सन्तमेरीद्वीपस्य स्तम्भरचनाः

सन्तमेरीद्वीपः (St. Mary's Islands) कर्णाटकस्य उडुपीमण्डले सागरप्रदेशे स्थितः कश्चन अपूर्वः द्वीपः । पूर्वतनस्य दक्षिणकन्नडमण्डलस्य अद्यतनउडुपीमण्डलस्य मल्पेसमुद्रस्य तटः मीननिमित्तं प्रसिद्धः अस्ति । एतस्य तटस्य पश्चिमदिशि पञ्चकिलोमीटर् दूरे चत्वारः लघुद्वीपाः सन्ति । एतान् चतुरः द्वीपान् योजयित्वा ‘सन्तमेरीद्वीपाः’ इति व्यवहरन्ति ।

सन्तमेरीद्वीपस्य स्तम्भरचनाः

St. Mary's Islands of Columnar Basaltic Lava
नगरम्
Skyline of सन्तमेरीद्वीपस्य स्तम्भरचनाः
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
मण्डलम् उडुपी
Elevation
१० m
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
Four Islands -Coconut Island, the North Island, the Daryabahadurgarh Island and the South Island
सन्तमेरीद्वीपाः

क्रि.श. १४९८ तमे वर्षे वास्को-डि-गामा यदा भारतस्य अन्वेषणार्थम् आगतवान् तदा सः प्रथमम् अत्र प्राप्तवान् । प्रथमवारं भूम्याः दर्शनं कृत्वा तस्य महान् आनन्दः अभवत् इति कारणेन सः सन्तमेर्याः स्मरणार्थं तत्रत्यद्वीपान् सन्तमेरीनाम्ना ‘सन्तमेरीद्वीपाः’ इति नामकरणं कृतवान् ।

अतीव सुन्दरः अस्ति । अत्र नौकायानेन गमनागमनं रोमाञ्चकारकं साहसयुक्तं च अस्ति । अनेकजनाः प्रतिदिनम् एतां साहसयात्रां कुर्वन्ति ।

उडुपीनगरस्य समीपे मल्पे(५ . कि.मी )सागर तीरे नौकानिस्थानम् अस्ति । ततः नौकायानस्य व्यवस्था कल्पिता अस्ति । सागरतीरे समानान्तरे चत्वारः द्वीपाः सन्ति । तोन्सेपारु कोकनेट् ऐल्याण्ड्(नारिकेलद्वीपः) इत्यादीनि एतस्य अपरनामानि ।

शिल्पाकृतयः

सम्पादयतु

एतत् निसर्गसौन्दर्यपूर्णं स्थानमस्ति । अत्र चित्रविचित्राः स्तम्भाकृतयः शिल्पस्तोमाः च सन्ति । दशहेक्टर्मिते विस्तीर्णे प्रदेशे त्रिकोणचतुष्कोणषट्कोणाकृतियुक्ताः रचनाः सन्ति ।

सागरतरङ्गैः शिलासु विविधाकृतयः निर्मिताः सन्ति । नालाः इव, नौकाः इव, आन्दोलिका इव ताः भान्ति । कोटिकोटिवर्षेभ्यः प्राक् भूगर्भेण उद्गतेन लावारसेन एतस्य निर्माणम् अभवत् इति वैज्ञानिकाः वदन्ति ।

एतस्य द्वीपस्य दर्शनं जीवने अविस्मरणीयं रोमाञ्चकारकं च अस्ति । शिलासु आरोहणम् अवरोहणं कर्तव्यं भवति । उन्नते शिलापर्वते स्थित्वा सागरदर्शनम् अतीव सन्तोषं जनयति । प्रवासिजनैः प्रदक्षिणाकरणस्य कश्चन मार्गः अस्ति ।

चतुर्षु द्वीपेषु उत्तरदिशि विद्यमाने द्वीपे असङ्ख्याकाः नारिकेलवृक्षाः सन्ति । अतः सः द्वीपः कोकोनट् ऐर्लेण्ड् इत्येव प्रसिद्धः अस्ति । दक्षिणदिशि विद्यमाने द्वीपे नौकानां मार्गदर्शनाय दीपगृहम् अस्ति । तदर्थम् एतं द्वीपं बहद्दूर् घर् इति आह्वयन्ति । वृष्टिकाले अत्र गमनं बहुकष्टम् । किन्तु अन्यसमये नौकया अत्र गन्तुं शक्यते ।

 

एतेषु द्वीपेषु एकस्य उपरि एकं शिलास्तम्भं योजितवन्तः इव दृश्यमानाः बह्व्यः चित्ताकर्षिकाः रचनाः दृश्यन्ते । एताः सन्तमेरीद्वीपस्य स्तम्भरचनाः । एकस्य शिल्पेः हस्तचातुर्येण निर्मितं सुन्दरं शिल्पमिव भ्रमं जनयन्ति एते स्तम्भाः ।

