सदस्यः:Suhasshekar1840155/प्रयोगपृष्ठम्

रामानुजन्

सम्पादयतु
 
जननम् ७ १८८८तिरुवनैकोयळ्, तिरुचिरापल्ली, मद्रास् प्रेसिडेन्सी, भारतम्
मरणम् २१ १९७० (आयुः ८२)बेङ्गळूरु, कर्णाटकराज्यम्, भारतम्
देशीयता भारतम्
कार्यक्षेत्राणि भौतविज्ञानम्
संस्थाः भारतीयवित्तमन्त्रालयःकोलकाताविश्वविद्यालयःभारतीयकृषिविज्ञानपरिषद्भारतीयविज्ञानसंस्थाकेन्द्रीयमहाविद्यालयः, बेङ्गळुरुविश्वविद्यालयःरमन् शोधसंस्था
मातृसंस्थाः मद्रासविश्वविद्यालयः
शोधच्छात्राः जी एन् रामचन्द्रन्,विक्रम अम्बालाल् सराभाई
प्रमुखाः प्रशस्तयः नैट् बचेलर्(१९२९)नोबेल् प्रशस्तिः (१९३०)भारतरत्नम् (१९५४)लेनिन् शान्तिपुरस्कारः (१९५७)
पतिः/पत्नी लोकसुन्दरी अम्माळ्(१९०७–१९७०)

रामानुजन् (जीवितकालः - क्रि.श. १८८८तः १९७०पर्यन्तम्) कश्चन प्रख्यातः भारतीयः भौतशास्त्रज्ञः । १९३० तमे वर्षे तेन नोबेल्पुरस्कारः प्राप्तः । एशियाखण्डे एव नोबेल्-पुरस्कारं प्राप्तवान् प्रथमः विज्ञानी अयम् । पारदर्शकवस्तुनः द्वारा प्रकाशः यदा सञ्चरति तदा व्याकुञ्चितस्य प्रकाशस्य तरङ्गदैर्घ्यं परिवर्त्यते इत्येतत् 'रामन्-परिणामः' इति कथ्यते । एतस्य संशोधनाय एव तेन नोबेल्पुरस्कारः प्राप्तः । तस्‍य जन्‍म दक्षिणभारतस्‍य तिरुचिरापल्‍लीनामके स्‍थाने अभवत्‌। अध्ययनस्य पश्चात् एषः राजकीयवित्तविभागे कार्यम् अकरोत्‌। आशुतोष मुखोपाध्‍यायः तं कोलकत्ताम्‌ अनयत्‌। प्रकाशस्य प्रकीर्णविषये उत्कृष्टकार्यनिमित्तं क्रि.श. १९३०तमे वर्षे श्रेष्ठतमः नोबेल्पुरस्कारः प्रदत्तः । अस्य परिशोधनं तु अस्य नाम्नि एव रामन् प्रभावः इत्येव प्रसिद्धम् अस्ति । तस्य 'रामन् प्रक्रियायाः'[२] शोधनदिनाङ्क: (फ़ेब्रवरिमासस्य २८तमदिनम्)। अद्य भारते 'राष्ट्रियविज्ञानदिनम्' इति आचरन्ति ।

बाल्यं, विद्याभ्यासश्च

सम्पादयतु

रामानुजन् तमिलुनाडुराज्ये तिरुचिरपळ्ळिमण्डले तिरुवानैकावल्प्रदेशे जातः । पिता आर् चन्द्रशेखर ऐय्यर्, माता पार्वती अम्माळ् च । पञ्चसु पुत्रेषु अयं द्वितीयः । लघुवयसि एव रामः आन्ध्रप्रदेशस्य विशाखपत्तनं प्रति गतः । तत्र सैण्ट् अलोशियस् आङ्ग्लो-इण्डियन् प्रौढशालायाम् अपठत् । तस्य पिता मदरासुनगरस्थे प्रेसिडेन्सीमहाविद्यालये गणित-भौतशास्त्रयोः प्राध्यापकः आसीत् । रामः स्वस्य त्रयोदश्यां वयसि १९०२ तमे वर्षे इमं महाविद्यालयं प्राविशत् । १९०४ तमे वर्षे बि ए परीक्षां प्रथमस्थानेन उत्तीर्णः, भौतशास्त्रे स्वर्णपदकं प्राप्तवान् च । १९०७ तमे वर्षे तेन अत्युत्तमैः अङ्कैः स्नातकोत्तरपदवी प्राप्ता ।

उच्चशिक्षा संशोधनञ्च

सम्पादयतु

रामानुजन् वर्यस्य प्रारम्भिकी शिक्षा वाल्टियत् इति स्थाने अभवत् । तस्य द्वादशे वयसि प्रवेशपरीक्षाम् उत्तीर्य भौतिकविज्ञानविषये स्नातकपदवीं तथा स्नातकोत्तरपदवीं च मद्रासुनगरस्य प्रेसिडेन्सीमहाविद्यालयतः प्राप्तवान् । अस्मिन् महाविद्यालये क्रि.श. १९०२तमे वर्षे प्रविश्य क्रि.श. १९०४तमे वर्षे सम्पूर्णविद्यालयस्य प्रथमस्थानं प्राप्तवान् । एषः क्रि.श. १९०६तमे वर्षे मद्रासुविश्वविद्यालयतः गणितविषये प्रथमश्रेण्यां स्नातकोत्तरपदवीं प्राप्तवान् । पश्चात् रामानुजन्न्वर्यः कोलकत्तायाः भारतीयवित्तीयनिगमे सहायकवित्तीयव्यवस्थापकत्वेन उद्योगम् आरब्धवान् । किन्तु अस्मिन् कार्ये अस्य रुचिः नासीत् । अतः क्रि.श.१९१७तमे वर्षे सर्वकारीयसेवार्थं त्यागपत्रं दत्तवान् । पश्चात् इण्डियन् असोसियेषन् फार् कल्टिवेशन् आफ् सैन्स् इति स्वीयं भौतिकविज्ञानसङ्घटनम् आरब्धवान् । शोधकर्ये अस्य अतीव रुचिं दृष्ट्वा कोलकत्ताविश्वविद्यालयस्य कुलपति: सर् आशुतोषमुखर्जी भौतिकविज्ञानस्य विभागप्रमुखत्वेन कार्यं कर्तुम् अनुरोधं कृतवान् । भौतिकविज्ञानस्य संशोधस्य फलरूपेण कलकताविश्वविद्यालयात् डि.एस्सी पदवीं प्राप्तवान् । क्रि.श. १९२४तमे वर्षे फेलो आफ् रायल् सोसैटी इत्यस्य सदस्यत्वेन निर्वाचितः अभवत् । क्रि.श. १९३०तमे वर्षे रामन्प्रभावः इति अस्य संशोधनार्थं नोबेल्पारितोषिकम् इति जगतः सर्वश्रेष्ठं पुरस्कारं एषः क्रि.श. १९४८तमे वर्षे सेवायाः निवृत्तः रामन्शोधसंस्थानम् इति सङ्घटनं बेङ्गळूरुनगरे संस्थाप्य तत्र शोधरतः अभवत् । क्रि.श. १९५४तमे वर्ष् भारतसर्वकारेण भारतरत्नम् इति प्रशस्त्या भूषितः । क्रि.श. १९५७तमे वर्षे लेनिन् शान्तिपुरस्कारः अपि अस्य कण्ठं समलङ्करॊत् ।