Sushree subhadarsini
मूल्यशिक्षा परिचयः
भारतीयधर्मग्रन्थेषु मूल्यशब्दस्य प्रयोगः 'शील शब्दार्थे कृतोऽस्ति । शब्दोऽयं न मूल्यशब्दस्य पर्यायः अपितु तत्समवाची शब्दः । अस्य च आङ्गलपदं भवति ‘value’ इति। ‘value’ इति शब्दः लैटिनभाषायाः ‘valere’ इति शब्दात् उत्पन्नोऽस्ति । यस्य च अर्थः कस्यचन वस्तुनः मूल्यम्, गुणम्, विश्लेषताम्उपयोगितां वा सूचयति । इदं मूल्यम् एतादृशी एका आचारसंहिताव अहोस्वित् सद्गुणानां समूहः भवति, यत् मूल्यमाधारीकृत्य व्यक्तिः स्वीयं व्यक्तित्वविकासं कर्त्तुं समर्थः भवति । अत्र मानवस्य धारणा, विचारः, विश्वासः, मनोवृत्तिः, तथा स्थितिः च समन्विताः भवन्ति । जीवने शीलमेव सद्गुणसाधनम् । यत्र शीलं तत्रैव धर्मः, सत्यं, तेजो, बलं च निवसन्ति । शीलेन त्रिभुवनमपि जेतुं शक्यम् उक्तं च महाभारते-
″शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।
नहि किञ्चिदसाध्यं वै लोके शीलवतां भवेत् ।।‶
भर्तृहरिणाप्युक्तम् –
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ।
महात्मना बुद्धेन शीलगुणस्य महत्वं वर्ण्यते यत् –
चन्दनं लगरं वापि उत्पलम् अथ वस्तिकी । एतेसं गन्धजातानं शीलगन्धो अनुत्तरो ।।
तेषां सम्पन्नशीलतानां अप्पमादविहारिनं । सम्मदञ्चाविमुत्तानं मारो मग्गं न विन्दति ।।
जॉन. जे. काने (Jhon. J. Kank)महोदया वदति –
मानव-मूल्यानि आदर्शस्वरुपाणि विश्वसनीयानि मानवरूपाणि च भवन्ति । यानि सामाजिकसमस्याः समाजश्च स्वजीवने अङ्गीकुर्वन्ति ।
(Values are Ideals, beliefs or norms which as society or the large majority of a society’s members hold. “Jhon.J.Kank)
Barten Parry महोदयस्य मते –
″यः मूल्यं प्रददाति तस्य, तथा च तत् वस्तुनः मध्ये विद्यमान परस्परसम्बन्ध एव मूल्यम् इति ‶
(Value can be defined as the relation of an object to a valuing subject Barten Parry)
अर्थात् बोधयति । तथा च साररुपेण वदामश्चेत् समाजे व्यवहर्तुं योग्याः गुणाः आत्मसात्करणीयाः गुणाः अनुष्टेयाः गुणाः एव मूल्यम् इती वक्तुं शक्यते ।
मूल्यधारितशिक्षायाः दश आधारस्तम्भाः (The Tem Pillars of value based Education) –