वैज्ञानिकदृष्ट्या एते द्वीपाः प्रमुखाः सन्ति । भूमेः इतिहासस्य दृष्ट्या द्वीपरचनां पश्यामः चेत् एते इतिहासस्य रोचकाः घटनाः उद्घाटयन्ति ।

षट्कोटिवर्षाणां पूर्वं यदा मानवः इतोऽपि जगति नासीत् तदा दक्षिणभारते ज्वालामुखीनां सरणिस्फोटः जातः । तदवसरे प्रवहितः शिलारसः दृढः भूत्वा दख्खन्प्रस्थभूमेः उत्पत्तिः अभवत् । तदा एव सन्तमेरीद्वीपानां जन्म अपि अभवत् । किन्तु अत्र ज्वालामुखीशिलाः यदा दृढाः अभवन् तदा स्तम्भरूपं प्राप्तवत्यः । दशाधिकपादपरिमिताः उन्नताः एताः परस्परं योजिताः इव दृश्यन्ते । दूरतः पश्यामः चेत् प्रकृत्या रचिता मनमोहकाकलाकृतिः इव इदानीमपि दृश्यते । भूविज्ञानस्य प्राध्यापकः सि.नागण्णः १९६६तमे वर्षे प्रथमवारम् एतस्य द्वीपस्य भूवैज्ञानिकमहत्त्वस्य इतिवृत्तं लिखितवान् ।


एषा सुन्दरी शिल्पकला प्रकृत्या कथं रचिता ? तडागस्य अङ्गणं कः वा न दृष्टवान् ? सः घर्मकाले शुष्कः भूत्वा, सङ्कुचितः भूत्वा पुनः विदलितः भवति इति तु सामान्यम् ।

शिलारसः अपि एवमेव । उपरि उद्गत्य यदा मन्दगतिं प्राप्नोति तदा शीतलं भवति । तदा सहस्राधिककेन्द्रबिन्दून् परितः समानान्तरेण छेदाः दृश्यन्ते । शिलारसस्य शीतलत्वात् पूर्वमेव यदि लम्बदिशि आकर्षणं भवति तर्हि शिलारसस्य स्तम्भाकारस्य रचनाः भवन्ति । एते चत्वारि वा पञ्च वा षड् वा बिन्दुषु यदा मिलन्ति तदा निर्दिष्टसंख्यायाः स्तम्भरचनाः भवन्ति ।

 

यदा शिलाः दृढाः भवन्ति तदनन्तरं स्तम्भस्य तिर्यक् दिशि छेदाः भवेयुः । तदा मापनशिलाः एकस्य उपरि योजिताः इव एताः स्तम्भाः दृश्यन्ते । एवं सन्ति मनमोहकस्य सन्तमेरीद्वीपस्य स्तम्भरचनाः ।

ऐर्लेण्डदेशस्य कास्पो, स्टाफ् द्वीपस्य फिङ्गर्स्केव्, सियारनिवाडस्य डेविल्स् पोस्ट् पैल्, क्यालिफोर्नियाप्रदेशे, रशियादेशस्य सैबीरियाप्रान्त्येषु च अद्भुतस्तम्भाः, चतुरस्राकारिका भूरचनाः सन्ति । कर्णाटकस्य सन्तमेरीद्वीपस्य आकृतेः तथा अत्रत्य-आकृतेः च बहुसाम्यता अस्ति ।

प्रकृत्या निर्मिताः एताः शिल्पकलाः रक्षणियाः । किन्तु अज्ञानेन जनाः एतान् नाशयन्ति । उदाहरणाय –मुम्बयीनगरस्य अन्धेर्यां एतादृशाः स्तम्भरचनाः यथेष्टाः आसन् । किन्तु नागरिकाः सुलभतया प्राप्यमानाः शिलाः उपयुज्य भवनस्य निर्माणकार्यं कृत्वा ताः समापितवन्तः । इदानीं तत्र शिलाः आसन् इत्यपि साक्ष्यं नास्ति ।

अनेन कारणेन भारतीयभूवैज्ञानिकसर्वेक्षणसंस्था कर्णाटकस्य सर्वकारस्य सहयोगेन सन्तमेरीद्वीपं राष्ट्रियभूवैज्ञानिकस्मारकम् इति घोषयित्वा तस्य संरक्षणार्थं क्रमान् स्वीकृतवती अस्ति ।

इदानीं चित्ताकर्षकानां शिलानां सन्तमेरीद्वीपाः अधिकाधिकान् प्रवासिनः आकर्षयन्त्यः सन्ति ।

धूमशकटमार्गः

सम्पादयतु

मुम्बयी-तिरुवनन्तपुरम् मार्गे उडुपीनिस्थानम् अस्ति । ततः ५ कि.मी

वाहनमार्गः

सम्पादयतु

उडुपीतः मल्पे पर्यन्तं नगरवाहनानि सन्ति । ततः नौकायानेन गन्तव्यम् । उडुपीनगरे वसति भोजनादिकं व्यवस्थितम् अस्ति । द्वीपे जलाहाराः न प्राप्यन्ते ।

बाह्यानुबन्धाः

सम्पादयतु