सदस्यसम्भाषणम्:Dhivz/प्रयोगपृष्ठम्


                                                                 "भरतनात्य  हस्तविनीयोग"
                                                                   असम्युत हस्तविनीयोग


१) पत्ताक हस्त :

नाट्यारम्भे वारिवाहे वने वस्तुनिषेधने ।
कुचस्थले निशायाञ्च नद्याम् अमरमण्ङले ॥
तुररङ्गे खण्ङने वायौ शयने गमनोद्यमे ।
प्रतापे च प्रसादे च चन्द्रिकायाम् घनातपे ॥
कवाटपाटने सप्तविभक्त्यर्थे तरङ्गके ।
वीथिप्रवेशभावेऽपि समत्वे च अङ्गरागलके ॥
आत्मार्थे शपथे चापि तूष्णीम्भावनिदर्शने ।
तालपत्रे च खेट॓ च द्रव्यादिस्पर्शने तथा ॥
आशीर्वादक्रियायाञ्च नृपश्रेष्ठस्य भावने ।
तत्र तत्रेति वचने सिन्धौ च सुकृतिक्रमे ॥
सम्बोधने पुरोगेऽपि खड्ग रूपस्य धारणे ।
मासे सम्वत्सरे वर्षदिने सम्मार्जने तथा ॥
एवमर्थेषु युज्यन्ते पताकहस्तभावनाः ॥


२) मुष्टि हस्त :

स्थिरे कचग्रहे दाढर्ये वस्त्वादीनाम्च धारणे
मल्लनाम् युद्धभावेऽपि मुष्टिहस्तोयाम् इष्यते ॥


३) अराल हस्त :

विषादि-अमृतपानेषु प्रचण्ड पवनेऽपि च ॥


४) शुकतुण्ड हस्त :

बाणप्रयोगे कुन्तार्थे वा आलयस्य स्मृतिक्रमे 
मर्मोक्त्याम् उग्रभावेषु शुकतुण्डो नियुज्यते ॥


५) सर्पशीर्ष हस्त :

चन्दने भुजगे मन्द्रे प्रोक्षणे पोषणादिषु
देवस्य उदकदानेषु आस्फाले गजकुम्भयोः
भुजस्थाने तु मल्लानां युज्यते सर्पशीर्षकः ॥


६) त्रिशूल हस्त :

बिल्वपत्रे त्रित्वयुक्ते त्रिशूलकर ईरितः ।
सदस्य "Dhivz/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