आगम्यताम्.. सम्पादयतु

विश्वजे, प्रणामाः । भवती कार्यम् आरब्धवती इत्येतत् महते सन्तोषाय । एवमेव विकिपीडियाजगति अटन्ती भवतु । बहूनि मौक्तिकानि लभ्येरन् । स्वस्यूते यथेष्टं पूरयितुम् अर्हति । स्वकोशे विद्यमानं सर्वेभ्यः वितरीतुमपि अर्हति । सहायार्थम् अस्मि एव । पुनर्मिलामि । भवदीया शुभा (चर्चा) ०५:५०, २७ जनुवरि २०१२ (UTC)

तिरुवनन्तपुरम् सम्पादयतु

प्रियविश्वजे, सुष्ठु कृतम् । संस्कृते लेखनाभ्यासः अस्ति इति ज्ञात्वा महान् सन्तोषः जातः । यथासमयं किञ्चित् प्रमाणेन कार्यम् अग्रे नयति चेदपि साहाय्याय भवति । कार्यं कुर्वती अस्ति इत्येतत् मुख्यम् । कियत् करोति इत्येतत् कदापि न इति भवती जानाति एव खलु ? लेखे 'इतिहासः दृश्यताम्' इत्यत्र गम्यते चेत् जातानि परिवर्तनानि ज्ञातुम् अर्हति । अधिकम् ईपत्रद्वारा... । भवदीया शुभा (चर्चा) ०४:२५, २८ फ़ेब्रुवरि २०१२ (UTC)

अनुवर्तताम् सम्पादयतु

भवत्या सूचितौ लेखौ मया पठितौ । समीचीनतया प्रयत्नं कुर्वती अस्ति । कृपया अनुवर्तताम् । सकृत् इतिहासः दृश्यताम् । विषयद्वयं सूचयितुमिच्छामि । विसर्गलेखने, पूर्णविरामलेखने च परिष्कारः कर्तव्यः । विसर्गलेखनाय shift h क्रियताम् । shift colon न । पूर्णविरामस्य लेखनाय full stop key - अस्य उपयोगं करोतु । shift backslash न । अवगतवती वा ? तिरुवनन्तपुरलेखने इदं परिष्कृतवती । मेल्पुत्तूर् भट्टपादस्य लेखने अनयोः परिष्कारं भवती एव करोति किम् ? विरामकाले अधिकं कार्यं भवती कुर्यात् इति विश्वसिमि :)। शुभा (चर्चा) ०६:३९, ६ एप्रिल् २०१२ (UTC)उत्तर दें

धन्यवादः सम्पादयतु

भवत्याः निर्देशानुसारं लेखने परिवर्तनं कृतं मया । सः निर्देश: बहुधन्यवादाय भवति ।

अभिनमांसि बन्धो सम्पादयतु

भवत्याः भाषा शुद्धा सुन्दरा आस्ति । किन्तु वाक्यं किञ्चित् सरलयतु । श्रीगीर्वाणी (चर्चा) ०४:१५, २६ जूलय् २०१२ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Viswaja_s.nair&oldid=201572" इत्यस्माद् प्रतिप्राप्तम्