Saurabh shukla 10
भारतीय संस्कृतिः
का नाम संस्कृतिः - भारतीयसंस्कृतेर्विवृत्तिविचारे बहवोऽनुयोगाः समापतन्ति चेतसि। का नाम संस्कृतिः ? कथमिवैषोपकरोत्यात्मनो मनसो जनस्य देशस्य संस्कृतेर्वा ? हेयोपादेयोपेक्ष्या वैषा ? उपादेया चेदियं किं स्यात् स्वरूपमस्याः साम्प्रतिक्यां लोकस्थितौ ? कास्तावत् प्रातिस्विक्यो भारतीयसंस्कृतेः ? किमिव हि साध्यं क्षेममिह लोकस्य संस्कृत्याऽनया ? कानि च सन्ति कारणानि विश्वसंस्कृतावादृतेरस्याः ? इत्यादयः । संस्करणं परिष्करणं चेतस आत्मनो वा संस्कृतिरिति समभिधीयते। सा नाम संस्कृतिर्या व्यपनयति मलं मनसः, चाञ्चल्यं चेतसः, अज्ञानावरणमात्मनश्च। पापापनयनपूर्वकमेषा प्रसादयति स्वान्तम्, दुर्भावदमनपूर्वकं संस्थापयति स्थैर्यं चेतसि, मनःशुद्धिपुरःसरं पावयत्यात्मानमपहरति च
चित्तभ्रमम् । दमयते, दुर्गुणान् दारयति, पापान्यपाकुरुते, दुःखद्वन्द्वानि दहति, ज्ञानज्योतिर्ध्वलंयति, अविद्यातमोऽपहन्ति, भूतिं भावयति, सुखं साधयति, धृतिं धारयति, गुणानागमयति, सत्यं स्थापयति, शान्ति समादधाति च। न केवलमेषोपकर्जी व्यष्टेरपितु समष्टेरपि जीवनभूता। उपकरोति चैषाऽऽत्मनो मनसो लोकस्य राष्ट्रस्य संसृतेश्च। अजस्त्रमेषोपादेया सर्वेरेव स्वसुखमभीप्सुभिः । स्वोन्नतिमभीप्सता न शक्या केनाप्येषा हातुमुपेक्षितुं वा। उज्झितोपेक्षिता वैषा परिणंस्यते स्वात्मविनाशाय, लोकाहिताय च। अङ्गीकृतेऽस्या उपादेयत्वं तदेव स्यादस्याः स्वरूपं यत् साम्प्रतिक्या लोकसंस्थित्या नातितरां सम्भिद्येत। विविधाचारविचार-वादव्याकुले विश्वेऽस्मिन् सैव संस्कृतिरुपादेयतामप्स्यति या समेषां स्वान्ते सद्भावाविर्भावपुरःसरं विश्वहितं, विश्वबन्धुत्वं, विश्वोपकरणं चादर्शत्वेनोररी- कुर्यात्। अतः सिध्यत्यदो यद् विश्वजनीना संस्कृतिरेव साम्प्रतमुपादानर्महति। सैव च तापत्रयसन्तप्तं जगत् तापापनयनेन सुखनिधानं सम्पादयितुं प्रभवति।
संस्कृतेर्महत्त्वम् - संस्कृतिरेवैषा चेतः प्रसादयति, मनोऽमलीकुरुते, दुर्भावान्
भारतीयसंस्कृतेर्वैशिष्ट्यम्- भारतीयसंस्कृतेः काश्चन प्रातिस्विक्यो मुख्या विशेषा
वाऽत्र प्रस्तूयन्ते -
१. धर्मप्राधान्यम् - मानवेषु धर्मप्राधान्यमेव तान् व्यवछेदयति पशुभ्यः। अत उक्तम्- 'धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः। न हि धर्मपदेन कश्चन सम्प्रदायविशेषोऽत्र विवक्षितः । जगद्धारकाणि मूलतत्त्वानि यमाख्यया व्याख्यातानि
शास्त्रेषु धर्मपदवाच्यानि। तदेवोच्यते—‘धारणाद्धर्म इत्याद्दुर्धर्मो धारयते प्रजाः । यः स्याद् धारणसंयुक्तः स धर्म इति निश्चयः।' यमास्तु व्याख्याता योगदर्शने- 'अहिंसा- सत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' (योग० २.३०)। अहिंसायाः समाश्रयणम्, सत्यस्य परिपालनम्, अस्तेयवृत्त्या आश्रयः, ब्रह्मचर्यव्रतस्यानुष्ठानम्, अपरिग्रहव्रतस्य पालनं च यम इत्युच्यते। एतेषां व्रतानामाश्रयेण मानवः समाजो देशो जगदिदं च सततमुन्नतिं लप्स्यत इति तानि विश्वजनीनधर्मपदेन वाच्यानि। एत एव यमाः शाश्वतिकाः सार्वभौमाः महाव्रतमित्युच्यन्ते- 'जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (योग० २.