Pavan.k1930906
विवेकानन्दः
विवेकानन्दः स्वामी श्रीरामकृष्णपरमहंसस्य शिष्यः। सः सनातनधर्मस्य, संस्कृतेः केन्द्रबिन्दुः आसीत्। विवेकानन्दः आधुनिकयुगस्य आध्यात्मिकवेत्तृणां श्रेष्ठः। सर्वमतसमावेशेषु, अन्येषु प्रसङ्गेषु च भारतदेशस्य औन्नत्यं प्रपञ्चदेशेषु सर्वत्र प्रकाशयत् । सः भारतीयानां यूनां कृते अस्माकं भारतावनेः उत्कृष्ठां, संस्कृति, पूर्ववैभवम्, अस्माकं कर्तव्यञ्च उद्बोधयत् । विवेकानन्दः विश्वजनीनः आदर्शपुरुषः। विविधसेवाकार्यक्रमाणां स्रष्टा यतिवर्यः च । स्वस्य अल्पजीवनकाले एव अनल्पकार्याणि समसाधयत् सः। विवेकानन्दस्य स्मरणं छात्राणां कृते स्फूर्तिदायकं प्रेरणादायकं च भवति ।
इति कश्चन सामान्यः युवकः ‘विश्वविजयी विवेकानन्दः' इति ख्याति प्राप्य विश्वयुवत्वं प्राप्नोत् । तस्य स्वामिनः विवेकानान्दस्य जन्मनः १५० तमवर्षोत्सवः, कै.श. २०१३ वर्षे न केवलं भारते, अपि तु विश्वस्मिन् विश्वे सर्वेष्वपि देशेषु विविधैः कार्यक्रमैः आचरितः । यूनां, महिलानां, प्रबुद्धनागरिकाणां च कृते विभिन्नस्तरीयाः कार्यक्रमाः, तथैव ग्रामविकासादयः, विविधाः योजनाः च अस्य अङ्गतया स्वाश्रय - स्वाभिमान - मानवविकासाय समायोजिताः। तस्मिन्नवसरे समाजसेवायै विकसितमनस्कैः भाव्यमिति विवेकानन्दस्य वचनान्येव स्मृतानि विकासः एव जीवन, सङ्कोचः एव मरणम्” इति । अयं विषयः अत्यन्तं महत्त्वपूर्णः वर्तते ।
अस्यां परिपाट्यां योगः, संस्कृतं, गीता इत्येतेषां महान् उपकारः विद्यते । संस्कृतज्ञैः एतेषां वैशिष्ट्यं ज्ञात्वा अस्माकं विकासाय, समाजस्य विकासाय, राष्ट्रस्य विकासाय च यत्नः कार्यः। संस्कृतज्ञानां विकासः एतेषां पठनेन पाठनेन च भवेत् । स्वस्य स्थानेषु नियतरूपेण कस्यचित् ग्रन्थस्य पटनं पाठनं च सर्वैः आरम्भणीयम् । संस्कृतभाषायाः विकासः सर्वत्र प्रचारणेन, सर्वेषां पठनेन, सर्वत्र उपयोगेन च भवेत् । संस्कृतज्ञानां विकासः ग्रन्थानां पठनेन, स्वाध्यायेन, सर्वेषां पाठनेन च भवेत् । अनेन अस्माकं व्यक्तित्वस्य संस्कृतज्ञत्वस्य च विकासः सिध्येत् ।