समं पश्यन्हि सर्वत्र...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
- न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २८ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।
पदच्छेदः
सम्पादयतुसमं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् न हिनस्ति आत्मना आत्मानं ततः याति परां गतिम् ॥ २८ ॥
अन्वयः
सम्पादयतुसर्वत्र समवस्थितम् ईश्वरं समं पश्यन् हि आत्मना आत्मानं न हिनस्ति ततः परां गतिं याति ।
शब्दार्थः
सम्पादयतु- समवस्थितम् = विद्यमानम्
- ईश्वरम् = परमात्मानम्
- आत्मना = स्वेन
- आत्मानम् = स्वम्
- न हिनस्ति = न पीडयति
- पराम् = प्रकृष्टाम्
- गतिम् = स्थितिम् (मोक्षम्)
- याति = गच्छति ।
अर्थः
सम्पादयतुसर्वेषु प्राणिषु वर्तमानम् इमं परमात्मानं यः समभावेन पश्यति सः नहि आत्मना आत्मानं हिंसितुं प्रभवति, भेदाभावात् । तादृशः भेदज्ञानरहितः मुक्तिं प्राप्नोति ।