सदस्यः:Elitre (WMF)/प्रयोगपृष्ठम्
अन्वयः विवरणम् सरलसंस्कृतम् यदा अव्ययम् यदा ते युष्मद्-ज. सर्वे.ष.एक. तव श्रुतिविप्रतिपन्ना आ.स्त्री.प्र.एक. वेदे संशयम् आपन्ना बुद्धिः इ.स्त्री.प्र.एक. धीः समाधौ इ.पुं.स.एक. चित्तवृत्ति निरोधे निश्चला आ.स्त्री.प्र.एक. स्थिरा अचला आ.स्त्री.प्र.एक. कम्परहिता स्थास्यति √ष्ठा गतिनिवृत्तौ-पर.कर्तरि, लृट्.प्रपु.एक. भविष्यति तदा अव्ययम् तस्मिन् काले योगम् अ.पुं.द्वि.एक. योगनिाम् अवाप्स्यसि अव+√आप्लृ व्याप्तौ-पर.कर्तरि, लृट्,प्रपु,एक. लप्स्यसे ।केशव अ.पुं.स्मबो.एक. कृष्ण ! समाधिस्थस्य अ.पुं.ष.एक. योगनिष्ठस्य स्थितप्रज्ञस्य अ.पुं.ष.एक. दृढबुद्धेः का किम्-म.सर्व.स्त्री.प्र.एक. किं भाषा आ.स्त्री.प्र.एक. लक्षणम् स्थितधीः ई.पुं.प्र.एक. दृढबुद्धिः किम् किम्-म.सर्व.नपुं.प्र.एक. किम्
यजुर्वेदस्य उभयोः काण्व-माध्यन्दिन-शाखयोः शतपथब्राह्मणमुपलब्धमस्ति । विषये सत्याप्येकतावर्णनक्रमे तथाऽध्यायस्य संख्यायाम् अत्रान्तरमस्ति । माध्यन्दिनशतपथब्राह्मणे काण्डानां संख्या १४ कथिता । अत्र शतमध्यायाः विद्यन्ते । प्रपाठकानां संख्या ६८, ब्राह्मणानां संख्या ४३८ तथा कण्डिकानां संख्या ६८०६ कथिता । माध्यन्दिनशतपथे प्रथमकाण्डादारभ्य नवमकाण्डपर्यन्तं पिण्डपितृयज्ञं विहाय विषयाणां क्रमः माध्यन्दिनसंहितानुसारेणैव अस्ति। पिण्डपितृयज्ञस्य वर्णनं संहितायां दर्शपौर्णमासानन्तरमेवास्ति । किञ्च ब्राह्मणे आधानस्य अनन्तरमेवाऽस्ति, इदमेवान्तरमस्ति । अवशिष्टकाण्डेष्वपि संहिता-क्रम एव अङ्गाकृतमस्ति । उभयोः शतपथयोः आरम्भे एव एकमन्तरं प्रतिभाति । माध्यन्दिनशतपथप्रथमकाण्डस्य विषयः (दर्शपूर्णमासेष्टिः) काण्वस्य द्वितीयकाण्डे उपलब्धो भवति । द्वितीयकाण्डस्य विषयः (अाधानम्-अग्निहोत्रादयः) काण्वस्य प्रथमकाण्डे एव समाविष्टोऽभवत् । अन्यत्र विषयास्तु तथैव किञ्च तेषां क्रमः भिन्नोऽस्ति ।
राष्ट्रियपुस्तकमण्डली (National Book Trust) काचित् पुस्तकप्रकाशनसंस्था भवति । देशस्य स्वातन्त्र्यानन्तरं देशनिर्माणकार्यं प्रचलति स्म । देशस्य प्रत्येकक्षेत्रे निर्माणकार्यं भवेत् इति नायकानाम् आशयः । अन्यविषयेषु शीघ्रं कार्यं भवति स्म । पुस्तकप्रकाशनं तु शैशवास्थायाम् एव आसीत् । समाजस्य सामान्यस्तरीयजनानां कृते पुस्तकानि केवलपुस्तकमेलायाम् एव दृग्गोचरीभूतानि । तत्र तानि दृष्ट्वा सन्तोषमनुभवन्ति स्म । तस्मिन् समये श्री पण्डितजवाहरलालनेहरुः यश्च भारतस्य तदानीन्तनप्रधानमन्त्री आसीत्, सः चिन्तितवान् यत् भारतस्य विविधसांस्कृतिकपारम्परिकज्ञानस्य अवगमनाय अधुनिकवैज्ञानिक-तान्त्रिकौद्योगिकविषयकक्षेत्रे यथा कार्यं प्रचलत् अस्ति तथैव अत्रापि कार्यं साधनीयम् इति । सः स्वयं लेखकः, पुस्तकप्रेमी च असीत् । स चिन्तितवान् अधिकारिणां मुष्टिं विना पुस्तकप्रकाशनं भवेत् इति तदनुगुणं, साहित्य-अकाडेमी, ललितकला अकाडेमी, राष्ट्रियपुस्तकमण्डली च स्थापिताः । अस्याः उद्घाटनं भारतस्य तदानीन्तनराष्ट्रपतिना कृतम्। तस्मिन् समये भाषमाणः नेहरुः पुस्तकानां प्रामुख्यम्, अस्याः मण्डल्याः कार्यशैलीविषये च अवदत् । तस्मिन् कार्यक्रमे डा.मौलाना अब्दुल् कलाम् आझाद् तथा श्रीजान्मथाय् उपस्थितौ आस्ताम् । एषा स्वायत्तमण्डली,शिक्षणमन्त्रालयस्य अधीने कार्यं करोति। अस्य मुख्यालयः नवदेहल्याम् अस्ति । सम्पूर्णधनं भारतसर्वकारेण दीयते । अस्याः विश्वस्तमण्डली तथा कार्यकारिणी समितिः च अस्ति ।