"गोल्कोण्डदुर्गम्"- हैदराबाद्ऐतिहासिकं दुर्गमेतत् पूर्वं वारङ्गलस्य काकतीयैः राजभिः निर्मितम् आसीत् । गोपालकानां प्रदेशः इत्यतः गोल्कोण्ड इति नाम अभवत् । राज्ञा प्रतापेन निर्मितम् एतत् इति केषाञ्चन मतम् । टर्कीदेशस्य सुल्तान क्वालि कुतुब षाह क्रिस्ताब्दे १५१२ तमे वर्षे एतस्य दुर्गस्य नवीकरणं कारितवान् । क्रिस्ताब्दस्य  वर्षपर्यन्तम् एतत् बहमनिसाम्राज्यस्य राजधानी आसीत् । अनन्तरम् एष एव दिल्लीसुल्तानसैन्यम् विरुद्ध्य युद्धं कृतवान् । हैदराबादनगरात् पश्चिमभागे ४०० पादमितोन्नते स्थले ग्रान्नैटशिलाभिः निर्मितं दुर्गम् ७ कि.मीटर् परीधियुक्तम् अस्ति । तत्र तत्र स्फोटकशतघ्न्यः स्थापिताः आसन् । अत्र तारामती मस्जिद्, जनाना(राज्ञीवासः) रक्षकगोपुरं स्फोटकवस्तुनिर्माणागारः च आसन् । नगीनबाग् प्रदेशे राजवंशीयानां स्नानगृहाणि विहारस्थानानि वाटिकाः च आसन् । दुर्गे पर्वतप्रदेशे जल वितरण्व्यवस्था आसीत् । दुर्गस्य चत्वारि द्वाराणि आसन् । तेषु फतेमेक्का बञ्जार बालाहिसार मुख्यानि । प्रवेशद्वारेषु तीक्ष्णानि शूलानि स्थापितानि आसन् । प्रवेशद्वारे करताडनपूर्वकं शब्दं कुर्वन्ति चेत् राजसभायां शब्दश्रवणं कर्तुं शक्यते । एतादृशी अद्भुता व्यवस्था दुर्गे अस्ति । प्रवेशद्वारे वर्तुलाघाटकः अस्ति १२० मीटर् उपरिप्रदेशे शब्दश्रवणम् स्पष्टतया भवति । उपरिगन्तुम् ३६० सोपानानि सन्ति । इतिहासानुसारम् भद्राचलरामदासस्वामिनः बन्धनम् अत्रैव अभवत् । अनन्तरम् रामदासमहोदयस्य बन्धविमोचनम् अभवत् । अत्र दुर्गे वज्रवाणिज्यं भवति स्म । नाम्पल्लि महामार्गतः कि.मी दूरे एतत् दुर्गम् अस्ति । नवम्बरमासतः फेब्रवरीमासम् यावत् अत्र प्रवेशशुल्कं दत्त्वा प्रतिदिनं राजवैभवं दृष्टुं शक्नुवन्ति । सायम् ध्वनिदीपव्यवस्थापि अस्ति । अत्र अगन्तुं हैदराबादतः नगरवाहनसौकर्यम् अस्ति ।

