47) अतः सत्त्वगुणे स्थिताय मुमुक्षवे कियत् उपादेयम् इति वदति –केनचिद् फलविशेषेण सह सम्बन्धम् उक्त्वा शास्त्रेषु येषां कर्मणां विधानम् अस्ति, तादृशेषु नित्य-नैमित्तिक-काम्य-कर्मसु सत्त्वगुणे स्थितस्य मुमुक्षोः तव सर्वदा केवलं कर्मणि अधिकारः अस्ति । तस्य कर्मणः फलेषु तव अधिकारः कदापि नास्ति । यतो हि फलसिहतं कर्म बन्धनरूपं भवति । प्रत्युत फलरहितं केवलं मे आराधनारूपम् । मम आराधनारूपं कर्म मोक्षदायकं भवति । एतद् अतिरिक्तं त्वं कर्म, तस्य फलानां च कारणम् अपि मा भव । त्वया मुमुक्षुणा कर्मणः अनुष्ठाने क्रियमाणे सत्यपि सदा सत्त्वगुणे स्थित्वा स्वस्य अकर्तृत्वम् एव द्रष्टव्यम् । कर्मणः उत्पद्यमानानां क्षुधानिवृत्त्यादिफलानां हेतुत्वेनापि आत्मानं न मन्तव्यम् । तयोः उभयोः कर्तृभावस्य, फलस्य च सम्बन्धः गुणैः मन्तव्यः उत मया अर्थाद् ईश्वराद् इति अग्रे वक्ष्यते । अतः त्वम् एवं मत्त्वा कर्म कुरु । अकर्मणि अर्थाद्, त्वम् अवदत्, "अहं युद्धं न करिष्ये" इति । एवम् अपि कर्मत्यागे तव आसक्तिः न स्यात् । किन्तु उपर्युक्तपद्धत्या कर्मकरणे एव तव प्रीतिः स्याद् इत्यभिप्रायः । 48) एतद् पुनः स्पष्टयति –राज्यबन्ध्वादिषु आसक्तेः त्यागं कृत्वा त्वं योगे स्थित्वा युद्धादि कर्माणि कुरु । तेषु कर्मसु प्राप्यमाणानां विजयादीनां सिद्ध्यसिद्ध्ययोः समो भूत्वा कर्म कुरु । सिद्ध्यसिद्ध्यो यद् समत्वम् अस्ति, तदेव 'योगस्थ' इत्यस्य शब्दस्य अन्तर्गततया 'योगः' इत्यनेन शब्देन उक्तम् । सिद्ध्यसिद्ध्योः समत्वरूपं चित्तसमाधानम् एव योगः ।49) एतादृशं किमर्थं पौनःपुन्येन उच्यते ? इति वदति –  प्रधानफलस्य त्यागविषयकः, अवान्तरफलरूपिण्योः सिद्ध्यसिद्ध्योः समत्वविषयकश्च यः बुद्धियोगः अस्ति, तेन बुद्धियोगेन युक्तः कर्मणाम् अपेक्षया अपरकर्माणि अत्यन्तनिकृष्टानि सन्ति । तयोः परस्परम् उत्कर्षरूपिणी, अपकर्षरूपिणी च महती विषमता अस्ति । उपर्युक्तेन बुद्धियोगेन युक्तं कर्म समस्तेभ्यः सांसारिकदुःखेभ्यः पूर्णतया मोचित्वा परमपुरुषार्थरूपस्य मोक्षस्य प्राप्तिं कारयति । द्वितीयं बुद्धियोगाद् रहितं कर्म अपरिमितं दुःखरूपं संसारमेव प्रापयति । अत एव कर्म कुर्वन् त्वम् उपर्युक्तस्य बुद्धियोगस्य आश्रयं स्वीकर्तुम् इच्छतात् । वासस्थानम् इत्युक्ते आश्रयः (शरणम्) इति । तात्पर्यम् अस्ति यद्, त्वं तस्मिन् बुद्धियोगे स्थित्वा कर्माचरणं कुरु । फलहेतुकः मनुष्यः कृपणः अस्ति । अर्थाद् फलादीनाम् इच्छया कर्मकः मनुष्यः कृपणः अर्थाद् संसारी (विषयी) इति ।