्य तीव्रतमं विघटनं अन्वभूवन् । इण्डोनेशियादेशे[][] १५% विघटनं समभूत् । अस्मिन् वर्षे जपान[]देशे आर्थिकावनति-प्रवृत्तिः सम्प्रकृता वर्तते ।दक्षिणकोरिया[]-थाइलान्ड् [] ५-६% विघटनं समभूत् ।ब्राझिल्देशे १९९९ संवत्सरस्य जनवरीमासे तीव्रतरं मुद्राविनिमयमूल्यस्य विघटनं विहितं यच्च धनराशिनिर्गमनेन प्रचोदिषत् आसीत् । रशियादेशे तीव्राधनस्ंबद्धा विषमा स्थितिः प्रचलति । भारतदेशः एतादृशानाम् अहितावहानां सङ्घटनानां प्रभावात् निर्मुक्तः नैव आसीत् ।  नूतन १९९३-९४ स्तरमूला,केन्द्रीयसंङ्ख्यासंस्थया प्रकाशिता अन्तर्देशियोत्पादनप्रमाणसंङ्ख्यानां श्रेणिः प्रदर्शयति यत् देशीयोत्पादनवृद्धिगतिः,१९९६-९७ वर्षे स्म्पादितेन ८% प्रमाणेन अत्यन्तं विघटिता सती१९९७-९८ वर्षे ५% प्रमाणं प्राप्तवती । १९९८-९९ वर्षस्य मूल्यसामान्यवृद्धिगतिस्तु,१९९७-९८ वर्षे अधिगतात् ४८% प्रमाणादपि ज्यायसी भविष्यति । 
भारत देशस्य रियल् जि डि पि
   भारतदेशस्य निर्यातस्य(डाअलरमूल्यवत् प्रमाणस्य) वृद्धिगतौ दृष्टा विघटनप्रवृत्तिः तृतियवर्षेऽपि अविच्छेदं प्रचलिता समभूत् । अस्मिन् वर्षे च आद्येषु नवसु मासेषु वृद्धिगतिः खयराशिः सञ्जात । आयातश्च आयातनीर्याताङ्कपत्रावसरे इतोऽप्यधिकतया तीव्रतररीत्या विघटमानः दृश्यते । वर्तमानकालिकं आयातनिर्यातवैकल्यं १९९७-९८ वर्षे राष्ट्रीयस्य १% भागांशपरिमितं सत्,१९९८-९९ वर्षे २% प्रमाणकं भविष्यतीत अनुमीयते । १९९८-९९ वर्षे विदेशीयधनराशिप्राप्तिप्रमाणं १९९७-९८ वर्षे प्राप्तप्रमाणापेक्सया न्यूनतरं भवदिति अनुमीयते । अस्य कारणं तु व्यक्तीयधनराशेः समागमप्रवाहस्य किञ्चित् स्थगितत्वम्  इति   अवगम्यते ।
धनपरिमाणं मूल्यञ्च :
    
      १९९७-९८ वर्षे मूल्याभिवृद्धिगतिः ५% सञ्जाता । मूल्याभिवृद्धिगतिः १९९६-९७ वर्षे ६% आसीत् । तदपेक्षया १९९७-९८ वर्षे दृष्टः ह्रासः प्रायः कृषिवस्तूनाम् अधिकप्रमाणेन पण्यस्थानेषु प्राप्तिः अधिगता तथा च आयातवस्तूनाम् अन्ताराष्ट्रियमूल्ये अपि ह्रासः अनुभूतः इति कारणद्वयेन प्रचोदितः इति मान्यते । १९९९ वर्षस्य जनवरी ३० दिनाङ्के तु मूल्यवृद्धिगतिः ह्रासं गता ४-५% परिमितिम् अधिगता ।अनुत्पादितवस्तूनां मूल्यवृद्धिगतिस्तु केवलं ६% प्रमाणेन ज्यायस्तरा सञ्जात । अनुत्पादितवस्तूनां मूल्यपरिमाणे १०% वृद्धि सञ्जाता इत्यपि गणनीयः विषयः ।[]

उद्योगव्यवसायनीतिः विकासश्च :