३१)। यश्चैहिकमामुष्मिकं चोभयं क्षेममावहति स धर्म इति व्यवस्थाप्तिं वैशेषिकदर्शनकृता कणादेन- 'यतोऽभ्युदयनिः श्रेयससिद्धि स धर्मः'। यतोऽभ्युदयोऽर्थात् ऐहिकी लौकिकी भौतिकी वा समुन्नतिः समुपलभ्यते, निःश्रेयसावाप्तिर्मोक्षाधिगमश्च भवति पारलौकिकं च सुखमाप्यते स एव धर्मपदेन वाच्यः। एतदेव मनसिकृत्य मनुना धृत्यादयो दश गुणा धर्मनाम्ना व्याख्याताः। तद्यथा धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्।' (मनु० ६.९२) ।
संस्कृतनिबन्धशतकम्
२. आध्यात्मिकी भावना- जीवनमेतन्न केवलं भोगार्थमेव, अपित्वात्मोन्नतेः प्रमुखं साधनम्। आध्यात्मिकी भावना मानवं देवत्वं प्रापयति। स सर्वेष्वपि जीवेष्वेकत्वं समीक्षते। समग्रमपि प्राणिजातं परेशेनैवोत्पादितमिति विचारं विचारं तत्रैकत्वमनुभवति । जगदिदं परमात्मना व्याप्तम्। 'ईशावास्यमिदं सर्वं यत् किञ्च जगत्यां जगत्' (ईशोपनिषद् १)। 'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति। सर्वभूतेषु चात्मानं ततो न विजुगुप्सते' (ईशोप०६)। 'यस्मिन् सर्वाणि भूतान्यात्मैवाभूद् विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः' (ईशोप०७)। अध्यात्मप्रवृत्त्या जीवनमुन्नतं भवति। सर्वत्रैकत्वदर्शनेन न मानवः शोकाभिभूतो भवति। स प्रतिपदमानन्दमनुभवति। निखिलमपि संस्कृतवाङ्मयं व्याप्तं भावनयाऽनया। भावनैषां चेतः प्रसादयति, आत्मानं मोक्षाधिगमं प्रति प्रेरयति। उपनिषत्सु गीतायां चास्या भावनाया वर्णितं विविधं महत्त्वम्। अध्यात्मप्रवृत्त्या प्रवर्तते मनसि सहृदयता सहानुभूतिरौदार्यादिकं च।
३. पारलौकिकी भावना जगदिदं विनश्वरं, कीर्तिरवैकाऽविनाशिनी। भौतिका विषया इमे आपातरम्या पर्यन्तपरितापिनश्च। 'आपातरम्या विषयाः पर्यन्तपरितापिनः' (किराता० ११.१२)। एषामाश्रयणेन पतनं सुलभम्, दुःखावाप्तिः सुलभाः, सुखं तु नितरां दुर्लभम्। एतस्मादेव हेतोर्धीराः वीराः सुकृतिनश्च कर्तव्यं प्रमुखं मन्वाना विषयसुखानि विहाय, प्राणान् तृणवद् गणयन्तः समरादिषु वीरगतिं लेभिरे।
४. सदाचारपालनम्- 'आचारः परमो धर्मः' इति सिद्धान्तमाश्रित्य सदाचारः सर्वोत्तमं तप इति स पालनीयः। अत उक्तं महाभारते- 'वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ।' ब्रह्मचर्यादिपालनेनेन्द्रियनिग्रहो
l: मनसो दमश्च साधनीयौ। सदाचारपालने ब्रह्मचर्यस्य विशिष्टं महत्त्वम्। ब्रह्मचर्य- व्रतस्याश्रयणेन न केवलं शारीरिकी समुत्रतिरवाप्यते, अपितु मानसिको, बाराद्धकी, आध्यात्मिकी चापि समुन्नतिः सुतरां सुलभा। देवा ब्रह्मचर्यव्रतपालनेनैव मृत्युमषि वशीकृतवन्तः । 'ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत' (अथर्व०)। देवा ब्रह्मचर्येण चत्यमापि मधिगतवन्तः । 'इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्' (अथर्व०)। चरित्ररक्षा, शीलरक्षा, संयमो दमौया मनसो वशीकरणमिन्द्रियाणां नियमनं चेत्यादिगुणाः सदाचारला विशेषतोऽवधेयाः ।