50) बुद्धियोगाद् युक्तः सन् कर्मणः कर्ता पुरुषः अनादिकालाद् सञ्चिते, बन्धनहेतुभूते अनन्तपापपुण्ये त्यजति । अतः त्वम् उक्ताय बुद्धियोगाय (बुद्धियोगप्राप्त्यै इत्यर्थः) प्रयतस्व । कर्मणि योगः एव कौशलम् अस्ति । कर्मणाम् आचरणे यः बुद्धियोग एव कौशलम् अस्ति, तस्मिन् बुद्धियोगे एव सामर्थ्यम् अस्ति इत्यर्थः । अभिप्रायः अस्ति यद्, एषः बुद्धियोगः पूर्णबलेन एव सिद्ध्यति इति ।51) बुद्धियोगयुक्तः पुरुषः कर्मजनितस्य फलस्य त्यागं कृत्वा कर्म करोति । अत एव सः जन्मरूपिणः बन्धनाद् मुक्तः सन् अनामयपदं (मोक्षम्) प्राप्नोति । अत्र हि इत्यस्य पदस्य अभिप्रायः अस्ति यद्, एषः सिद्धान्तः सर्वासु उपनिषत्सु प्रसिद्धः इति ।52) उक्ततया कर्मणः आचरणं कुर्वन् यदा तेन आचरणेन पापरहितत्वं सिद्ध्यति, तदा तव बुद्धिः मोहकलिलाद् विमुक्ता भविष्यति । अर्थाद् यदा अत्यन्ताल्पफलासक्त्याः हेतुभूतं मोहरूपकलिलं सहसा लङ्घयिष्यसि, तदा पुरा श्रुतानां त्यागरूपकर्मणां, भविष्यत्काले ज्ञायमानानां त्यागरूपकर्मणां च फलादिभ्यः त्वं स्वयमेव विरक्तः भविष्यसि ।53) योगे त्विमां शृणु इत्यादिभिः श्लोकैः यस्य वर्णनं कृतं, तथा यः आत्मस्वरूपस्य यथार्थज्ञाने स्थितः अस्ति, तस्य बुद्धिविशेषेण संशोधितस्य कर्मानुष्ठानस्य यल्लक्ष्यम् अस्ति, तस्य योग-नामकस्य फलस्य वर्णनं करोति –श्रवणम् इत्युक्ते श्रुतिः अर्थाद्, अस्माकं श्रवणकारणेन विशेषरूपेण प्रतिपन्ना इति । सा श्रुतिः अनात्मपदार्थानां विलक्षण-नित्य-निरतिशय-सूक्ष्मा आत्मतत्त्वविषयकी अस्ति । सा स्वयम् अचला अस्ति । अर्थाद् एकरूपा सा बुद्धिः यदा आसक्तिरहितकर्मभिः निर्मले कृते मनसि निश्चला भविष्यति, तदा त्वं योगम् अर्थाद् आत्मसाक्षात्कारं प्राप्स्यसि । तात्पर्यम् अस्ति यद्, शास्त्रजनिताम् आत्मज्ञानसहितां कर्मयोगस्थितप्रज्ञतानामिकां ज्ञाननिष्ठां लप्स्यसे । सा ज्ञाननिष्ठारूपिणी स्थितप्रज्ञता योगनामकम् आत्मसाक्षात्कारं साधयति ।54) अर्जुनः भगवतः एतादृशानि वचनानि श्रुत्वा आसक्तिरहितस्य कर्मानुष्ठानरूपस्य कर्मयोगस्य माध्यमेन सिद्ध्यमानायाः, आत्मसाक्षात्कारूपिण्यः योगसाधनरूपायाः च स्थितप्रज्ञतायाः स्वरूपं, स्थितप्रज्ञपुरुषस्य कर्मानुष्ठानस्य रीतिं च पृच्छति –समाधिस्थः इत्युक्ते स्थितप्रज्ञपुरुषस्य भाषा का ? स्थितप्रज्ञस्य ज्ञानाय किं लक्षणम् अस्ति ? अभिप्रायः अस्ति यद्, तस्य स्वरूपं कीदृशं भवति । तथा च सः स्थितप्रज्ञः पुरुषः स्वयं किं भाषणादि करोति ? इति ।