Vaishnavi Nagaraj
संस्कृतम्
संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा प्राचीनतमा। संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा। भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति। व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना [[जगतः]]
सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति। संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी। संस्कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत्|
कालान्तरे एतस्य लेखनं ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्या आरब्धम् । अन्यरूपान्तराणि अधोनिर्दिष्टनि सन्ति -- बाङ्गलालिपिः, शारदालिपिः, तेलुगुलिपिः, तमिळलिपिः, यव-द्वीपलिपि:, कम्बोजलिपिः, कन्नडलिपिः, नेपाललिपिः, मलयाळमलिपिः, गुजरातीलिपिः, इत्यादय: ॥ मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गूरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असंख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति ।