अभिवादये

सम्पादयतु

वासुदेववर्य, प्रणमामि । विकिपीडियाकार्याय भवते हार्दं स्वागतं व्याहरामि । संस्कृतज्ञाः यावन्तः अधिकाः अत्र आगत्य कार्ये आत्मानं योजयेयुः तावता अधिकप्रमाणेन कार्यप्रगतिः भविष्यति इति मनः सन्तुष्यते ।
गुरुकुलयोजनायाः विषये भवता यत् लिखितं तत् बोधकं वर्तते । किन्तु तस्य स्थानम् अत्र न इति कारणतः मया सः लेखः नूतनं पृष्ठं प्रति नीतः अस्ति । तत् अत्र उपलभ्यते । ([[१]])
अस्मिन् पृष्ष्ठे भवता सह अन्ये सम्पर्कं कर्तुम् अर्हन्ति । अतः एव इदं योजकसम्भाषणपृष्ठम् इत्युच्यते ।
विकिपीडियाकार्यविषये संशयः भवति चेत् मम सम्पर्कम् अत्र ([[२]])कर्तुम् अर्हति । धन्यवादः । शुभा (चर्चा) १४:२५, १२ जनुवरि २०१२ (UTC)

पीडियाविषयः नैव भवति ।

सम्पादयतु

हरिः ओम् भवता योजितविषयाः अत्र न भवेयुः । एतत्तु विकिस्रोतसि भवेयुः । तत्र तर्कसंग्रहः इति पृष्ठं सृष्ट्वा तत्र योजयतु । Samvith2011 (चर्चा) १२:३३, २५ जनुवरि २०१२ (UTC) `````

मनःसंस्कारार्थं मार्गोपायाः

सम्पादयतु

“मन एव मनुष्याणां कारणं बन्धमोक्षयोः” (ब्रह्मबिन्दु.२) इत्येतदस्माभिर्विदितचरम् । आत्मैवात्मनो बन्धुर्यदा सम्भवति तदा मनो मोक्षसाधनसामग्रि भवति । तदोदेति प्रश्नः, कुतोवेदं चेतोऽपवर्गमार्गं न मृगयते? इति । तदा ब्रूयते उपनिषदा, “पराञ्चिखानि व्यतृणत्स्वयम्भूः तस्मात् पराङ्पश्यति नान्तरात्मन्” (क.२.२.१.) इति । एवञ्चेत् श्रुतिविरोधः श्रुत्या एव सञ्जातः । यतः मनसैवानुद्रष्टव्यम् इत्यागमो ब्रवीति? इति चेच्छङ्कराचार्यः गीताभाष्ये भणति “शास्त्राचार्योपदेश-शमदमादिसंस्कृतं मनः आत्मदर्शने कारणम्” (गी.भा.२.२१.) इति । यान्त्रिके आधुनिके युगे वर्तमानाः वयं कथं वा शक्नुमः स्वयमाचरणशीलानाचार्यान् प्राप्तुम्? यदि प्राप्ताः तथापि वयं तु न शक्नुमः शमदमाद्यनुष्ठानम् कर्तुम् । एवं दौर्बल्यदर्शनापेक्षया किं कारणं स्यान्मनसः बाह्यप्रवृत्तौ इति चिन्तयामः। यदि कारणं ज्ञातं स्यात्ततस्तन्निवृत्तौ सौलभ्यं भवेत्। निगडे हि निर्ज्ञाते निगडिताद्विमोकः शक्यः कर्तुम् । एवं कारणान्वेषणपराः पूर्वजाः बहून्मार्गानाविश्चक्रुः चित्तशुद्ध्यर्थम्॥
किं तच्चाञ्चल्यकारणम्?
योगसूत्राणामारचयिता पतञ्जलिः स्वसूत्रेषु चेतसः विषयप्रवृत्तिकारणानि दर्शयति। योगसूत्रेषु द्वितीये साधनपादे “तपस्स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” (२.१.) इत्युक्त्वा एतेषां क्रियायोगानामासेवनेन समाधिसिद्धिः, क्लेशानां शिथिलता सम्पद्यते इत्यवोचत् । तत्र क्लेशान् पञ्चधा विभज्य तेषां विमर्शः अकारि। “ते च क्लेशाः अविद्यास्मितारागद्वेषाभिनिवेशाः” (यो.२.३.) इति पञ्च । अविद्या एव अवशिष्टानां चतुर्णां प्रसवभूमिः। अर्थात् उत्पत्तिकारणम् ॥
अविद्या - “अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिरविद्या” (यो.२.५.) इति अविद्यास्वरूपमुवाच पतञ्जलिः। अनित्ये वस्तुनि नित्यत्वज्ञानम् । मृत्युना गृहीतकेशाः अपि वयं, जीवनमस्माकं चिरम् एषा पृथिवी नित्या इति भावयन्तः जीवामः । एतत्तु सम्भवति अविद्याकारणतः एव ॥ द्वितीयं विद्यते अशुचिषु शुचित्वज्ञानम् । यथास्माकं देहः मलमूत्रस्वेदादिभिः अत्यन्तं मलिनस्तथाप्यहं परमशुद्धः, अन्यः हीनजातिः मां स्पृशति चेत् अहमशुद्धो भवेयमिति भावयन्ति । एषा एव अविद्येति आख्याता । कायः कैः कैरशुद्धः इत्येतत् सुभाषितेनानेन उच्यते,
स्थानाद्बीजादुपष्टम्भान्निःस्यन्दान्निधनादपि।
कायमाधेयशौचत्वात् पण्डिता ह्यशुचिं विदुः॥
दुःखे सुखज्ञानं तृतीयमविद्यायाः स्वरूपम् । चतुर्थं विद्यत अनात्मसु आत्मख्यातिः । एनं विषयमाचार्याः शङ्करभगवत्पादाः सूत्रभाष्ये निरदिक्षन्। “तत्र तद्यथा पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मान् आत्मन्यध्यस्यति तथा देहधर्मान् स्थूलोऽहं कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि लङ्घयामि चेति । तथा इन्द्रियधर्मान्मूकः काणः क्लीबः बधिरः अन्धोऽहमिति। तथान्तःकरणधर्मान् कामसङ्कल्पविचिकित्साध्यवसायादीन्। एवमहं प्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तञ्च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यति” (ब्र.सू.) इति। एवमनित्यादिषु नित्यत्वदृष्टिरेव अविद्येत्याख्याता। एषाविद्यास्मितादीनां क्लेशानां कारणभूमिः॥