व्यवसायः
      कस्यापि देशस्य आर्थिकविकासस्य विमर्शनप्रसङ्गे कृषिक्षेत्रम्[१०],उद्योगक्षेत्रम्,उद्योगसेवाक्षेत्रम्,इति स्थूलदृष्ट्या त्रयाणाम् आर्थिकक्षेत्राणाम् विकासस्य प्रत्येकं विमर्शनं करणीयम् इति तञ्ञैः प्रशस्यते [११]। उद्योगक्षेत्रस्य तीव्रगत्या विकासः देशस्य दीर्घकालिकाभिवृद्धिये आवश्यकः इति परिगण्यते । उद्योगक्षेत्रस्य आर्थिकव्यवहारसम्बधः कृषिक्षेत्रेण साकं,उत्पादनसेवाक्षेत्रेण च साकं अत्यन्तं गाढः वर्तते । उद्योगक्षेत्रे उत्पादनप्रक्रियाणां सञ्चालनार्थम् अप्राप्तसंस्करणवस्तूनां कार्पासधान्यतैलबीजइक्षुदण्डादिवस्तूनाम् आवश्यकता भवति । एतादृशानाम् अप्राप्तसंस्करणानाम् वस्तूनाम् उपलब्धिः  कृषिक्षेत्रात् तत्स्म्बद्धक्षेत्राद्वा भवति । अन्यच्च उद्योगक्षेत्रे निर्मितानां प्राप्तसंस्करणानां वस्तूनां कृते अर्थनप्रमाणं च कृषिक्षेत्रे उत्पादितम् आदायं प्राप्तवद्भ्यः जन्येभ्यः वृद्धि सञ्गच्छते । एवमेव उद्योगक्षेत्रस्य स्म्बन्धः उत्पादनसेवाक्षेत्रेण साकमपि गाढः वर्तते । [१२]

कृषिक्षेत्रात् निष्कासितानाम् अथवा कृषिक्षेत्रे वेतनोद्योगावसराणाम् अवकुण्ठनेन हतोत्साहानाम् अनेकेषां कर्मकराणां,अन्येषां जनानां च कृते,विकसनोन्मुखे उद्योगक्षेत्रे वेतनोद्यमावकाशाः अधिकतया लभ्यन्ते इति वादः तञ्ञेः पुरतः क्रियते । आर्थिकाभिवृद्धिप्रसङ्गे कृष्युत्पादनस्य राष्ट्राये भागांशः क्रमशः विघटमानः प्रचलति इति तज्ञ्यानां मतमत्र गणनामर्हति । यथा यथा कृषिक्षेत्रस्य सापेक्षाशः विघटनपथे प्रचलति तथा तथैव उद्योगक्षेत्रस्य राष्ट्रायसापेक्षांशः तथा च उत्पादनसेवाक्सेत्रस्य राष्ट्रायसापेक्षाशः वृद्धिपथे प्रचलति इति आर्थिकविकासविमर्शकानां प्रमेयः जागर्ति ।[१]

उपरिनिर्दिष्टैः कारणैः उद्योगक्षेत्रस्य तीव्रगत्या प्रवृद्धिः अत्यावश्यकीतिष्ठति । उद्यमक्षेत्रस्य उत्पादनप्रमाणस्य वृद्धिगतौ क्षीणत्वे प्राप्ते सति,देशस्य आर्थिकप्रिसरे प्रक्षोभ इव सञ्जायते । उद्यमक्षेत्रस्य प्रचोदनार्थं सर्वकारः वारं वारं आर्थिकनीत्युपक्रमाणां संशोधनं परिवर्तनं विस्तारं च विदधन् एव आस्ते ।

व्यवसाय उध्योगः
      उद्यमक्षेत्रस्य सर्वसामान्यवृद्धिगतिः १९९०-९१ वर्षे ८% आसीत् । १९९१-९२ वर्षे देशे आर्थिकसङ्कटपरिस्थितिः आपतिता आसीत् । देशस्य बाह्यऋणप्रतिसन्दानसामर्थ्यं अत्यन्तं क्षीणं सञ्जातमासीत् । बाह्यदेशस्थाः वित्तप्रभवः अनिरीक्षितं प्रवृत्तायाः देशस्य आर्थिकदुःस्थितेः अभिग्न्यानां कुर्वन्तः मूलधनस्य देशात् बहिः निस्सारणं प्रारब्धवन्तः । एतादृशैः बहुभिः कारणैः उद्यमक्षेत्रस्य वृद्धिगतिः अतीव अवकुण्ठिता सञ्जाता । १९९१-९२ वर्षे वृद्धिगतौ तीव्रम् अधःप्तन्ं अनुभूतम् । सामान्यवृद्धिगतिः १९९१-९२ वर्षे केवलं १% सञ्जाता आसीत् । १९९१-९२ वर्षे नूतन सर्वकारणे अनेकानि आर्थिकनीतिपरिवर्तनानि उपनिवेशितानि । आर्थिकव्यवस्थायं संशोधनं च उपस्थापितम् । तदैव आय्-एम्-एफ् तः प्रभूतं विषमस्थितिनिवारणानुकूलं धनं प्राप्तं । १९९२-९३ वर्षे उद्यमोत्पादनस्य वृद्धिगतिः २% सञ्जात । १९९३-९४ वर्षे पुनरपि उपचयं गता सती ६% स्तरं प्राप्य १९९५-९६ वर्षे १३% स्तरपर्यन्तम् अपि उपचयं गता । १९९६-९७ वर्षादारभ्य वृद्धिगतिप्रसरे अवनतिः प्रारब्धा वर्तते ।
        खनिजशोधनक्षेत्रस्य वृद्धिगतिः १९९०-९१ वर्षे ४-५% आसीत् । सैव १९९१-९२ वर्षे <१% सञ्जाता १९९२-९३ वर्षे केवलं ०-४% आसीत् । १९९३-९४ वर्षादारभ्य यत्किञ्चित् प्रत्युत्थानोन्मुखी सञ्जाता वर्तते ।[१३]
        उद्यमक्षेत्रे स्थूलतः खनिजशोधनक्षेत्रम्,संस्करणक्षेत्रम्,विद्युत्क्षेत्रम् इति त्रीणिः उपक्षेत्राणि प्रकल्प्यन्ते । एतेषाम् उपक्षेत्राणां वृद्धिगतिप्रसरस्य विश्लेषणम् उद्यमक्षेत्रस्य विशेषावगतेः लाभाय भवति । एषु उपक्षेत्रेषु मध्ये उद्यमक्षेक्तोत्पादनसूचकाङ्के खनिजशोधनक्षेत्रस्य महत्ताभाराङ्कः केवलं ११% वर्तते । एवमेव विद्युत्क्षेत्रस्य महत्ताभारः केवलं १०% वर्तते । परम् उत्पादनसंस्करणक्षेत्रस्य महत्ताभारः ७९% वर्तते । अतः उद्यमक्षेत्रस्य विकासस्य प्रमाणं उत्पादनसंस्करणक्षेत्रस्य विकासस्य गतिप्रसरम् अवलम्बते ।[१४]

[२]

  1. https://en.wikipedia.org/wiki/Economic_survey_of_India
  2. https://en.wikipedia.org/wiki/Economy_of_India
  3. https://en.wikipedia.org/wiki/India
  4. https://en.wikipedia.org/wiki/Economy_of_Indonesia
  5. https://en.wikipedia.org/wiki/Indonesia
  6. https://en.wikipedia.org/wiki/Economic_history_of_Japan
  7. https://eh.net/encyclopedia/the-economic-history-of-korea/
  8. https://en.wikipedia.org/wiki/Thailand
  9. http://articles.economictimes.indiatimes.com/2011-07-24/news/29807511_1_market-economy-scooters-india-s-gdp
  10. http://www.farmerscoopsociety.com/fcs/default.aspx
  11. http://agricoop.nic.in/programmescheme.html
  12. http://indiatogether.org/imbalance-between-gdp-growth-and-employment-in-agriculture-manufacturing-services-economy
  13. http://www.iegindia.org/workpap/wp266.pdf
  14. http://indiatogether.org/imbalance-between-gdp-growth-and-employment-in-agriculture-manufacturing-services-economy