भवनस्य दृढता तदा न सम्भवति यदा तस्याधारभूतस्तम्भाः सशक्ताः न भवन्ति । अत एव भवननिर्माणकारः स्तम्भान् दृढीकृत्य तस्योपरी अट्टलिकां रचयति । एवमेव यदा शिक्षाशास्त्रिणः आदर्शबालकरुपभवनस्य निर्माणं चिकिर्षन्ति तदा ततः पूर्वं मूल्याधारित दशस्तम्भान् दृढीकृत्य बालकस्य मस्तिष्के निवेशयेयुः , येन बालकः पूर्णरुपेण सशक्तः भवेत्, ते च दश आधारस्तम्भाः निम्नोक्ताः – 1) सदाचारपालनम् , 2)अहिंसापालनम्, 3)सत्यपरिपालनम्, 4)मातृपितृगुरुभक्तिः , 5)पारलौकिकभावनायाः जागरणम् , 6)धर्माचरणम्, 7)परोपकारः , 8)समाजसेवा (राष्ट्रसेवा), 9)विश्ववन्धुत्वभावना, 10)पुनर्जन्मभावनायाः जागरणम् ।
मूल्यानां प्रकाराः (Kinds of Values)
सत्य मतभेदेषु सन्ति पञ्चधा मूल्यानां प्रकाराः इति वदन्ति शिक्षाशास्त्रिणः तानि –
नैतिकमूल्यानि(Moral values)
आध्यात्मिकमूल्यानि (Spiritual values)
सामाजिकमूल्यानि(Social values)
शैक्षिकमूल्यानि (Educational values)
राष्ट्रियमूल्यानि(National values)
शिक्षाक्षेत्रे मूल्यसमक्षोभकारणानि –
शिक्षाक्षेत्रे मूल्यसंक्षोभकारणानि अद्योलिखितानि भवन्ति तानि च –
अस्माकं देशे प्रजातन्त्रव्यवस्था वर्तते । परम् इदानीं यावत् वास्तविकरुपेण सामाजिक-आर्थिक-प्रजातन्त्र-व्यवस्था न संसाधिता । अतः शिक्षाक्षेत्रे मूल्यसंक्षोभः जायते ।
परम्परागतमूल्यानां स्थाने नवीनानि मूल्यानि समाजावश्यकतानुगुण्येन परिवर्तितानि ।
वैदेशिको शिक्षापद्धतिमाद्धत्य सम्प्रति भारतीय शिक्षा प्रचलति ।
शिक्षायाः औद्योगिकीकरणम् ।
अध्यापकेषु नैतिकमूल्यानां क्रमशः ह्रासः भवति ।
छात्रेषु विनयप्रवृत्तेः सुतरामभावः, नैतिकगुणानाञ्च ह्रासः, जायमानः अस्ति ।
महाविद्यालयेषु विश्वविद्यालयेषु च छात्रसंघल्थापनम् छात्राणां नेतृत्वकामना राजनैतिक-दल-सम्बन्धद्वारा महत्त्वाकांक्षा-पूर्ति कामना च ।
शिक्षापद्धतेः दोषपूर्णत्वम् ।
परीक्षाप्रणाल्याः अत्यन्तदोषाकुलत्वम् ।
मूल्यसंक्षोभपरिष्काराय उपायाः –
शिक्षाद्वारा प्रजातन्त्र-व्यवस्थायाः विकासः सम्पादनीयः ।
नैतिकताया, साम्यवादभावनायाः च विकासः सम्पादनीयः ।
राष्ट्रैक्यता, विश्ववन्धुत्वादिभावना छात्रेषु संवर्धनीया ।
मानवतावादः , आदर्शवादः , ईश्वरवादः तथा आध्यात्मवादः प्रचारे आनेतव्याः ।
आचारवन्त एव शिक्षकाः शिक्षणालयेषु विनियोज्याः ।
छात्रेष्वाचारशिक्षायाः अनिवार्यत्वं स्यात् ।
छात्रसंघ-सदस्यत्वम् ऐच्छिकं स्यत् ।
परीक्षा-प्रणाली-दोष-वारणार्थ मासिक-परिक्षा-शलकापरीक्षा-मौखिकपरीक्षादिकम् आयोजनीयम् ।
अध्यापकाध्येतृषि प्राचिनो गुरुशिष्यसम्बन्धः संस्थापनीयः ।
सन्दर्भग्रन्थाः –
1)शिक्षायाः दार्शनिकाधाराः 2)मानवाधिकारोपेतमूल्यशिक्षा 3)महाभारतम् 4)भर्तृहरिनीतिशतकम् 2.1.83 5)धर्म्मपदम् 4.92