येषां पदानां लिङ्ग-विभक्ति-वचननिमित्तको रूपभेदो नास्ति तानि अव्ययानि इत्युच्यते।

संस्कृतभाषायाम् अव्ययानि नितरां प्राधान्यं भजन्ते। यथा प्रायः सर्वेपि शब्दाःतत्तद्विभक्त्यनुगुणं,तत्तत्पुरुषानुगुणं,तत्तद्वचनानुगुणं वा परिवर्तन्ते तथा एतानि अव्ययानि न परिवर्तन्ते। तन्नाम सर्वेषु वचनेषु,सर्वेषु पुरुषेषु,सर्वासु विभक्तिषु च एतेषाम् अव्ययानां रूपं समानं भवति। तदेव उच्यते-

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥ इति

यत् सर्वेषु लिङ्गेषु सर्वसु विभक्तिषु सर्वेषु वचनेषु न परिवर्तते तत् अव्ययम् ।

कानिचन अव्ययानि सम्पादयतु

संस्कृतभाषायाम् अव्ययानि बहूनि सन्ति। अत्र कतिपयाव्ययानि एव दर्शितानि।

अथ,अपि,अलम्, इति,इव, उच्चैः, एव, कदा, कुतः, क्व, खलु, चित्, चेत्, तूष्णीम्, नूनम्, पुरा, मा, मिथ्या, इतस्ततः, अत्र तत्र, यथा तथा, यदा तदा, यद्यपि, यदि तर्हि, यावत्, वरम् वा विना सहसा हि ह्यः

"https://sa.wikipedia.org/w/index.php?title=अव्ययम्&oldid=447404" इत्यस्माद् प्रतिप्राप्तम्