55) आचरणभेदस्य वर्णने कृते स्वरूपस्य वर्णनम् अपि भवति । अतः स्थितप्रज्ञस्य पुरुषस्य आचरणभेदस्य वर्णनं करोति –मनुष्यः यदा आत्मना, मनसा च केवलम् एकस्य आत्मनः अवलम्बनं कृत्वा आत्मनि एव सन्तुष्टः भवति, तेन सन्तोषेण आत्मनः अतिरिक्तम् अन्यासां समस्तानां मनोगतानां कामनानां पूर्णतया त्यागं करोति, तदा सः स्थितप्रज्ञः उच्यते । ज्ञाननिष्ठायाः सा काष्ठा अर्थात् अन्तिमा सीमा अस्ति ।56) इतः परम् अत्र ज्ञाननिष्ठस्य पुरुषस्य अर्वाचीनां स्थितिम् अर्थाद् अन्तिमस्थितेः समीपस्था या अवस्था अस्ति, ताम् उपस्थापयति –प्रियवियोगादीनां दुःखनिमित्तकानाम् उपस्थित्यां सत्याम् अपि यः अनुद्विग्नचित्तः भवति अर्थाद् दुःखी न भवति, यः सुखेषु स्पृहारहितः भवति अर्थाद् प्रियपदार्थानां सन्नैकट्ये प्राप्तेऽपि यः तेषाम् इच्छां न करोति, यः रागभयक्रोधादिभ्यः रहितः भवति, तादृशः मुनिः स्थितप्रज्ञः उच्यते । अप्राप्तपदार्थेषु स्पृहा 'रागः' इति । प्रियवियोगस्य, अप्रियप्राप्तेः निमित्तं दृष्ट्वा यद् दुःखम् उत्पद्यते, तद् 'भयम्' इति । एवं प्रियवियोगस्य, अप्रियप्राप्तेः च निमित्ताद् अपरेषु जीवेषु जातस्य दुःखस्य हेतुभूतं यः मनसः विकारः अस्ति, सः क्रोधः इति । यः एतेभ्यः त्रिभ्यः दोषेभ्यः रहितः अस्ति, तादृशः मुनिः अर्थाद् आत्ममननशीलः पुरुषः स्थितप्रज्ञः उच्यते ।57) आत्मतत्तवस्य या अर्वाचीना स्थितिः उक्ता, तस्याः अर्वाचिनायाः स्थितेः अपि अर्वाचीनाम् अर्थाद् तस्याः स्थितेः पूर्वतानां स्थितिं वर्णयति –यः सर्वत्र प्रियपदार्थेषु स्नेहरहितः अर्थाद् उदासीनः अस्ति, प्रियपदार्थानां संयोगवियोगरूपं शुभाशुभं प्राप्य हर्षद्वेषरहितः अस्ति, सोऽपि स्थितप्रज्ञः अस्ति ।58) आत्मतत्त्वप्राप्तेः पूर्वस्थितायाः अर्वाचीनस्थितेः, प्रार्वाचीनस्थितेः च वर्णनं कृत्वा अत्र प्रप्रार्वाचीनस्थितेः वर्णनं करोति –यदा इन्द्रियाणि इन्द्रियविषयणाम् उपभोगे उद्यतानि भवन्ति, तस्मिन् एव समये कच्छपः यथा सङ्कटस्थितिं दृष्ट्वा स्वाङ्गानि सङ्कोचयति, तथैव यः इन्द्रियाणां विषयेभ्यः मनः सर्वथा विस्थाप्य केवलं आत्मनि एव स्थापयति, सः अपि स्थितप्रज्ञः ।