रामोजी फिल्मसिटि –भारतस्य डिस्नीलैण्ड हैदराबादनगरसमीपे स्थितम् आधुनिकं आकर्षकविहारस्थलं चलच्चित्रनिर्माणकेन्द्रम् एतत् । १८०० हेक्टर् प्रदेशे व्याप्तं मनोरञ्जनास्थानमिदम् । पर्ल् सिटि, सिलिकान् सिटि इति च प्रसिद्धम् अस्ति । एतम् ’प्याराडैस् आन् अर्थ’ इति च कथयन्ति । अत्रत्यं थ्रिल्लर् रैडर्, क्रिपालुगृहा, सीपिपिलैन स्टण्टशो स्थानानि (CPP Line) अतीवाकर्षकाणि सन्ति । प्रकृतिमध्ये मनुष्यनिर्मितम् अद्भुतदर्शनम् अत्र भवति सम्पूर्णतया सुन्दरदृश्याणि निर्मितानि सन्ति । ‘युरेका’ शिल्पं सर्वान् यात्रिजनान् कदाचित् प्राचीनस्य मौर्यसाम्राज्यस्य, कदाचित् अमेरिकादेशेरचितस्य वैल्ड् वेस्ट नगरस्य, पुनः कदाचित् देहलीबादशाहसभायाः वैभवं दर्शयति । युरेका पञ्चतारोपहारवसतिगृहेषु अनेकविधाहारसेवनं साध्यमस्ति । अलम्पना, चाणक्य, हनिमेक फास्टफुड् , गङ्गाजमुना, इत्यादीनि अनेकानि उपाहारगृहाणि अत्र सन्ति । अनेकविधक्रीडास्थानानि सन्ति । अत्र बालानाम् अतीव सन्तोषः भवति । क्रीडासु स्पर्धासु बालाः मग्नाः भवन्ति ।

रामोजी चित्रनगरी


रामोजी चित्रनगरी प्रपञ्चस्य अत्यन्तं बृहत् सङ्घटितचलनचित्रस्टुडियोसङकीर्णम् । एतत् २००० एकर् प्रदेशे निर्मितम् अस्ति । एतत् अत्यन्तं प्रसिध्दं प्रवासिकेन्द्रम् । अत्र द्विविधम् आकर्षणम् अस्ति । एकं सहजम् उध्यानवनादिकं मनोरञ्जनस्थानम् । द्वितीयं कृतकम् उन्नतं तन्त्रज्ञानस्य प्रयोगशालादिकम् । एतत् हैद्राबादस्य आग्नेयभागे सामान्यतः २५ कि.मी दूरे एन्.एच् ९ मध्ये अस्ति । हैद्राबाद् विजयवाडयोः मध्ये हयात्नगर- पेडम्बरपेटयोर्मध्ये स्थितमस्ति । बहिर्भागस्य वर्तुलमार्गस्य द्वितीयघट्टस्य प्रवेशे एव भूमिमावृत्य अस्ति । नगरमेव एतस्य कारणतः द्विधा विभक्तमस्ति।

इतिहासः सम्पादयतु

रामोजी उद्यमसमूहस्य मुख्यस्थः चलनचित्रनिर्मापकः रामोजीरावः । एषः एतत्सौलभ्यं १९९६ तमे वर्षे निर्मितवान् । रामोजीउद्यमसमूहस्य सम्पर्कः उषाकिरण मूवीस् द्वारा भवति । एतस्य फलश्रुतिरीत्या रामोजिचित्रनगर्याः सृष्टिः भवति । उषाकिरण मूवीस् सर्वदा चलनचित्रनिर्माणे मग्नं भवति । एतद्वारा हिन्दी, मळयाळं, तेलगु, तमिळु, कन्नड, मराठि, बङ्गला इत्यादीनां भाषाणां चलनचित्राणि अशीत्यधिकानि निर्मितानि ।

 
रामोजी चित्रनगर्यां इङ्ग्लेन्ड् देशास्य निर्माणम्

चित्रशालायाः गुणलक्षणानि सम्पादयतु

रामोजीफिल्मसिटी चित्रनिर्माणसमये आरम्भे साहाय्यं करोति, निर्माणसमये साहाय्यं करोति, निर्माणानन्तरमपि साहाय्यं करोति । चित्रनिर्माणार्थं सम्पन्मूलानि सर्वदा ददाति । सिटिद्वारा ५०० सैट्स् प्राप्यन्ते । अत्र अनेकानि उद्यानानि सन्ति । नैसर्गिकस्थानानि सन्ति । पञ्चाशत् स्टुडियो अट्टाः सन्ति । डिजिटल् सिनिमा सौलभ्यम् अस्ति । तस्य पोषकव्यवस्था अस्ति । बहिरङ्गणस्थानानि, उन्नततन्त्रज्ञानस्य शालाः इत्यादयः सन्ति । फिल्मसिटेः मूलसौलभ्यानि, साम्प्रदायिकरीत्या निर्मितानि स्थानानि, आदर्शरुपवस्तूनि, सेट्निर्माणसामगयः, वस्तूनि, वस्त्राणि चित्रीकरणार्थं वेदिकाः, चित्रग्राहकयन्त्राणि इतरसाधनानि उपलभ्यन्ते । निर्माणानन्तरं ध्वनिसंयोजनव्यवस्था डिजिटल् / एस् एफ् एक्स्, चलनचित्रसंस्करणव्यवस्था इत्यादिकमपि अस्ति ।

