अहिंसा परमो धर्मः सम्पादयतु

अहिंसा परमो धर्मः अहिंसायाः स्वरूपम्-- “न हिंसा अहिंसा “ – इतिविग्रहानुसारं हिंसाया अभाव एव अहिंसा । किन्तु न केवलं जीवहत्या एव हिंसा, अपितु मनसा परेषाम् अहितचिन्तनं वाचा कटुभाषणं कर्मणा च अप्रियाचरणमपि हिंसा एव । अतः सर्वविधायाः हिंसाया परित्याग एव अहिंसा ।वस्तुतः कयापि चेष्टया, केनापि कर्मणा केनचिदपि च प्रकारेण अन्येषां न पीडिनम् अहिंसा । अहिंसाया महत्वम्-- अहिंसा शान्तेः मूलम्। अहिंसाया व्यवहारः सर्वत्र सौहार्दं जनयति, सौख्यम् उत्पादयति, औदार्यं विस्तारयति, दयाभावं विभावयति, शान्ति च प्रसारयति। अहिंसया जनः हिंस्रपशूनपि वशीकरोति किमुत मानवान् ।यस्य चित्ते अहिंसायाः प्रतिष्ठा सम्यक् भवति तत्समीपमागत्य सर्वे प्राणिनः वैरभावं त्यजन्ति। अतएव कथितं तत्रभवता भगवता पतञ्जलिः उत्कम्- “ अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः" । शाश्वतं सत्यमिदं मतम्। क्रूरतायाः हिंसायाश्च मूर्तरूपो दस्युराजः अंगुलिगालः दयाभावभावितस्य अहिंसाव्रतारभूतस्य भगवतः बुद्धस्य सामीप्यं प्राप्य हिंसा सर्वथा तत्याज भिक्षुकत्वं च जग्राह। एवमेव भगवतः महावीरस्य, महर्षिदयानन्दस्य महात्मागांधिमहाभागस्य च जीवनानि अहिंसाया उदाहरणभूतानि। प्राचीनयुगे अहिंसाव्रतदीक्षितानाम् ऋषीणामाश्रमेषु गुरूकुलेषु च परस्परविरोधिनोऽपि गोव्याघ्रादिपशवः वैरभावं परित्यज्य प्रेमपूर्वकं निवसन्ति स्म ।अहिंसाया एव एषः प्रभाव आसीत् । अहिंसा परमो धर्मः--

   धर्मस्य विविधरूपाणि शास्त्रेषु वर्णितानि ।केचित् परोपकारम्,अन्ये यज्ञम्,अपरे दानम्, इतरे च सत्याचरणमेव धर्मं स्वीकुर्वन्ति किन्तु तेषु सर्वेषु अहिंसाधर्म एव श्रेष्ठो मतः  ।अत एव कथितम्- 

अहिंसा परमोधर्मः। धर्महिंसा तदैव च। । वस्तुतः अहिंसायामेव अन्येषां सर्वेषां धर्मणां पुण्याचरणानां च समन्वयः। धर्मं व्याकुर्वन् भगवान् मनुः अहिंसामेव सर्वोपरि गणयामास— अहिंसा सत्यमस्तेय शौचमिन्दयनिग्रहः। एतं सामासिकं धर्म चातुर्वण्येऽब्रवीन्मनुः।। न हिंस्यात् सर्वभूतानि—एष आदेशः, एषःचोपदेशः सर्वथा सुखकरः शान्तिजनकश्च। क्वचिदपि कस्याचिदपि हिंसा न कार्या।हिंसाया सर्वत्र वैरस्य घृणाया द्वेषस्य अशान्तेश्च वातावरणं जायते। अहिंसया सर्वत्र बन्धुत्वस्य, दयायाः,अनुरागस्य, प्रेमः, शान्तेश्च वृष्टिर्भवति। विश्वशान्तिरपि अहिंसयैव संभवा। अतः सर्वैः सर्वदा अहिंसायाएव आचरणम् विधेयम्। ।