59) एवं चतुर्धा ज्ञाननिष्ठा अस्ति । ताः निष्ठाः पूर्व-पूर्वोत्तरोत्तरत्रः अर्थाद् आरोहक्रमेण सिद्ध्यति इति उक्तम् । अधुना ज्ञानननिष्ठायाः दौर्लभ्यं, ज्ञाननिष्ठायाः प्राप्त्युपायं च वदति –विषयाः इन्द्रियाणाम् आहारः । निराहारिणः मनुष्यस्य अर्थाद् यः इन्द्रियाणि विषयेभ्यः विनिवर्तते, तस्य ये विषयाः विमुक्ताः भवन्ति, ते रसं विना विमुक्ताः भवन्ति । आसक्तिः इत्युक्ते रसः । तात्पर्यम् अस्ति यद्, विषयाणां त्यागे विषयाणाम् आसक्तिः न विसर्जते । परन्तु विषयाणाम् अपेक्षया अत्यन्तं श्रेष्ठम् अतिशयसूखमयम् आत्मस्वरूपं प्राप्य अर्थात् आत्मस्वरूपस्य साक्षात्कारे सति आसक्तिः अपि विनिवर्तते ।60) आत्मसाक्षात्कारं विना विषयासक्तिः अपि न निवर्तते । यः विवेकशीलः पुरुषः विषयासक्तेः अनिवृत्त्यां सत्यामपि यत्नं करोति, तस्य मनः अपि मथनकारीणि बलवन्ति इन्द्रियाणि बलात्कारपूर्वकं विषयान् प्रति कर्षयन्ति । एवम् इन्द्रियेषु विजयप्राप्तिः आत्मसाक्षात्काराधीना । आत्मदर्शनम् इन्द्रियवियजाधीनम् । अत एव ज्ञाननिष्ठायाः प्राप्तिः अतीव कठिना ।61) समस्तेभ्यः अन्योन्याश्रयादिदोषेभ्यः मुमोचयिषायां सत्यां, विषयानुरागयुक्तत्वाद्, येषु सहजतया विजयप्राप्तिः न शक्या, तेषु इन्द्रियेषु संयमनं कृत्वा चित्तस्य शुभाश्रयरूपिणि मयि (परमेश्वरे) मनः स्थिरं कृत्वा सावधानो भूत्वा स्थातव्यम् । मनसः मयि स्थिरे सति, मया समस्तेभ्यः पापेभ्यः पूर्णतया निर्मलीकृतं विषयासक्तरहितं मनः इन्द्रियाणि वशीकरोति । ततः इन्द्रियवशीभूतं कर्तृ मनः आत्मसाक्षात्काराय समर्थं भवति । उक्तमपि अस्ति यद्, यथा वायोः संयोगं प्राप्य उन्नतशिखः अग्निः तृणसमूहं भस्मयति, तथैव योगिनां चित्ते स्थितः भगवान् विष्णुः समस्तपापसमूहान् भस्मयति । अत एव उक्तं यद्, यस्य इन्द्रियाणि वशीभूतानि सन्ति, तेषां बुद्धिः स्थिरा (प्रतिष्ठिता) अस्ति इति । 62) एवं मयि (परमेश्वरे) मनः अनिवेश्य यः स्वप्रयत्नबलेन इन्द्रियेषु विजयं प्राप्तुं प्रयतते, सः नश्यति इति कथयति –येन विषयासक्तेः नाशः न कृतः, येन च मयि मनः न निवेशितं, सः सर्वं त्यक्त्वा इन्द्रियसंयमाय एव प्रयत्यमानः भवेच्चेदपि अनादिपाप-वासनादि कारणेन तेन विषयचिन्तनम् अनिवार्यं भवति । विषयाणां चिन्तनं कर्तुः मनुष्यस्य तेषु विषयेषु आसक्तिः अत्यधिका वर्धते । आसक्तिना कामना उत्पद्यते । आसक्तेः परिपक्वावस्था एव कामः इति । यस्यां दशायां स्थित्वा मनुष्यः विषयाणां भोगम् अकृत्वा स्थातुं न शक्नोति, सा अवस्था एव 'कामः' इति । तस्माद् कामात् क्रोधः उत्पद्यते । कामः भवेद्, ततः कामनानुसारं विषयाणां प्राप्तिः न भवेच्चेद् तस्मिन् समये समीपस्थात् जनात् क्रोधः भवति । एतैः जनैः मे अभिष्टविषयः नष्टः कृतः इति क्रोधः भवति ।