५. वर्ण-व्यवस्था - ब्राह्मणक्षत्रियवैश्यशूद्राश्चत्वार इमे वर्णाः। वेदानां वेदाङ्गानां चाध्ययनमध्यापनं, यजनं, याजनं, विद्याया धनस्य च दानं, धनादि-दानस्य स्वीकरणं च ब्राह्मणस्य कर्तव्यम्। 'अध्यापनमध्ययनं यजनं याजनं तथा। दानं प्रतिग्रहश्चैव ब्रह्मकर्म स्वभावजम्' (मनु० १०.७५)। 'शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्' (गीता १८.४२)। देशस्य समाजस्य च रक्षणं क्षत्रियस्य परमो धर्मः। स विपत्तेः क्षताद् वा लोकं त्रायते। अतः साधु निगदितं कविवरेण्येन कालिदासेन - 'क्षतात् किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः' (रघु०)। 'शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्' (गीता १८.४३) । देशस्य जनतायाश्च मनोरञ्जनत्वादेव राजा राजते। 'राजा प्रकृतिरञ्जनात्।' कृषिर्गोरक्षा वाणिज्यं च वैश्यस्य प्रमुखं कर्म। 'कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्' (गीता १८.४४)। एषु कर्मसु वैश्यैः समुन्नतिः कार्या। श्रमसाध्यं शारीरिकं च कार्यं शूद्रस्य प्रधानं कर्तव्यम्। 'परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ' (गीता १८.४४)। यो यादृशं कर्म कुरुते तादृशं वर्णमवाप्नोति। सर्वे वर्णाः स्वं स्वं कर्म विदधीरन्। इदमिहावधेयम्-आर्यसंस्कृतौ वर्णव्यवस्था स्वीक्रियते, न तु जातिप्रथा। जन्मना जातिरिति, कर्मणा वर्ण इति। वर्णों वृणोतेः। जनो यत् कर्म वृणोति, स तस्य वर्णः। जातिप्रथा सदोषा, हेयोपेक्ष्या च, परं वर्णव्यवस्था निर्दोषोपादेया च। ६. आश्रमव्यवस्था - ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्चत्वार एते आश्रमाः ।
स्ववयोऽनुरूपमाश्रममाश्रयेत्, तदाश्रमनिर्दिष्टनियमान् पालयेच्च। आपञ्चविंशतिवर्ष ब्रह्मचर्याश्रमः। विद्याध्ययनं, तपोमयजीवनयापनं सर्वविधगुणानां सङ्ग्रहश्चाश्रमेऽस्मिन् प्रधानं कर्तव्यम्। आपञ्चाशद्वर्षं गृहस्थाश्रमः। भौतिकी शारीरिकी मनासिकी च समुन्नतिः, भौतिकविषयाणामुपभोगः, दाम्पत्यजीवनयापनं, वंशप्रतिष्ठायै सन्तानोत्पत्तिश्चाश्रमेऽस्मिन् विशिष्टं कर्म। पञ्चाशद्वर्षानन्तरं वानप्रस्थाश्रमे प्रवेशः। सपत्नीकेनेश्वराराधनं, संयमपालनं, योगादिकर्मसु विशिष्टा प्रवृत्तिश्च तत्र प्रमुखं कर्म। षष्टिवर्षानन्तरं यदैव वैराग्यभावना समुत्पद्यते, तदैव संन्यासाश्रम आश्रयणीयः। 'यदहरेव विरजेत् तदहरेव प्रव्रजेत्'। भौतिकविषयान् परित्यज्य योगाभ्यासे रतिः, पुण्यार्जने प्रवृत्तिः, समाधौ मनसः स्थितिः,
लोकोपकरणे च विनियुक्तिः, परिव्राजकानां प्रथमं कर्तव्यम् ।
७. कर्मवादः मनुष्येण सदाऽनासक्तिभावनया कर्म कार्यमिति । कृतस्य कर्मणः 'अवश्यमेव भोक्तव्यं फलावाप्तिः सुनिश्चिता। सत्कर्मणा पुण्यं, दुष्कर्मणा पापं चाप्नोति । कृतं कर्म शुभाशुभम्'। 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनैव' (बृहदारण्यकम्) । मानवः कर्मानुसारं शुभं वाऽशुभ वा जन्म लभते । सुकृतं क्रियते चेत सत्फलं लभ्यते, दुष्कृतं क्रियते चेत् कुफलं प्राप्यते। सर्वास्ववस्थासु कर्मणां फलमवश्यमवाप्यते। अतस्तादृशं कार्यं कार्यं यथा जीवने दुःखावाप्तिर्न स्यात्।