हासिकं दुर्गमेतत् पूर्वं वरङ्गलस्य काकतीयैः राजभिः निर्मितम् आसीत् । गोपालकानां प्रदेशः इत्यतः गोल्कोण्ड इति नाम अभवत् । राज्ञा प्रतापेन निर्मितम् एतत् इति केषाञ्चन मतम् । टर्कीदेशस्य सुल्तान् क्वालि कुतुब् षाहे क्रिस्ताब्दे १५१२ तमे वर्षे एतस्य दुर्गस्य नवीकरणं कारितवान् । क्रिस्ताब्दस्य १५९० तमे वर्ष पर्यन्तम् एतत् बहमनिसाम्राज्यस्य राजधानी आसीत् । अनन्तरम् एष एव दिल्ली सुल्तानसैन्यं विरुद्ध्य युद्धं कृतवान् ।हैदराबादनगरात् पश्चिमभागे ४०० पादमितोन्नते स्थले ग्रान्नैट् शिलाभिः निर्मितं दुर्गं ७ कि.मीटर् परीधियुक्तम् अस्ति । तत्र स्फोटकशतघ्न्यः स्थापिताः आसन् । अत्र तारामती मस्जिद्, जनानां (राज्ञीवासः) रक्षकगोपुरं स्फोटकवस्तुनिर्माणागारः च आसन् ।नगीनबाग् प्रदेशे राजवंशीयानां स्नानगृहाणि विहारस्थानानि वाटिकाः च आसन् । दुर्गे पर्वतप्रदेशे जलवितरण्व्यवस्था आसीत् । दुर्गस्य चत्वारि द्वाराणि आसन् । तेषु फतेमेक्का बञ्जारबालाहिसारमुख्यानि । प्रवेशद्वारेषु तीक्ष्णानि शूलानि स्थापितानि आसन् ।प्रवेशद्वारे करताडनपूर्वकं शब्दं कुर्वन्ति चेत् राजसभायां शब्दश्रवणं कर्तुं शक्यते । एतादिशी अद्भुता व्यवस्था दुर्गे अस्ति । प्रवेशद्वारे वर्तुलाघाटकः अस्ति । १२० मीटर् उपरिप्रदेशे शब्दश्रवणं स्पष्टतया भवति । उपरिगन्तुं ३६० सोपानानि सन्ति । इतिहासानुसारं भद्राचलरामदासस्वामिनः बन्धनम् अत्रैव अभवत् । अनन्तरं रामदासमहोदयस्य बन्धविमोचनम् अभवत् । अत्र दुर्गे वज्रवाणिज्यं भवति स्म । नाम्पल्लिमार्गतः १४ कि.मी दूरे एतत् दुर्गम् अस्ति । नवम्बर्-मासतः फेब्रवरी-मासाभ्यान्तरं यावत् अत्र प्रवेशशुल्कं दत्त्वा प्रतिदिनं राजवैभवं द्रष्टुं शक्नुवन्ति । सायं ध्वनिदीपव्यवस्थापि अस्ति । अत्र अगन्तुं हैदराबादतः नगरवाहनसौकर्यम् अस्ति ।

चारमीनार्

हैदराबादनगरे चारमीनार् इति स्थलं केन्द्रस्थाने अस्ति । हिन्दूनर्तक्याः बागमत्याः स्मरणार्थं निर्मितमेतत् चतुर्गोपुरात्मकम् । क्रिस्ताब्दे १५१३ तमे वर्षे सुल्तान् महम्मद् बुली कुतुब् शाही एतं निर्मितवान् । विपणिमध्ये एव एतत् विराजते । हैदराबादनगरस्य हृदयभागे विपणिमध्ये अस्ति एतत् चारमीनार् वीक्षकगोपुरस्थानम् । हैदराबाद् नगरस्य प्रमुखम् आकर्षण स्थानम् अस्ति एतत् । क्रिस्ताब्दे १५९३ तमे वर्षे प्लेग् रोगात् मुक्तिः प्राप्ता इत्यस्य स्मरणार्थं नर्तकयाः भागमत्याः स्मरणार्थं च एतं विशेषशिल्पं महम्मद् कुलीषा निर्मितवान् । अत्र चत्वारि गोपुराणि सन्ति । गोपुराणि ५० मीटर् उन्नतानि ३० मीटर् विस्तृतानि च सन्ति । चतुर्षु र्भागेषु तोरणानि सन्ति । एतेषां पार्श्वभागे पाटलपुष्पाणां सुन्दरचित्रानि, अरेबिक् भाषया शासनानि च चित्रितानि सन्ति । उपरि गन्तुं सोपानानि सन्ति । गोपुरशिखरेभ्यः नगरदर्शनम् अतीवानन्दाय भवति । चार्मीनार् प्रदेशं परितः आपणाः सन्ति । अत्र आभरणानां विपणिः काचकङ्कणानां मौक्तिकानां च वाणिज्यं च सदा प्रसिद्धम् अस्ति । प्रवेशकालः प्रातः ९ वादनतः सायं ४ वादन पर्यन्तं यावत् भवति। सायङ्काले ७ वादनतः ९ वादन पर्यन्तं दीपोत्सवः भवति । गोपुराणि प्रकाशे अति सुन्दराणि भवन्ति ।