एतस्मिन् सङ्कीर्णे विंशतिम् अन्ताराष्ट्रियचित्राणि, चत्वारिंशद् भारतीयचलनचित्राणि च निर्मातुम् एककाले व्यवस्था अस्ति । अतः अस्माकं देशस्य चित्रनिर्मापकाः हालिवुड् चित्रनिर्मापकाः, अन्यनिर्मापकाश्र्च अत्र आकृष्टाः भवन्ति ।

 
रामोजी चित्रनगरी,हैदराबाद्

प्रवासोद्यमः सम्पादयतु

प्रतिवर्षम् एतत् स्टुडियो प्रति सहस्राधिकाः प्रवासिकाः अगच्छन्ति, सङ्कीर्णं बिलियन्प्रमाणेन धनं सम्पादयति । फिलम्सिटिप्रदेशे चलनचित्रनिर्माणस्य घटकानां कृते प्रवासिकानां कृते च तारानामकं ३-स्टारहोटेल्, ५-स्टार् होटेलस् च सन्ति । अन्तः हवामहल् अस्ति । एतत् गोल्कण्डदुर्गस्य सङकीर्णं रूपम् अस्ति । एतत् गिरेः शिखरे अस्ति । इतः समग्रं स्टुडियो द्रष्टुं शक्यते । फिल्मसिटि मधुचन्द्रस्य प्यकेज् ददाति । सङ्घटितसंस्थानां कृते सभाङ्गणादिकं, भोजनव्यवस्थादिकं करोति ।

प्रवासिकाः अत्र एतानि स्थलानि द्रष्टुं शक्नुवन्ति । जपानी उद्यानवनम्, हू.टि.वि गृहम् ( बहूद्देशसङकलितसूट् ) महासरोवरः, कृतकजलपातः, सङ्कीर्णतया उत्कीर्णाः गुहाः, विमानस्थानकम् , चिकित्सालयसेट्, रेल्वेस्थानकम्, चर्च्, मसीदि देवालयाश्च, आपणाः, विपणिः, राजगृहस्य अङ्गणानि, अन्तर्भागाश्च, ग्रामसौधाः, ग्रामाः, पट्टणस्थानानि वासगृहाणि च, वक्रमहामार्गाः, यु.एस्, युरोपियन् सेट्स्, आपणानां पङक्तयः देशीयः विदेशीयाः आपणाः - एव बहुविधसौलभ्यानि सन्ति ।

अत्र नटानां वेषभूषणादिनिमित्तम् आदेशं कर्तुमर्हन्ति । अत्र वयं शांग्री नाम नर्सरि द्रष्टुं शक्नुमः । अत्र विदेशीयसंस्थानां विक्रयणम् अपि प्रचलति । अत्र रामोजी फिल्म म्याजिक् अपि अस्ति । एतत् चलनचित्रनिर्माणे अन्तनिदृनि गुप्तदृश्यानि अपि दर्शयति । फिल्मसिटिविषये मार्गदर्शकाः सन्ति । ते प्रवासिकान् सर्वत्र नयन्ति । स्टुडियोमध्ये अनेकसेट्स् सन्ति । एतत् प्रवासिकान् मौर्यसाम्राज्यम्, मोगलसाम्राज्यं, अमेरिकायाः ओल्ड वेस्ट् वीथीः वा नयन्ति । अत्र प्रसिध्दानि हालिवुड्सङ्कीर्णानि सन्ति । स्टुडियोप्रदेशे गिरिषु प्रदर्शयन्ति । हैदराबाद- नगरतः ३५ कि.मी दूरे एतत् स्थलमस्ति । अत्र प्रतिदिनं विविधभाषाचलच्चित्राणां चित्रीकरणं चलत् भवति । नगरतः जम्बोवाहनानि सम्पर्कयोग्यानि सन्ति । दूरवाणीं कृत्वापि वण्डरल्याण्डजम्बोवाहनैः गन्तुं शक्यते । दूरवाणी सङ्ख्या ६२२ ३३७० अस्ति । फिल्मसिटि मध्ये लघुवाहनानि सन्ति । हैदराबादनगरतः नगरवाहनानि सन्ति । वसत्याः कृते काचिगुड्डसमीपे वसतिगृहाणि सन्ति । कोठी वाहननिस्थानतः २०५ सङ्ख्याकं वाहनं चलाच्चित्रनगरं गच्छति । रामोजी फिल्मसिटिदर्शनार्थं प्रवेशधनं निर्दिष्टं अस्ति । बालानाम् अर्धव्ययः भवति । एकदिनं यावत् प्रायशः ५०० सप्यकाणि भवन्ति । प्रवेशसमयः प्रातः काले ९ वादनतः सायङ्काले ६ वादनम् । रायल् प्याकेज टूर् व्यवस्था अस्ति ।

मार्गः सम्पादयतु

बेङ्गळूरुतः ५७४ कि.मी । चेन्नैतः ७९४ कि.मी। तिरुपतितः ७४१ कि.मी । विजयवाडातः २६० कि.मी मुम्बयी ७३९ कि.मी । अन्यराज्यैः अपि वाहनसम्पर्कः अस्ति । समीपवाहननिस्थानानि जूबिलि, कोठि हाम्लिबिन् । धूमशकटवाहननिस्थानं काचिगुड्डप्रदेशे अस्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रामोजी_चित्रनगरी&oldid=480884" इत्यस्माद् प्रतिप्राप्तम्