योगदर्शने भुवनानां ज्ञानम्
   दर्शनं भवति भारतवर्षस्य प्राणपिण्डम् । परमतत्वस्वरूप  दर्शनाय सर्वेषु दर्शनेषु महर्षिपतञ्जलिप्रणीतं  योगदर्शनं  प्रमुखं स्थानम् अलङ्करोति । सर्वेषु आस्तिकदर्शनेषु योगदर्शनः प्रायोगिकशास्त्रत्वेन मन्यते ।दर्शने अस्मिन् चत्वारः पादाः सन्ति ।
 ते यथा -समाधिपादः, साधनपादः, विभूतिपादः, कैवल्यपादः चेति । योगदर्शने तृतीयपादेषु विभूतिपादे भूवनज्ञानं विषये प्रतिपादितमस्ति । यथा सूत्रम् -“भुवनज्ञानं सूर्ये संयमात्’’ । 
   सूर्यविषये  संयमस्थापनं कृत्वा योगी भुवनज्ञानं प्राप्नोति । भुवनस्य विस्तारं सप्तलोकाः पर्यन्तं भवति । अर्थात् भुवनशब्दस्यार्थः अबोचि आदि षड्महान-

रकः ,भू आदि सप्तलोकाः तथा महातलादि सप्तपा-तालानि ।

         षड्महानरकभूमयोः – नरके शेषभागे अवोचि नाम्ना नरकमस्ति । तस्य अविचि उपरि षड्महानरकभूमयोः यथा – घनसलिलानलानिलाकाशतमः प्रतिष्ठा । अस्य नरकस्य अन्यनामान्तराणि यथा –महाकाल –अम्बरीष – रैरव – महारैरव – कालसूत्र तथा अन्धतामिश्रश्चेति । अयं षड्महानरक यत्र स्व-कर्माणार्जितं दुःखवेदना प्राणिनः कष्टमायुदीर्घमा-क्षिप्य जायन्ते तत्र निवसन्ति । 
         सप्तपातालानि – भूतले महातलादि सप्तपा-तालानि सन्ति । यथा – महातल – रसातल – अतल – सुतल – वितल – तलातल – पातालश्चेति । परन्तु पुराणे पातालानि क्रम – अतल – वितल –सुतल – तलातल – रसातल – महातल – पाताल अस्य प्रकारेण भवति । 
    भूमिलोकः – भूमिरियमष्टमी सप्तद्वीपावसुमती । तस्य सुमेरुमध्ये पर्वतराजः काञ्चनः ।  तत्र वैदुर्यप्र-भानुरागान्नीलोप्तलपत्रश्यामी नभसो दक्षिणोभाग ।  तत्र निबोधः ,हेमकूट –हेमशैलश्चेति त्रयः पर्वताः सन्ति । पूर्वोदिशायां वर्ण श्वेतः ।  रजतमणि आभासे श्वेतवर्णः अस्ति । अस्यां दिशायां माल्यवान् नाम्ना त्रयः पर्वताः सन्ति । एवं च समुद्र पर्यन्तं भद्राश्वनाम्ना देशः अस्ति । पश्चिमभागस्य वर्णः स्फटिकमणि प्रभाकरणं स्वच्छवर्णः । तत्र गन्धमार्दनपर्वतः ,केतु –मालः देशः अस्ति । उत्तरभागः सुवर्णमयकान्तिस-म्वन्धे कुरण्डक – पुष्प आभासे स्फीतवर्णः । तत्र नील – श्वेन – शृङ्गवान् नाम्ना त्रयः पर्वताः सन्ति । 
     सुमेरुमध्ये वर्षमिलावृत्तमिति उच्यते । सुमेरु उपरिभागसभाः नाम सुधर्मा इति । ऩगरं नाम सुदर्शनम् । राजप्रसादस्य नाम वैजयन्तम् । 
  भुवलोकः – अस्यापरं नाम अन्तरीक्षलोकः । अत्र ग्रहनक्षत्रतारका तु ध्रुवे निवद्धाः सन्ति । 
स्वलोकः – अन्तरीक्षलोकस्योपरि स्वर्लोकः वर्तते । यस्मात् महेन्द्रलोकः निवासिनः षड् देवनिवायाः सन्ति । यथा – त्रिदशा – अग्निष्याता – याम्या –तुषिता – अपरिनिर्मित –वशवर्तिः परिप्रवर्त्तितवसव-र्तिनः । एते सङ्कल्पसिद्धा । अणिमादिषु युक्ताः ।

महलोकः – अस्य अपरनाम प्राजापत्यलोकः । कुमुद –ऋषभ – प्रतर्दन – अञ्जनाभ –प्रचिताभः – इति पञ्चदेवनिकायाः सन्ति ।

 ब्रह्मलोकः – ब्रह्मलोकः त्रिविधं जनलोकः ,तपलोकः , सत्यलोकश्चेति । 

जनलोकः – जनलोके चतुर्विधो देवनिकायो सन्ति । ते यथा – ब्रह्मपुरोहित –ब्रह्मकायिक –ब्रह्ममहाका-यिक – अजरामर इति नाम्ना , एते भूतेन्द्रियवासिनः । तपलोकः – अत्र त्रिविधो देवनिकायः अस्ति यथा – आभास्वर – सत्वमहाभास्वर – महाभास्वरश्चेति । एते भूतेन्द्रियः प्रकृतिवासीनः । सत्यलोकः – सत्यलोके चत्वारः वेदनिकायाः सन्ति यथा – अच्युतः , शुद्धनिवासः ,सत्याभः , संज्ञासंज्ञि-श्चेति । सत्वादिगुणत्रयाणां माध्यमेन इच्छानुसारं भोगप्राप्तिं करोति । अस्य आयु सृष्टिपर्यन्तम् । यथा कुर्मपुराणे –

         ब्रह्मण सह ते सर्वे सम्प्राप्ते प्रतिसंचरे । 
         परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ।। 
तेषु अच्युत सवितर्क  समाधि अन्तर्गतम् । शुद्धनि-वासः सविचारसमाधिः अन्तर्गतम् । सत्याभः आन-न्दसमाधिः अन्तर्गतत्वं संज्ञासंज्ञि देवविशेषः अस्मि-तासमाधि अन्तर्गतम् । 
 सूर्यद्वारे संयमं कृत्वा योगिनः एतेषां भुवनानां साक्षात्कारः कुर्वन्ति । अनेन प्रकारेण योगदर्शने भुवनज्ञानं विषये प्रतिपादितमस्ति ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:P._Pratima_kumari_patra&oldid=449635" इत्यस्माद् प्रतिप्राप्तम्