अस्मिता - द्वितीयः क्लेशः अस्मिता । अहमाकारा अन्तःकरणवृत्तिः । यदा मानवः स्वसत्तादर्शने प्रवर्तते तदा अन्यसत्तां निराकरोति । तदास्य विकासः स्थगितः भवति । यतो ह्ययं भावयति अहमेवोत्कृष्टः, सर्वमहं जानामि, न मया ज्ञातव्यं वर्तते इत्येवमाकारकज्ञानेन ज्ञाने गतिः कुण्ठिता भवति॥
रागः - रागः वर्तते तृतीयः क्लेशः । सुखाकाङ्क्षया सुखे तत्साधने तृष्णा लोभः एव रागः इत्युच्यते। यदग्रे चानुबन्धे च सुखं मोहनमात्मनः अर्थान्मोहात् सुखाभासेषु विषयेषु गर्धः एव राग इत्याखातः । रागस्य रोगः आधुनिके अस्मिन् युगे दरीदृश्यते। यत्किञ्चित् वस्तु दृष्ट्वा तत्प्राप्ताविच्छा एव रागः। यदि तन्नावाप्तं तर्हि क्रोधः, ततः सम्मोहः इत्येषा सरणिः विवेकभ्रष्टानां भवति विनिपातः शतमुखः इतिवत् शतेषु मार्गेषु प्राप्तव्यं सर्वनाशमुपनयति । इयमेव स्थितिः योगेश्वरेणोक्ता, ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते॥
क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद्बुद्धिनाशः बुद्धिनाशात्प्रणश्यति॥
(भ०.गी. २.६२,६३.)
द्वेषः - यत्किञ्चित् पूर्वानुभूतं विषयं सुखकारणीभूतं स्मरन् तद्विषये प्रतिघं प्रदर्शयति सैव द्वेष-शब्दाख्यातः चतुर्थः क्लेशः॥ अभिनिवेशः - मा न भूवं हि भूयासमिति या ईक्षा जन्तोः सैव अभिनिवेशः। महाभारते यक्षप्रश्ने एकः प्रश्नः - जगति आश्चर्यजनकः विचारः कः? इति, तदा युधिष्ठिरः अवोचत् स्वपरितः सर्वेऽपि म्रियमाणाः तथापि स्वयमयं म्रियते इति न कोऽपि भावयति, अयमेव विस्मयजनकः विचारः इति । एवं स्वं परितः सहस्रशः म्रियमाणाः दृश्यन्ते जीवाः तथापि मृत्युञ्जयमात्मानं भावयन् अर्थकामवशे नरो नृत्यति । एषः एव अभिनिवेशः॥
कथमचलं चकार?
एवं सन्ति क्लेशाः । एतेषां तनूकरणार्थं पतञ्जलिः तपस्स्वाध्यायेश्वरप्रणिधानानि (यो.सू.२.१.) निर्दिशति॥
तपः - किं तत्तपः? इति परिप्रश्ने शङ्कराचार्याः स्मृतिवचनमुदाहरिष्यन्ति मनसश्चेन्द्रियाणाञ्च ह्यैकाग्र्यं परमं तपः इति। ऐकाग्र्यपदस्य व्याख्यानं समाधानमिति, अर्थात् मनसः इन्द्रियाणाञ्च समाधानमेव तपः। किं तर्हि समाधानं नाम?
चूडामणावुच्यते-
सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा।
तत्समाधानमित्युक्तं न तु चित्तस्य लालनम्॥
(वि.चू.२६.)
एतत्तपः भगवता त्रिधा विभक्तम् -
१. शारीरं तपः २. वाङ्मयं तपः ३. मानसं तपः चेति
एतादृशे तपसि परिपूर्णता न स्यात्, तथापि -
अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते।
स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ॥
इत्यतः परिपूर्णतां लक्षीकृत्य यत्नस्तु नितरां निरन्तरायं विधेयः ॥
स्वाध्यायः- द्वितीयः मार्गः स्वाध्यायः । मोक्षशास्त्राणामध्ययनं प्रणवजपो वा स्वाध्यायः । सद्ग्रन्थानामध्ययनेन सकारात्मकचिन्तनं वर्धते । येन च मनः गुणग्राहि भवति । यदा गुणान्वेषणमारभ्यते तदा सर्वेषु जीविषु प्रीतिः वर्धते, मनः शान्तं भवति। जपः अर्थात् भगवच्चिन्तनम् । दिने द्वित्रिवारं वा भगवतः सान्निध्ये वासः, तत्स्मरणम्, एतेन विश्वासः वर्धते, अभयत्वञ्च सिध्यति ॥
ईश्वरप्रणिधानम्- तृतीयः पन्थाः ईश्वरप्रणिधानम् । आसुप्तेरामृतेः कालं यद्यच्चिन्त्यते उच्यते क्रियते वा सर्वेषामप्येतेषां भगवति सर्वहृदिसंस्थिते ईश्वरे अर्पणम्। सम्पूर्णशरणागतिरेव ईश्वरप्रणिधानमित्युच्यते ।
एवं पातञ्जलः मार्गः मनसः समाधाने । एतैः मार्गैः (तपस्स्वाध्यायेश्वरप्रणिधानैः) मनः शान्तं सत् मोक्षसाधनत्वेन प्रवर्तते । तेन च संसारसागरस्थदुःखतरङ्गैः मुक्तं भगवदनुग्रहसङ्ग्राहकं भवति॥
- कार्तिकचन्द्रवाग्ले