63) क्रोधाद् सम्मोहः भवति । कर्तव्याकर्तव्ययोः अविवेकः सम्मोहः इति । तेन सम्मोहेन विशीभूतः मनुष्यः सर्वं करोति । तेन इन्द्रियजयादिभ्यः प्रारब्धस्य प्रयत्नस्य स्मृतिः नश्यति । स्मृतिनाशे सति बुद्धिः नश्यति । अर्थाद् आत्मज्ञानस्य प्राप्त्यै यः निश्चयः कृतः आसीत्, तस्य नाशः भवति इति । एवं बुद्धिनाशे सति सः पुनः संसारसागरे निमग्नो भूत्वा नश्यति ।64) यः पूर्वोक्तविध्यानुसारं चित्तस्य शुभाश्रयरूपिणि मयि सर्वेश्वरे भगवति मनः निक्षेपयति, तस्य समस्तपापानि पूर्णतया भस्मीभूते सति सः रागद्वेषरहितः, स्वविशीभूतानाम् इन्द्रियाणां माध्यमेन विषयाणां सेवनं करोति । सः मनः वशीकर्ता पुरुषः प्रसादं प्राप्नोति । अभिप्रायः अस्ति यद्, तस्य अन्तःकरणं निर्मलं भवति इति ।65) एतादृशस्य निर्मलमनस्कस्य पुरुषस्य प्रकृतिसंसर्गजनीतानि सर्वाणि दुःखानि नश्यन्ति । तस्य प्रसन्नचित्तस्य आत्मसाक्षात्कारविरोधिदोषरहितस्य पुरुषस्य प्रकृतिसंसर्गरहिता आत्मविषयकी बुद्धिः तस्मिन् एव क्षणे मयि सर्वथा स्थिरीभवति । एवं मनसः प्रसादेन अर्थाद् मनसः निर्मलतायाः कारणेन समस्तदुःखानां नाशः निश्चयेन भवति ।66) मयि मनः निक्षेपे अकृते यः मनुष्यः स्वप्रयत्नेन इन्द्रियदमनं कुर्वन् अस्ति, तस्मिन् प्रकृतिसंसर्गरहिती आत्मविषयकबुद्धिः कदापि न सिद्ध्यति । अत एव तस्य तद्विषयकी भावना अपि भवितुं नार्हति । प्रकृतिसंसर्गरहितस्य आत्मभावनायाः अकर्तुः पुरुषस्य विषयेच्छा कदापि शान्ता न भवति । एवं शान्तिशून्यविषयलालसायुक्ताय पुरुषाय नित्यनिरतिशयसुखस्य प्राप्तिः कथं भवेत् ?67) प्राथम्येन उक्तया प्रद्धत्या इन्द्रियदमनस्य अकर्ता पुरुषः कीदृशम् अनर्थं प्राप्नोति इति पुनः कथयति –मनुष्येण विषयेषु चरताम् इन्द्रियाणां मार्गं प्रति यन्मनः योज्यते, तन्मनः तस्य मनुष्यस्य प्रकृतिसंसर्गरहितस्य आत्मनः प्रति प्रवृत्तां प्रज्ञां अर्थाद् बुद्धिं हरति । अर्थाद् इन्द्रियाणि विषयं प्रति प्रवृत्तानि करोति इति । यथा जले यात्रामग्नायाः नावः प्रतिकूलवायुबलेन हरणं भवति (मार्गच्युतिः भवति), तथैव इन्द्रियाणां भवति ।68) अत एव पूर्वोक्तया विधिना शुभाश्रयरूपिणि मयि (परमेश्वरे) सँल्लग्नमनस्कस्य यस्य पुरुषस्य इन्द्रियाणि इन्द्रियविषयेभ्यः सर्वथा निगृहीतानि सन्ति, तस्य बुद्धिः आत्मनि स्थिरा भवति ।