८. पुनर्जन्मवादः कर्मानरूपं सर्वस्यापि जन्तोः पुनर्जन्म भवति । 'जातस्य हि ध्रुवो मृत्युर्भुवं जन्म मृतस्य च' (गीता २-२७)। यो हि जायते तस्य मरणं ध्रुवमेवारिता मृतस्य च कर्मानुसारं पुनर्जन्म सुनिश्चितम्। यः पूर्वजन्मनि यादृशं कर्म कुरुते, सोऽस्मिन विशिष्टगुणादिसमन्वितत्वं तद्वैपरीत्यं च पूर्वजन्मकृतकर्मविपाक एवेत्यवगन्तव्यम्। जन्मनि तादृशे एव कुले परिवारे च जन्म लभते । प्रतिभादिवैशिष्ट्ये ज्ञानाग्निदग्धकर्माणः केचन यतयो निःश्रेयसमधिगच्छन्ति ।
९. मोक्षः - मोक्षावातिः परमः पुरुषार्थः । मोक्षमधिगम्य न च पुनरावर्तन्ते मुनयः। केषांचित् मतेन नियतकालं निःश्रेयससुखमुपभुज्य तेऽप्यावर्तन्त इति। ज्ञानाग्निना सर्वकर्मप्रदाहे मोक्षावाप्तिर्भवतीति ।
१०. श्रुतीनां प्रामाण्यम् - वेदाश्चत्वारः स्वतः प्रमाणस्वरूपाः ग्रन्थाः, अन्ये तु तन्मूलकं प्रामाण्यं लभन्तेऽतस्ते परतः प्रमाणरूपाः । श्रुत्युक्तदिशा कर्मानुष्ठानेन श्रेयोऽवाप्तिस्तदन्यथाऽऽचरणेन दुःखाधिगमश्च ।
११. यज्ञस्य महत्त्वम् - सर्वैरेव जनैः पञ्च यज्ञाः दैनिककर्तव्यत्वेनानुष्ठेयाः । यज्ञानुष्ठानेनात्मप्रसादनं देवप्रसादनं चोभयं क्रियते। पञ्च यज्ञाः सन्ति - (क) ब्रह्मयज्ञः- सन्ध्योपासनमीश्वरोपासनं च, (ख) देवयज्ञः दैनिकयागस्यावश्यकर्तव्यता, (ग) पितृयज्ञः - मातुः पितुश्च सततं परिचर्या, तयोराज्ञापालनं च, (घ) बलिवैश्वदेवयज्ञः - परिपक्वस्य भोजनस्याल्पेनांशेन मन्त्रपूर्वकम् अग्नावाहुतिः, कीटादिभ्योऽन्नप्रदानं च, (ङ) अतिथियज्ञः - 'अतिथिदेवो भव' इति शास्त्रमनुसृत्यातिथीनां शुश्रूषा, सत्करणं च।
१२. सत्यपरिपालनम् - मनसा वाचा कर्मणा सत्यमुररीकुर्याद् अनुतिष्ठेच्च। सर्वदा सत्यं व्यवहरेत्, नासत्यम्। सत्यमेव शाश्वतं विजयं लभते, नासत्यम्। तथोक्तम्- '
सत्यमेव जयते नानृतम्'।
१३. अहिंसापालनम्- 'अहिंसा परमो धर्मः' इत्यहिंसैव श्रेष्ठधर्मत्वेनाङ्गीक्रियते । अहिंसयैव साध्या विश्वशान्तिः। जनहितं विश्वहितं चेप्सताऽजस्रं मनसा वाचा कर्मणा चाहिंसाधर्मः पालनीयः ।
१४. त्यागस्य महत्त्वम् - अनासक्तेनात्मना जगति व्यवहरेत्, न परस्वमीप्सेत्।
पुरुषार्थोपार्जितमेवोपभुञ्जीत । तथा चोक्तं वेदे –'तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद् धनम् (यजु० ४०.१)। १५. तपोमयं जीवनम् - तपसैव शुध्यति जीवनम्, मनश्च प्रसीदति। भोग-
वासनाभिर्विषीदति स्वान्तम्। मनसो बुद्ध्याश्च परिष्काराय सततं तपोमयं जीवनं यापयेत्। १६. मातृपितृगुरुभक्तिः - मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव इत्येतेषां देववत् पूज्यत्वमाख्यायते। शुश्रूषयैवैषां सिध्यति सकलमिह संसृतौ। मातुः पितुर्गुरूणां चादेशोऽनवरतं पालनीयः। ते एव मानवस्य सर्वोत्तमं शुभचिन्तकाः। तेषामाज्ञानुसारमेव व्यवहर्तव्यम्।
विश्वहितस्य विश्वोन्नतेश्च सर्वा एव मूलभूता भावनाः संस्कृतावस्याम् उपलभ्यन्ते। एतासामाश्रयणेन सर्वविधा समुन्नतिः सुलभा राष्ट्रस्य विश्वस्य च। गुणवैशिष्ट्यमेवैतस्याः समीक्ष्य समाद्रियते विश्वसंस्कृतावियम् ।
न्।