रामोजी चित्रनगर हैदराबादनगरसमीपे स्थितम् आधुनिकं आकर्षकविहारस्थलं चलनच्चित्रनिर्माणकेन्द्रम् एतत् । १८०० हेक्टर् प्रदेशे व्याप्तं मनोरञ्जना स्थानमिदम् । पर्ल् सिटि, सिलिकान् सिटि इति च प्रसिद्धम् अस्ति । एतं ’प्याराडैस् आन् अर्थ’ इति च कथयन्ति । अत्रत्यं थ्रिल्लर् रैडर्, क्रिपालुगृहा, सीपिपिलैन् स्टण्टशो स्थानानि अतीव कर्षकाणि सन्ति । प्रकृतिमध्ये मनुष्यनिर्मितम् अद्भुतदर्शनम् अत्र भवति । सम्पूर्णतया सुन्दरदृश्याणि निर्मितानि सन्ति । ‘युरेका’ शिल्पं सर्वान् यात्रि जनान् कदाचित् प्राचीनस्य मौर्यसाम्राज्यस्य, कदाचित् अमेरिका देशे रचितस्य वैल्ड् वेस्ट् नगरस्य, पुनः कदाचित् देहलीबादशाहसभायाः वैभवं दर्शयति । युरेका पञ्चतारोपहारवसति गृहेषु अनेकविधाहारसेवनं साध्यमस्ति । अलम्पना, चाणक्यः, हनिमेक् फास्टफुड्, गङ्गाजमुना इत्यादीनि अनेकानि उपाहारगृहाणि अत्र सन्ति । अनेकविधक्रीडास्थानानि सन्ति । अत्र बालानाम् अतीव सन्तोषः भवति । क्रीडासु स्पर्धासु बालाः मग्नाः भवन्ति । हैदराबाद् नगरतः ३५ कि.मी दूरे एतत् स्थलमस्ति । अत्र प्रतिदिनं विविधभाषा चलनच्चित्राणां चित्रीकरणं चलत् भवति । नगरतः जम्बोवाहनानि सम्पर्कयोग्यानि सन्ति । दूरवाणीं कृत्वापि वण्डरल्याण्ड जम्बोवाहनैः गन्तुं शक्यते । दूरवाणी सङ्ख्या ६२,२३,३७० अस्ति । फिल्मसिटि मध्ये लघुवाहनानि सन्ति । हैदराबाद् नगरतः नगरवाहनानि सन्ति । वसत्याः कृते काचिगुडा समीपे वसति गृहाणि सन्ति । कोठी वाहननिस्थानतः २०५ सङ्ख्याकं वाहनं चलनच्चित्रनगरं गच्छति । रामोजी फिल्मसिटि दर्शनार्थं प्रवेशधनं निर्दिष्टं अस्ति । बालानाम् अर्धव्ययः भवति । एकदिनं यावत् प्रायशः ५०० सप्यकाणि भवन्ति । प्रवेशसमयः प्रातः काले ९ वादनतः सायङ्काले ६ वादनम् । रायल् प्याकेज् टूर् व्यवस्था अस्ति ।

https://en.wikipedia.org/wiki/Golconda_Fort

हैदराबाद्-नगरम्, भारतम्