अयं योजकः क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य सदस्यः ।

नागरिक प्रणधिः सम्पादयतु

शम: संधि: समाधिरित्येको अर्थ: ॥१॥

राग्ना विश्वासोपगम: शम: संधि: समाधिरिति ॥२॥

सत्यं शपथो वा चल: संधि: ॥३॥

प्रतिभू प्रतिग्रहो वा स्थावर: इत्याचार्या: ॥४॥

नेति कौटल्यः॥५॥

सत्यं वा शपथो वा परत्रेह च स्थावर: संधि ॥६॥

इहार्थ एव प्रतिभ्ः प्रतिग्रहो वा बलापेक्श: ॥७॥

संहिता: स्म इति सत्यसंथा पूर्वे राजान: सत्यन संदधिरे ॥८॥

तस्यातिक्रमे शपथेन त्रग्न्युदकसीताप्राकारलोष्ट हस्तिस्कन्धाश्वपृष्ठरयोपस्यशस्त्ररत्नबीजगन्धरससुवएहिरण्या न्यालेभिरे ॥९॥

हन्युरेतानि त्यजेयुश्चनं यः शपथमतिक्रामेदिति ॥१०॥

शपथातिक्रमे महतां तपस्विनां मुख्यानां वा प्रातिभाव्यबन्धः प्रतिभू: ॥११॥

तस्मिमन्य: परावग्रहसमर्थान्प्रतिभुवो गृह्नाति सा अतिसंधत्ते ॥१२॥

विपरीतो अतिसंधीयते ॥१३॥

बन्धुमुख्यप्रग्रहः प्रतिग्रहः ॥१४॥

तस्मिन्यो दूष्याद्ष्यामात्यं दूष्यापत्यं वा ददाति सो अतिसंधत्ते ॥१५॥

विपरीतो अतिसंधीयते ॥१६॥

प्रतिग्रहग्रणविश्वस्तस्य हि परः छिद्रेषु निरपेक्शः प्रहरति ॥१७॥

प्रपत्यसमाधौ तु कन्यापुत्रदाने ददत्तु कन्यामतिसंधत्ते ॥१८॥

कन्या ह्यदायादा परेषामेवार्थाय क्लेशाय च विपरीतः पुत्रः ॥१९॥

पुत्रयोरपि जात्यं शूरं प्राग्न्यं कृतास्त्रमेकपुत्रं वा ददाति सो अतिसंधीयते ॥२०॥

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Kruthika1310084&oldid=288288" इत्यस्माद् प्रतिप्राप्तम्