69) एवं यस्य बुद्धिः वशीभूता अस्ति, मनश्च प्रसन्नं (निर्मलं) जातम् अस्ति, तस्य पुरुषस्य सिद्धेः वर्णनं करोति –या आत्मविषयकी बुद्धिः समस्तेभ्यः प्राणिभ्यः रात्रिवद् अस्ति अर्थाद् प्रकाशरहिता अस्ति, तस्यां रात्र्याम् आत्मविषयकबुद्ध्या प्रसन्नमनस्कः पुरुषः जागर्ति । अर्थात् आत्मसाक्षात्कारं करोति इति । शब्दादिविषयेषु संयुक्तायां यस्यां बुद्ध्यां समस्तप्राणिनः जाग्रति अर्थाद् सावधानाः भवन्ति, सा शब्दादिविषयेषु संयुक्ता बुद्धिः आत्मसाक्षात्काररताय मनुये रात्रिवद् प्रकाशरहिता अस्ति ।70)  आत्मना परिपूर्णे एकरूपे समुद्रे नदीनां जलं प्रविशति । तस्य जलस्रोतसः प्रवेशेऽप्रवेशे वा समुद्रः किमपि न विशेषताङ्गच्छति । तथैव समस्ताः कामशब्दादयः विषयाः यस्मिन् संयमिनि पुरुषे प्रविशन्ति अर्थाद् विषयाः इन्द्रियैः सेव्यन्ते चेद्, सः शान्तिं प्राप्नोति । अभिप्रायः अस्ति यद्, इन्द्रियैः शब्दादिविषयाणां सेवने कृतेऽकृते वापि यः पुरुषः स्वस्य आत्मसाक्षात्कारेण सर्वदा तृप्तत्वाद् अविकारी भवति । स एव शान्तिं प्राप्नोति, न तु भोगकामी । अर्थाद् यः शब्दादिविषयैः विकारं प्राप्नोति, सः कदापि शान्तिं न प्राप्नोति इति ।71) येषां कामनाः भवन्ति, तेषां नाम कामः इति व्युत्पत्यानुसारं शब्दादिविषयाः अर्थाद् भोगाः कामः इति । यः पुरुषः शब्दादिभ्यः सर्वेभ्यः विषयेभ्यः मुक्तः सन् तेषु निःस्पृहः, ममतारहितः, अनात्मशरीरे आत्माभिमानरहितश्च भूत्वा आचरणं करोति, सः आत्मनः साक्षात्कारं कृत्वा शान्तिं प्राप्नोति ।72) नित्यात्मनः ज्ञानात् युक्तायाः, आसक्तिरहितकर्मसु विद्यमानायाः एतस्याः स्थिरबुद्धेः साधनरूपा स्थितिः ब्राह्मी इति । ब्राह्मी अर्थाद् ब्रह्मप्राप्तेः स्थितिः । एवं कर्मस्थितिं प्राप्य पुरुषः पुनः मोहितः न भवति । अर्थाद् पुनः संसारसागरे न निमज्जति । अन्तिमावस्थायाम् अर्थाद् मरणावस्थायाम् अपि एतस्यां स्थितौ स्थिरो भूत्वा मनुष्यः निर्वाणं प्राप्तुं शक्नोति । अर्थात् शान्तिमयं सुखैकतानं ब्रह्मतत्त्वं लभते ।एवं द्वितीये अध्याये आत्मनः यथार्थस्वरूपम्, आत्मतत्त्वस्य साधनत्वेन युद्धकर्म अस्ति इति विषयं यः न जानाति, तस्य शरीरमेव आत्मत्वेन स्वीकृत्य मोहितं, मोहाद् युद्धविरतम् अर्जुनं प्रति तस्य मोहं नाशयितुं भगवान् नित्यात्मविषयस्य साङ्ख्यबुद्धिम् अवदत् । साङ्ख्यबुद्धेः विवेचनेन सह भगवान् साङ्ख्यबुद्धिसहितां आसक्तिरहितां कर्मानुष्ठारूपिणीं कर्मयोगविषयकीं बुद्धिम् अपि अवदत् । अर्थाद् स्थितप्रज्ञतारूपिणः योगस्य साधनरूपिण्याः बुद्धिम् अवर्णयत् । उक्तं च तद् – तस्य अर्जुनस्य मोहस्य शान्त्यै नित्यात्मज्ञानविषयकीं साङ्ख्यबुद्धिम्, आसक्तिरहितकर्मानुष्ठानविषयकीं योगबुद्धिं च भगवान् अकथयत् । ययोः साध्यं 'स्थितप्रज्ञता' अस्ति इति ।