दूतवाक्यम्

सूत्रधारः -

पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः । व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ १ ॥

उत्पन्ने धार्तराष्ट्राणां विरोधे पाणड्वै: सह । मन्त्रशालां रचयति भृत्यो दुर्योधनाञया ॥ २ ॥

(निष्क्रान्त: ।) स्थापना (तत: प्रविशति काञ्चुकीय :) काञ्चुकीय: :- भो भो प्रतिहाराधिक्रृता: । महाराजो दुर्योधन: समाञापयति-अद्य सर्वपार्थिवै: सह मन्त्रयितुमिच्छामि । तदाहूयन्तां सर्वे राजन् इति । (परिक्रम्यावलोक्य) अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एष:

श्यामो युवा सितदुकूलकृतोत्तरीय: सच्छत्रचामरवरो रचिताङगराग: । श्रीमान् विभूषणमणिघुतिरञ्ञिताङ्गो नक्षत्रमध्य इव पर्वगत: शशाङ्क: ॥ ३ ॥

(तत: प्रविशति यथानिर्दिष्टो दुर्योधन: ।)

दुर्योधन: - उद्धूतरोषमिव मे ह्रृदयं सहर्ष्ं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य । इचछामि पाण्डवबले वरवारणाना- मुत्कत्तदन्तमुसलानि मुखानि कर्तुम् ॥ ४ ॥

काञ्ञुकीय: - जयतु महाराज: । महाराजशासनात् समानीतं सर्वराजमण्डलम् । दुर्योधन: - कृतम् । प्रविश्य त्वमवरोधनम् । कञ्चुकीय: - यदाञापयति महाराज : । (निष्क्रान्त:) दुर्योधन: - आर्यो वॅकर्णवर्षदेवौ ! उच्यताम् ,- अस्ति ममैकादशाक्षौहिणीबलसमुदय: । अस्य क: सेनपतिर्भवितुमर्हति । किं किमाहतुर्भवन्तौ- "महान् खल्वयमर्थ: । मन्त्रयित्व वक्तव्यमिति" । सदृशमेतत् । तदगम्यतां मन्त्रशालामेव प्रविशाम:। आचार्य अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामाह !अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । मातुल! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । आर्ये वैकर्णवर्षदेवौ ! प्रविशतां भवन्तौ । भो भो सर्वक्षत्रिया:! स्वैरं प्रविशन्तु भवन्त : । वयस्य !कर्ण!प्रविशामस्तावत् । (प्रविश्य) आचार्य!एतत् कूर्मासनम्,आस्यताम् । पितामह ! एतत् सिंहसनम् । आस्यतस्म् । मातुल ! एतच्चर्मासनम् , आस्यताम् । आर्ये वैकर्णवर्षदेवौ !आस्यतं भवन्तौ । भो भो सर्वक्षत्रिया:।स्वैरमासतां भवन्त:।किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्म:।नन्वयमहमासे । वयस्य कर्ण !त्वमप्यास्व!(उपविश्य । )

आर्यौ वैकर्णवर्षदेवौ ! उच्यताम्-अस्ति ममैकादशाक्षौहिणीबलसमुदय:।अस्य क: सेनपतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ अत्र भवन् गान्धारराजो वक्ष्यतीति। भवतु,मातुलेनाभिधीयताम्। किमह मतुल:-अत्र भवति गाङेगेये स्थिते को अन्य: सेनापतिर्भवितुमर्हतीति?सम्यगाह मातुल:,भवतु,पितामह एव भवतु। वयमप्येतदभिलषाम:।

सेनानिनादपटहस्वनशङ्खनादै- श्चण्डानिलाहतमहोदधिनादकल्पै: । गाङ्गेयमूर्धिनि पतितैरभिषेकतोयै: सार्धं पतन्तु ह्रृदयानि नराधिपानाम् ॥ ५ ॥

काञ्चुकीय: - जयतु महराज: । एव खलु पाण्डवस्कन्धावाराद् दौत्त्येनागत: पुरुषोत्तमो नारायण: । दुर्योधन: - मा तावद् भो: बादरायण!किं किं कंसभृत्यो दामोदरस्तव पुरुषोत्तम: । स गोपालकस्तव पुरुषोत्तम: ।

         अहो पार्थिवासन्नमाश्रितस्य भृत्यजनस्य समुदाचार:।सगर्वं खल्वस्य वचनम् । आ: अपध्वंस!

काञ्चुकीय: - प्रसीदतु महाराज:।सम्भ्रमेण समुदाचारो विस्मृत:। (पादयो: पतति । ) दुर्योधन: - संभ्रम इति । आ: मनुष्याणामस्त्येवं संभ्रम: । उत्तिष्ठोत्तिष्ठ् । काञ्चुकीय: - अनुगृहीतो अस्मि । दुर्योधन: - इदानीं प्रसन्नो अस्मि । क एष दूत: प्राप्त: ? काञ्चुकीय: - दूत: प्राप्त: केशव: । दुर्योधन: - केशव इति । एवमेष्टाव्यम् । अयमेव समुदाचार: । भो: भो: राजाना:!दौत्येनागतस्य केशवस्य किं युक्तम् । किमाहुर्भवन्त: ।

          अद्य्र्यप्रदानेन पूजयितव्य: केशव इति। न म रोचते । ग्रहणमस्यात्र हितं पश्यामि ।

ग्रहणमुपगते तु वासुभद्रे ह्रृतनयना इव पाण्डवा: भवेयु: । गतिमतिरहितेषु पाण्डवेषु क्षितिरखिलापि भवेन्ममासापत्ना ॥ ६ ॥ अपि च यो अत्र केशवस्य प्रत्युत्थास्यति, स मया द्वादशसुवर्णभारेण दण्ड्य: । तदप्रमत्ता भवन्तु भवन्त: । को नु खलु मम प्रत्युत्थानस्योपाय: । हन्त ! दृष्ट उपाय: । बादरायण, आनीयतां स चित्रपटो ननु, यत्र द्रौपदीकेशाम्बराकर्षणमालिखितम् । (अपवार्य) तस्मिन् द्रष्ट्विन्यासं कुर्वन् नोत्थास्यामि केशवस्य ।

काञ्ञुकीय: - यदाञापयति महाराज: । (निष्क्रम्य,प्रविश्य) जयतु महाराज:, अयं स चित्रपट: । दुर्योधन: - ममाग्रत: प्रसारय । काञ्ञुकीय: - यदाञापयति महाराज: ।(प्रसारयति) । दुर्योधन: - अहो दर्शनीयो अयं चित्रपट: । ऐष दु:शासनो द्रौपदीं केशहस्ते ग्रुहीतवान् । येषा खलु द्रौपदी,

दु:शासनपराम्रष्टा सम्भ्रमोत्भुल्ललोचना । राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते ॥ ७ ॥

येष दुरात्मा भीम: सर्वराजसमक्षमवमानीतां द्रैपदीं द्र्ष्ट्वा अमर्ष: सभास्तम्भं तुलयति । येष युधिष्थिर: ,

सत्यधर्मघ्रुणायुक्तो घूतविभ्रष्टचेतन: । करोत्यपाङ्गविक्षेपै: शान्तामर्ष: व्रुकोदरम् ॥ ८ ॥

येष इदानीमर्जुन:,

रोषाकुलाक्ष: स्फुरिताधरोष्द्ध स्त्र्णाय मत्वा रिपुमण्डलं तत् । उत्सादयिष्यन्निव सर्वराञ: शनै: समाकर्षति गाण्डिवज्याम् ॥ ९ ॥

स्फुरिते अधरोष्टे यस्य स: स्फुरिताधरोष्ट: । रिपूणां मण्डलं रिपुमण्डलम् । सर्वे च ते राजान: , तान् सर्वराञ: । उत्सादयितुम् इच्छन् उत्सादयिष्यन् । गाण्डिवस्य ज्या, ताम् गाण्डिवज्याम् । येष युधिष्टिरो अर्जुनं निवारयतिं । येतौ नकुलसहदेवौ,

क्रतपरिकरबन्धौ चर्मनिस्त्रिंशहस्तौ परुषितमुखरागौः स्पष्टदष्टाधरोष्थो । सत्वरं भ्रातरं मे हरिमिव म्रुगपोतौ तेजसाभिप्रयातौ ॥ १० ॥

येष युधिष्ठिर: कुमारावुपेत्य निवारयति -

नीचो अहमेव विपरीतमति: कथं वा रोषं परित्यजतमद्य नयानयञौ । घूताधिकारमवमानमम्रुष्यमाणा : सत्वाधिकेषु वचनीयपराक्रमा: स्यु: ॥ ११ ॥

येष गान्धारराज: ,

अक्षान् क्षिपान् स कितव: प्रहसन् सगर्व सङकोचयन्निव मुदं द्विषतां स्वकीत्र्यां । स्वैरासनो द्रुपदराजसुतां रुदन्तीं काक्षेण पश्यति लिखत्यभिखं नयञ: ॥ १२ ॥

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Namithakr&oldid=316894" इत्यस्माद् प्रतिप्राप्तम्